सामग्री पर जाएँ

गुण्टूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
గుంటూరు
गुण्टूरुमण्डलम्
City of chillies, City of Spices
  मण्डलम्  
गुण्टूरुमण्डलं परितः सुन्दरं दृश्यम्
गुण्टूरुमण्डलं परितः सुन्दरं दृश्यम्
గుంటూరు
गुण्टूरुमण्डलम्
Location of గుంటూరు
गुण्टूरुमण्डलम्
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१६°१८′०३″उत्तरदिक् ८०°२६′३४″पूर्वदिक् / 16.3008°उत्तरदिक् 80.4428°पूर्वदिक् / १६.३००८; ८०.४४२८

देशः भारतम्
भूप्रदेशः आन्द्रप्रदेशः
राज्यम् आन्ध्रप्रदेशः
मण्डलम् गुण्टूरुमण्डलम्,
Mayor रामाञ्जनेयुलु (अधिकारे वर्तते)
Municipal Commissioner एन् । सुधाअकरः
संसद्सदस्यः गल्ला जयदेव
सांसदक्षेत्रम् गुण्टूरुमण्डलम्
योजनायोगः GMC, VGTMUDA
जनसङ्ख्या

• महानगरम्

 (2007)

१४,३८,९४६ (2007)

लिङ्गानुपातः 984[] /
व्यावहारिकभाषा(ः) तेलुगु, उर्दू[]
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्
• तीरप्रदेशः

63.15 वर्ग किलोमीटर (24.38 वर्ग मील)

30 मीटर (98 फ़ुट)
66 किलोमीटर (41 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Tropical (कोप्पेन्)

     989.1 मिमी (38.94 इंच)
     27 °से (81 °फ़ै)
     48 °से (118 °फ़ै)
     18.6 °से (65.5 °फ़ै)

जालस्थानम् www.gunturcorporation.org

गुण्टूरुमण्डलम् (Guntur District) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं गुण्टूरुनगरम् ।

इतिहासः

[सम्पादयतु]

शौर्यपराक्रमादीनां जन्मभूमिः जातीयोद्यमान्ध्रोद्यमयोः स्पूर्तिप्रदायकं, बहुभिः राजकुटुम्बैः पालितराजधानी गुण्टूरुमण्डलम् । शातवाहनराजाः धान्यकटकनाम्ना अमरावतीम्, इक्ष्वाकवः विजयपुरीनाम्ना नागार्जुनसागरम्, आनन्दगोत्रिजः चेजेर्लं, विष्णुकुण्डिनः विनुकोण्डग्रामं, वेलनाटिचोलराजाः तेनालिसमीपस्य धनपुरम् इत्यादीः राजधानीः कृत्वा तेषु कालेषु सम्यग्रीत्या अपालयन् । एते सर्वेपि अस्मिन् मण्डले विद्यमानाः एव । पल्नाडुसङ्ग्रामः कारम्पूडिमाचर्लप्रान्तयोः मध्ये संवृत्तः । ब्रीटिशाधिकारं निरुध्दवान् । अत्रैव कन्नेगण्टिहनुमन्तमहाशयः । चीरालपेरालशुल्कदाननिराकरणोद्यमः, दुग्गिरालगोपालकृष्णय्यवर्येण चालितः अत्र ।

भौगोलिकम्

[सम्पादयतु]

अस्य मण्डलस्य उत्तरदिशे नल्गोण्ड,कृष्णमण्डलं, दक्षिणदिशे प्रकाशमण्डलं, पश्चिमदिशे महबूबनगरमण्डलं, प्राग्दिशि च बङ्गालाखातसमुद्रः कृष्णमण्डलं च वर्तन्ते । मण्डलेस्मिन् नल्लमलारण्यम्, उन्नतपर्वताः च सन्ति । नीलशिलाः, वज्राणि, ताम्रम्, अयः इत्यादीनि खनिजानि उपलभ्यन्ते । सत्तेनपल्लीसमीपस्य कोल्लूरुग्रामपरिधौ वज्राणाम् उपलब्धिः आसीत् । माडुगुलः, मल्लवरं, सारङ्गपल्ली इत्यादिप्रान्तेषु वज्रनिधिः, पिडुगुराल्लमाचर्लमध्यप्रान्तेषु च नेलशिलानां निक्षेपाः सन्ति । मण्डले बहुलार्थसाधकसेतोः निर्माणम् आसीत् । नागार्जुनसागरप्रान्ते कृष्णानद्याः उपरि अस्य दक्षिणभागे विद्यमानया कुल्यया मण्डलस्य कृषिभूमये जलं प्रेष्यते । अस्मिन् मण्डले पञ्चरेल्मार्गाः वर्तन्ते ।

कृषिः वाणिज्यं च

[सम्पादयतु]

प्रधानविनियोगसेद्यं धान्यम् । वाणिज्यनिमित्तं कलायः, कार्पासः, मरीचानां सेद्यं भवति । पञ्जसु स्थानेषु कृषिपरिशोधनकेन्द्राणि वर्तन्ते । मण्डले रेल् तथा रोड्मार्गः भूरि विस्तृतः । मण्डले बहूनि वाणिज्यक्षेत्राणि सन्ति । वड्लमूडिप्रान्ते क्षीरोत्पत्तिकर्मागारः, जम्पनिप्रान्ते शर्कराकर्मागारः माचर्ला सीतापुरप्रान्तयोः सिमेण्ट् कर्मागारः च वर्तन्ते । बापट्लग्रामे कृषिमहाविद्यालयः मङ्गलगिरिग्रामे कुटीरपरिश्रमाः सन्ति । कृषकाणां आसक्तिः वर्जिनिया तम्बाकुः तथा उत्तमकार्पासस्य उत्पादने ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अमरावती ग्रामे पुरातत्त्वशाखायाः प्रदर्शनशाला, चेजेर्लप्रान्ते कपोतेश्वरस्वामिदेवालयः वर्तते । अमरावती, पोन्नूरुः, माचर्ला, चेब्रोलुः, बापट्लः च इत्यादिषु प्रान्तेषु प्राचीनशिल्पकलावैभवं प्रतिभाति । १९७६ तमे वर्षे गुण्टूरुसमीपे नागार्जुनानगरे आचार्यनागार्जुननाम्ना विश्वविद्यालयः संस्थापितः । मण्डले विद्यमानाः, विद्यालयाः सर्वे नागार्जुनविश्वविद्यालयपरिधौ आयान्ति ।

तालुकाः

[सम्पादयतु]
गुन्टूरुमण्डलस्य प्राचीनदेवालयः
नागार्जुनजलपातम्

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=गुण्टूरुमण्डलम्&oldid=482709" इत्यस्माद् प्रतिप्राप्तम्