मरीचिका (शाकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरिन्मरीचिका

इयं मरीचिका अपि भारते वर्धमानः, महता प्रमाणेन उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । एषा मरीचिका आङ्लभाषायां Chilli इति उच्यते । अस्याः मरीचिकायाः वैज्ञानिकं नाम अस्ति Capsicum annum इति । भारते सर्वत्र मरीचिकायाः उपयोगः क्रियते एव । कटुरसयुक्तानाम् आहारपदार्थानां निर्माणे मरीचिकायाः पात्रं महत् भवति । संस्कृते मरीचिकायाः “लङ्का” इति अपि नाम अस्ति । एषा मरीचिका द्विधा भवति – हरिन्मरीचिका (अशुष्का मरीचिका), रक्तमरीचिका (शुष्का मरीचिका) च इति ।


आयुर्वेदस्य अनुसारम् अस्याः मरीचिकायाः स्वभावः[सम्पादयतु]

मरीचिका
पोषकमूल्यं प्रति 100 ग्रा.(3.5 ओंस)
शक्तिः 40 किलो कैलोरी   170 kJ
कार्बोहाइड्रेट्     8.8 g
- शर्करा  5.3 g
- आहारीयतन्तवः  1.5 g  
मेदः 0.4 g
प्रोटीन् 1.9 g
जलम् 88 g
विटामिन् ए equiv.  48 μg  5%
- बीटा-कैरोटीन्  534 μg  5%
विटामिन् B6  0.51 mg 39%
विटामिन् C  144 mg 240%
आहारीयलौहः  1 mg 8%
मैग्नेशियम्  23 mg 6% 
पोटेशियम्  322 mg   7%
Capsaicin 0.01g – 6 g
प्रतिशतं एकः वयस्कस्य कृते
उपदेशं सापेक्षम् अस्ति ।
स्रोतः :USDA Nutrient database

एषा अत्यन्तं कटुरुचियुक्ता, तीक्ष्णा च । गुणेषु उष्णगुणयुक्ता च ।

“लङ्का तीक्ष्णकटूष्णाति लालास्रावकरी मता ।
विदाहजननी पित्तकारिणी कफवातहृत् ॥“ (द्रव्यगुणविज्ञानम्)
“अरोचशीतः कफवातहानिणी विपाचिनी शोणितपित्तकारिणी ।
मेदोऽक्षिनिद्रानलमान्द्यकारिणी विसूचिकान् कृन्तति पित्तकारिणी ।“ (सिद्धभेषजमाला)
१. मरीचिका धातून् पचति ।
२. मरीचिका बुद्धिशक्तिं, दृष्टिशक्तिं, जीर्णशक्तिं च न्यूनीकरोति ।
३. मरीचिका रक्तप्रदा, पित्तप्रदा च । अतः पित्तप्रकृतियुक्ताः, पित्तप्रधानरोगेण पिडिताः वा मितप्रमाणेन सेवेरन् ।
४. मरीचिका मुखे अरुचिं जनयति ।
५. मरीचिका अग्निमान्द्यं जनयति ।
६. मरीचिका अतिमलप्रवृत्तिम् उत्पादयति । मलविसर्जनावसरे ज्वलनम् अपि जनयति ।
७. मरीचिका शरीरे विदाहं जनयति ।
८. मरीचिका वीर्यक्षयं करोति ।
९. मरीचिका कफदोषं वातदोषं च निवारयति ।
१०. मरीचिका अत्युष्णा, लालास्रावं जनयति च ।
११. मरीचिकायाः उपयोगं महता प्रमाणेन बालाः, वृद्धाः, गर्भवत्यः, आम्लपित्तरोगेण (Acidity) बाधिताः च न कुर्युः ।
१२. अधिकप्रमाणेन मरीचिका सेविता चेत् तद्दोषस्य निवारणार्थं दुग्धं वा घृतं वा सेवेरन् ।

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मरीचिका_(शाकम्)&oldid=356823" इत्यस्माद् प्रतिप्राप्तम्