मरीचिका (शाकम्)
पठन सेटिंग्स
(मरीचिका इत्यस्मात् पुनर्निर्दिष्टम्)
इयं मरीचिका अपि भारते वर्धमानः, महता प्रमाणेन उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । एषा मरीचिका आङ्लभाषायां Chilli इति उच्यते । अस्याः मरीचिकायाः वैज्ञानिकं नाम अस्ति Capsicum annum इति । भारते सर्वत्र मरीचिकायाः उपयोगः क्रियते एव । कटुरसयुक्तानाम् आहारपदार्थानां निर्माणे मरीचिकायाः पात्रं महत् भवति । संस्कृते मरीचिकायाः “लङ्का” इति अपि नाम अस्ति । एषा मरीचिका द्विधा भवति – हरिन्मरीचिका (अशुष्का मरीचिका), रक्तमरीचिका (शुष्का मरीचिका) च इति ।
आयुर्वेदस्य अनुसारम् अस्याः मरीचिकायाः स्वभावः
[सम्पादयतु]मरीचिका पोषकमूल्यं प्रति 100 ग्रा.(3.5 ओंस) | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
शक्तिः 40 किलो कैलोरी 170 kJ | ||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||
प्रतिशतं एकः वयस्कस्य कृते उपदेशं सापेक्षम् अस्ति । स्रोतः :USDA Nutrient database |
एषा अत्यन्तं कटुरुचियुक्ता, तीक्ष्णा च । गुणेषु उष्णगुणयुक्ता च ।
- “लङ्का तीक्ष्णकटूष्णाति लालास्रावकरी मता ।
- विदाहजननी पित्तकारिणी कफवातहृत् ॥“ (द्रव्यगुणविज्ञानम्)
- “अरोचशीतः कफवातहानिणी विपाचिनी शोणितपित्तकारिणी ।
- मेदोऽक्षिनिद्रानलमान्द्यकारिणी विसूचिकान् कृन्तति पित्तकारिणी ।“ (सिद्धभेषजमाला)
- १. मरीचिका धातून् पचति ।
- २. मरीचिका बुद्धिशक्तिं, दृष्टिशक्तिं, जीर्णशक्तिं च न्यूनीकरोति ।
- ३. मरीचिका रक्तप्रदा, पित्तप्रदा च । अतः पित्तप्रकृतियुक्ताः, पित्तप्रधानरोगेण पिडिताः वा मितप्रमाणेन सेवेरन् ।
- ४. मरीचिका मुखे अरुचिं जनयति ।
- ५. मरीचिका अग्निमान्द्यं जनयति ।
- ६. मरीचिका अतिमलप्रवृत्तिम् उत्पादयति । मलविसर्जनावसरे ज्वलनम् अपि जनयति ।
- ७. मरीचिका शरीरे विदाहं जनयति ।
- ८. मरीचिका वीर्यक्षयं करोति ।
- ९. मरीचिका कफदोषं वातदोषं च निवारयति ।
- १०. मरीचिका अत्युष्णा, लालास्रावं जनयति च ।
- ११. मरीचिकायाः उपयोगं महता प्रमाणेन बालाः, वृद्धाः, गर्भवत्यः, आम्लपित्तरोगेण (Acidity) बाधिताः च न कुर्युः ।
- १२. अधिकप्रमाणेन मरीचिका सेविता चेत् तद्दोषस्य निवारणार्थं दुग्धं वा घृतं वा सेवेरन् ।
चित्रवीथिका
[सम्पादयतु]-
रक्तमरीचिका
-
मरीचिकासस्यम्
-
हरिन्मरीचिका रक्तमरीचिका च
-
मरीचिकानां शुष्कीकरणम्
-
मरीचिकां संस्थाप्य निर्मितः व्यञ्जनविशेषः