गुण्टूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
గుంటూరు
गुण्टूरुमण्डलम्
City of chillies, City of Spices
—  मण्डलम्  —
गुण्टूरुमण्डलं परितः सुन्दरं दृश्यम्
गुण्टूरुमण्डलं परितः सुन्दरं दृश्यम्
గుంటూరు
गुण्टूरुमण्डलम्
Location of గుంటూరు
गुण्टूरुमण्डलम्
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१६°१८′०३″उत्तरदिक् ८०°२६′३४″पूर्वदिक् / 16.3008°उत्तरदिक् 80.4428°पूर्वदिक् / १६.३००८; ८०.४४२८

देशः भारतम्
भूप्रदेशः आन्द्रप्रदेशः
राज्यम् आन्ध्रप्रदेशः
मण्डलम् गुण्टूरुमण्डलम्,
Mayor रामाञ्जनेयुलु (अधिकारे वर्तते)
Municipal Commissioner एन् । सुधाअकरः
संसद्सदस्यः गल्ला जयदेव
सांसदक्षेत्रम् गुण्टूरुमण्डलम्
योजनायोगः GMC, VGTMUDA
जनसङ्ख्या

• महानगरम्

 (2007)

१४,३८,९४६ (2007)

लिङ्गानुपातः 984[१] /
व्यावहारिकभाषा(ः) तेलुगु, उर्दू[२]
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्
• तीरप्रदेशः

63.15 वर्ग किलोमीटर (24.38 वर्ग मील)

30 मीटर (98 फ़ुट)
66 किलोमीटर (41 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Tropical (कोप्पेन्)

     989.1 मिमी (38.94 इंच)
     27 °से (81 °फ़ै)
     48 °से (118 °फ़ै)
     18.6 °से (65.5 °फ़ै)

जालस्थानम् www.gunturcorporation.org

गुण्टूरुमण्डलम् (Guntur District) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं गुण्टूरुनगरम् ।

इतिहासः[सम्पादयतु]

शौर्यपराक्रमादीनां जन्मभूमिः जातीयोद्यमान्ध्रोद्यमयोः स्पूर्तिप्रदायकं, बहुभिः राजकुटुम्बैः पालितराजधानी गुण्टूरुमण्डलम् । शातवाहनराजाः धान्यकटकनाम्ना अमरावतीम्, इक्ष्वाकवः विजयपुरीनाम्ना नागार्जुनसागरम्, आनन्दगोत्रिजः चेजेर्लं, विष्णुकुण्डिनः विनुकोण्डग्रामं, वेलनाटिचोलराजाः तेनालिसमीपस्य धनपुरम् इत्यादीः राजधानीः कृत्वा तेषु कालेषु सम्यग्रीत्या अपालयन् । एते सर्वेपि अस्मिन् मण्डले विद्यमानाः एव । पल्नाडुसङ्ग्रामः कारम्पूडिमाचर्लप्रान्तयोः मध्ये संवृत्तः । ब्रीटिशाधिकारं निरुध्दवान् । अत्रैव कन्नेगण्टिहनुमन्तमहाशयः । चीरालपेरालशुल्कदाननिराकरणोद्यमः, दुग्गिरालगोपालकृष्णय्यवर्येण चालितः अत्र ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य उत्तरदिशे नल्गोण्ड,कृष्णमण्डलं, दक्षिणदिशे प्रकाशमण्डलं, पश्चिमदिशे महबूबनगरमण्डलं, प्राग्दिशि च बङ्गालाखातसमुद्रः कृष्णमण्डलं च वर्तन्ते । मण्डलेस्मिन् नल्लमलारण्यम्, उन्नतपर्वताः च सन्ति । नीलशिलाः, वज्राणि, ताम्रम्, अयः इत्यादीनि खनिजानि उपलभ्यन्ते । सत्तेनपल्लीसमीपस्य कोल्लूरुग्रामपरिधौ वज्राणाम् उपलब्धिः आसीत् । माडुगुलः, मल्लवरं, सारङ्गपल्ली इत्यादिप्रान्तेषु वज्रनिधिः, पिडुगुराल्लमाचर्लमध्यप्रान्तेषु च नेलशिलानां निक्षेपाः सन्ति । मण्डले बहुलार्थसाधकसेतोः निर्माणम् आसीत् । नागार्जुनसागरप्रान्ते कृष्णानद्याः उपरि अस्य दक्षिणभागे विद्यमानया कुल्यया मण्डलस्य कृषिभूमये जलं प्रेष्यते । अस्मिन् मण्डले पञ्चरेल्मार्गाः वर्तन्ते ।

कृषिः वाणिज्यं च[सम्पादयतु]

प्रधानविनियोगसेद्यं धान्यम् । वाणिज्यनिमित्तं कलायः, कार्पासः, मरीचानां सेद्यं भवति । पञ्जसु स्थानेषु कृषिपरिशोधनकेन्द्राणि वर्तन्ते । मण्डले रेल् तथा रोड्मार्गः भूरि विस्तृतः । मण्डले बहूनि वाणिज्यक्षेत्राणि सन्ति । वड्लमूडिप्रान्ते क्षीरोत्पत्तिकर्मागारः, जम्पनिप्रान्ते शर्कराकर्मागारः माचर्ला सीतापुरप्रान्तयोः सिमेण्ट् कर्मागारः च वर्तन्ते । बापट्लग्रामे कृषिमहाविद्यालयः मङ्गलगिरिग्रामे कुटीरपरिश्रमाः सन्ति । कृषकाणां आसक्तिः वर्जिनिया तम्बाकुः तथा उत्तमकार्पासस्य उत्पादने ।

वीक्षणीयस्थलानि[सम्पादयतु]

अमरावती ग्रामे पुरातत्त्वशाखायाः प्रदर्शनशाला, चेजेर्लप्रान्ते कपोतेश्वरस्वामिदेवालयः वर्तते । अमरावती, पोन्नूरुः, माचर्ला, चेब्रोलुः, बापट्लः च इत्यादिषु प्रान्तेषु प्राचीनशिल्पकलावैभवं प्रतिभाति । १९७६ तमे वर्षे गुण्टूरुसमीपे नागार्जुनानगरे आचार्यनागार्जुननाम्ना विश्वविद्यालयः संस्थापितः । मण्डले विद्यमानाः, विद्यालयाः सर्वे नागार्जुनविश्वविद्यालयपरिधौ आयान्ति ।

तालुकाः[सम्पादयतु]

गुन्टूरुमण्डलस्य प्राचीनदेवालयः
नागार्जुनजलपातम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुण्टूरुमण्डलम्&oldid=482709" इत्यस्माद् प्रतिप्राप्तम्