कोल्लूरु
कोल्लुरु मण्डलम्/ಕೊಲ್ಲೂರು | |
|---|---|
|
ग्रामः | |
|
श्रिकोल्लुर्मूकाम्बिका मन्दिरम् | |
| राष्ट्रम् |
|
| राज्यम् | कर्णाटकराज्यम् |
| मण्डलम् | उडुपी |
| संस्थापनम् | 1997 |
| Population | ११,१२,२४३ |
| भाषाः | |
| • अधिकृत | कन्नडभाषा |
| • भाष्यमानाः भाषाः | तुलुभाषा, कन्नडभाषा, कोन्कनीभाषा |
| Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
| पत्रालयकूटसंख्या |
576 220 |
| ISO 3166 code | IN-KA-UD |
| Website | www.kollur.com |
कोल्लूरु (Kollur) कर्णाटकराज्यस्य उडुपीमण्डले विद्यमानं प्रसिद्धं यात्रास्थानं विद्यते । पुराणानुसारं महारणपुरम् इति इदं प्रसिद्धम् आसीत् । पश्चिमपर्वतश्रेणीषु कोडचाद्रिपर्वतस्य सानुप्रदेशे श्रीमूकाम्बिकादेवालयः महर्षिणा परशुरामेण निर्मितः इति पौराणिकाधारः अस्ति । अत्रत्या देवता पर्वतेश्वरी पार्वती श्रीमूकाम्बिकादेवी । इदं सिद्धपीठम् । श्रीशङ्कराचार्याः तपः आचरणीयम् इति निश्चित्य अत्र आगत्य श्रीचक्राराधनं कृतवन्तः इति इतिहासे उल्लेखः अस्ति ।
गर्भगृहे स्वर्णरेखासहितः शिवलिङ्गः अस्ति । अत्र मूकाम्बिकादेवी शिवेन सह आगत्य लिङ्गरूपेण प्रत्यक्षा भूत्वा मूकासुरं घातितवती । अतः कोल्लूरु शिवशक्त्याः सङ्गमः इति वदन्ति। शक्तिक्षेत्रम् इत्यपि इदं प्रसिद्धम् । पञ्चमुखगणेशः अत्रत्यम् अन्यत् आकर्षणम् । दक्षिणभारतीयाः भक्ताः अत्र महता प्रमाणेन आगच्छन्ति । श्रीवादिराजस्वामिनः अत्र आगत्य देवीं कात्यायनीं 'दुर्गे' इति प्रार्थितवन्तः । प्रतिदिनम् अत्र होमहवनादिकम् अन्नदानं च प्रचलति।

मार्गः
[सम्पादयतु]
- कुन्दापुरतः ४८ कि.मी
- बैन्दूरुतः ३२ कि.मी
- उडुपीतः ८० कि.मी
- शिवमोग्गा, बेङ्गलूरु, केरल, तमिळुनाडुतः अपि लोकयानव्यवस्था अस्ति ।
वसतिः
[सम्पादयतु]देवालयस्य वसतिगृहाणि सन्ति ।
