सवदत्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सवदत्ती

सवदत्ती

ಸವದತ್ತಿ
नगरम्
रेणुकादेवीमन्दिरम्
रेणुकादेवीमन्दिरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावीमण्डलम्
Elevation
६१० m
Population
 (2001)
३८,१५५
 • Density २,३८४.६९/km
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
591 126
दूरवाणीकूटसंख्या 08330
Vehicle registration KA-24


सवदत्ती (Saundatti) कर्णाटकराज्यस्य बेळगावीमण्डले विद्यमानं किञ्चन पवित्रं क्षेत्रम् । बेळगावीमण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति सवदत्ती-उपमण्डलम् । सवदत्तीनगरे अनेकानि प्राचीनमन्दिराणि सन्ति । मण्डलकेन्द्रात् बेळगावीनगरात् ७८कि.मी.दूरे सवदत्ती अस्ति ।

सञ्चिका:Saudatti 1.jpg
सवदत्तीक्षेत्रम्

सवदत्तीनगरस्य std code अस्ति ०८३३०। द्विसहस्रवर्षप्राचीनं श्री रेणुकादेव्याः जागृतं स्थानम् एतत् क्षेत्रम् अस्ति । रेणुकादेवीम् एल्लम्मा देवी इति च कथयन्ति । महर्षिः जमदग्निः अत्र तपः आचरितवान् । अत्र सप्त सुन्दराः ह्रदाः सन्ति । मङ्गलवासरे शुक्रवासरे श्रावणमासे पूर्णिमातिथौ च अत्र बहुजनाः आगच्छन्ति । इष्टार्थदायकं पवित्रं क्षेत्रम् एतत् । अत्र बनदहुण्णिमे(माघमासस्य पूर्णिमा)पर्यन्तं यात्रोत्सवः प्रचलति । एतं ‘एल्लम्मादेवी जात्रे’ इति कथयन्ति ।

इतिहासः[सम्पादयतु]

एतस्य नगरस्य ऐतिहासिकं नाम सुगन्धवर्ती । एतत् रट्टवंशीयानाम् राजधानी( ८७५ तः -१२३० पर्यन्तम्) आसीत् । तदनन्तरं बेळगावीं प्रति राजधानी स्थानान्तरिता अभवत् । द्वादशे त्रयोदशे शतके च बेळगावी रट्टवंशीयानां राजधानी आसीत् । बेळगावीनगरस्थं दुर्गं रट्टवंशीयः बिचिराजः १२०४ तमे वर्षे निर्मितवान् । रट्टराज्यं राष्ट्रकूटसाम्राज्यात् पृथक् जातं राज्यम् । ९७३तः ९७७तमवर्षपर्यन्तम् रट्टाः द्वितीयतैलस्य अधीनराजाः आसन् । बेळगावीदुर्गस्य द्वयोः स्तम्भयोः कन्नडशिलाशासनानि नागरीलिप्या सन्ति । तयोः अन्यतमं ११९९तमे वर्षे रट्टवंशीयस्य चतुर्थकार्तवीर्यस्य काले निर्मितम् । अपरं शिलाशासनं सवदत्तीरट्टवंशीयः तृतीयः कृष्णः पृथ्वीवर्माणं सामन्तरूपेण अङ्गीकृतवान् इति सूचयति ।

शिलाशासनानि[सम्पादयतु]

सवदत्तीनगरे कन्नडभाषया तथा संस्कृतभाषया प्राप्ते द्वे जैनशिलाशासने राष्ट्रकूटवंशीयस्य कृष्णस्य( ७९७ शकवर्षम् अथवा ८७५सामान्यवर्षम्) , तथा विक्रमादित्यस्य(शकवर्षं १०१७ अथवा १०९५सामान्यवर्षम्) विषयः अस्ति । चालुक्यनिर्मितस्य अङ्कलेश्वरमन्दिरस्य पुरतः रट्टराजेन अङ्करसेन स्थापितं शिलाशासनम् अस्ति ।

जैनधर्मः[सम्पादयतु]

सवदत्तीरट्टाः जैनाः। एते तथा एतेषां सामन्तराजाः जैनधर्मस्य आराधकाः असन् । रट्टकालीने द्वे जैनमन्दिरे सवदत्तीनगरे स्तः।

प्रवासोद्यमः[सम्पादयतु]

सवदत्तीदुर्गम्[सम्पादयतु]

अष्टादशशतके शिरसङ्गीदेसायीद्वारा निर्मितम् एतत् दुरगम् । अस्मिन् दुर्गे काडसिद्धेश्वरमन्दिरम् अस्ति । अस्य मन्दिरस्य प्राकारे द्विशताधिकानि रेखाचित्राणि उत्कीर्णानि सन्ति । तेषु कतिचन वर्णाङ्कितानि ।

सवदत्तीदुर्गस्य चित्राणि[सम्पादयतु]

रेणुकासागरः[सम्पादयतु]

रेणुकासागरजलागारः

मार्गः[सम्पादयतु]

धारवाडतः ३० कि.मी ।
बेळगावीतः ७८ कि.मी ।
बेङ्गळूरुतः ४९३ कि.मी.
"https://sa.wikipedia.org/w/index.php?title=सवदत्ती&oldid=376795" इत्यस्माद् प्रतिप्राप्तम्