सामग्री पर जाएँ

बेळगावीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बेळगावीमण्डलम्
मण्डलम्
बेळगावीमण्डले गोकाकजलपातः
बेळगावीमण्डले गोकाकजलपातः
कर्णाटकराज्ये बेळगावीमण्डलम्
कर्णाटकराज्ये बेळगावीमण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागम् बेळगावीविभागम्
केन्द्रम् बेळगावीनगरम्
Area
  Total १३,४१५ km
Population
 (2011)[]
  Total ४७,७८,४३९
  Density ३६०/km
भाषाः
  अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयकालमानम्)
लिङ्गानुपातम् 1.04 पु/स्त्री
साक्षरत्तापरिमाणम् 64.2%
Precipitation 823 मिलीमीटर (32.4 इंच)
Website belgaum.nic.in

इतिहासः

[सम्पादयतु]

बेळगावीमण्डलम् (Belgaum district) उत्तरकर्णाटकस्य प्रधानं मण्डलम् । कर्णाटकस्य अतिविशालं प्रमुखं च मण्डलम् एतत् । बेलगावीप्रदेशस्य प्रचीनं नाम वेणुग्रामः इति । हलसि इति प्रदेशे प्राप्तस्य ताम्रशासनपत्रानुसारम् एतत् कदम्बवंशीयानां राज्ञां राजधानी आसीत् इति ज्ञायते । षष्ठशतकात् क्रि.श. ७६०पर्यन्तमपि चालुक्यानां प्रशासने आसीत् इति वदन्ति । कालान्तरे राष्ट्रकूटाः शासनं कृतवन्तः । क्रि.श. १५२० तमे वर्षे देवगिरियादवाः अत्र शासनं कुर्वन्ति स्म इति ज्ञायते । कालान्तरे विजयनगरसाम्राज्यम्। क्रि.श.१४७२ तमे वर्षे बहमनिसुल्तान्जनाः बेलगाव्याः उत्तरभागं जितवन्तः । क्रि.श.१४७३ तमे वर्षे बिजापुरसुल्तानः औरङ्गजेबेन पराजितः । अतः अनन्तरं कञ्चित्कालं यावत् बेलगावी मुघलसाम्राज्यस्य अधीने आसीत् । क्रि.श.१८१८ तमे वर्षे ब्रिटीशानां वशं गत्वा धारवाडमण्डलस्य एव भागः अभवत् । क्रि.श.१९४७ तमे वर्षे यदा भारतं स्वतन्त्रम् अभवत् तदा बेलगावी मुम्बयीराज्यस्य भागः अभवत् । क्रि.श. १९५६ तमे वर्षे यदा राज्यानां पुनर्विभागः अभवत् तदा बेलगावी मैसूरुराज्ये अन्तर्गतम् । कालक्रमेण मैसूरु कर्णाटकम् अभवत् । कित्तूरुनगरस्य इतिहासे अस्य मण्डलस्य महत्त्वं स्थानम् अस्ति । कित्तूरु चेन्नम्मा साहसस्य धैर्यस्य प्रतीका अस्ति भारतीयेतिहासे । आङ्ग्लप्रशासनस्य विरुद्धं आक्रमणं कृतवान् अन्यः सङ्गोळ्ळी रायण्णः अपि अस्य मण्डलस्य प्रजा एव । स्वातन्त्र्योत्तरकाले महात्मागान्धिमहोदयस्य आध्यक्षे ३९ तमं भारतीयकाङ्ग्रेस् अधिवेशनं बेळगावीनगरे अभवत् ।

विस्तीर्णता

[सम्पादयतु]

१३४१ च.कि.मी


भैगोलिकता

[सम्पादयतु]

बेळगावीमण्डलं समुद्रस्तरात् ७६२मी. औन्नत्ये अस्ति । राज्यराजधानीबेङ्गळूरुतः ५०१ कि.मी. दूरे राज्यस्य वायव्यदिशि स्थितम् । इतः मुम्बयी केवलं ५५०कि.मी दूरे, गोवानगरं १५९ कि.मी दूरे अस्ति । सह्याद्रिपर्वतस्य सानुप्रदेशे सिन्धुसागरात् १५० कि.मी. दूरे इदं मण्डलं शोभते । जनजीवनार्थम् अनुकूलकरं वातावरणं, यथेच्छं वर्षा च अस्य मण्डलस्य प्रकृतिगुणः । अस्मिन् मण्डले १२७८ ग्रामाः सन्ति । विस्तीर्णता १३,४१५ km² । २००१ तमवर्षस्य जनगणनानुसारं जनसङ्ख्या ४८लक्षमिता अस्ति (४७,७८,४३९)। प्रकृतं कर्णाटकराज्यस्य मण्डलेषु अत्यन्तं विशालं मण्डलम् एतत् । सह्याद्रिपर्वतश्रेण्याः पादतले एव विराजते एतत् मण्डलम् । अरब्बिसागरः १००कि.मी.दूरे अस्ति । मार्कण्डेयानदी निकटे एव प्रवहति ।

कृष्णा, घटप्रभा, मलप्रभा, मार्कण्डेया, हिरण्यकेशी, दूधगङ्गा, वेदगङ्गा च अस्य मण्डलस्य प्रमुखाः नद्यः सन्ति । रासकोप्प, हिडकल्, नविलुतीर्थं च विशालाः जलबन्धाः अत्र सन्ति ।

संस्कृतिः

[सम्पादयतु]

समग्रभारतम् इव विविधतायाम् एकता बेलगावीमण्डलस्य वैशिष्ट्यम् । अत्र प्रादेशिकदृष्ट्या यद्यपि कन्नडभाषिकाः अधिकाः सन्ति तथापि मराठीभाषिकाः अपि अधिक्येन सन्ति । उत्तरकर्णाटकस्य एव जीवनशैली अत्र दृश्यते ।

वाणिज्योद्यमाः

[सम्पादयतु]

अत्र इन्दाल् (भारतीय अल्युमिनियं कम्पनि ) यन्त्रोद्यमः प्रसिद्धः । भारतीयवायुसेनायाः प्रशिक्षणार्थं विमाननिस्थानकम् अपि अस्ति । एतत् उत्तरकर्णाटकस्य प्रधानं वाणिज्यकेन्द्रम् अस्ति । वृक्षकाण्डानां, पीठोपकरणानां, मत्स्यानां, खनिजवस्तूनाम्, अयोमूलानां वाणिज्योद्यमाः सम्यक् प्रचलन्ति । बेङ्गळूरु इव ऐटि उद्यमः सम्यक् चलति । वस्त्रोद्यमः अपि गण्नीयप्रमाणेन अस्ति ।

दर्शनीयानि स्थानानि

[सम्पादयतु]

गोकाकजलपातः, तडसल श्रीमहालिङ्गेश्वरदेवालयः, हलेयकल्लिनकोटे, कोटेकेरे, कमलबसदि, स्वामीविवेकानन्दाश्रमः, कपिलेश्वरमन्दिरम्, हिडकल्जलबन्धः, मनवळ्ळी नविलुतीर्थजलबन्धः, मूडल्गि कब्बुमरुकट्टे, सवदत्त्तीरेणुकायल्लम्मदेवालयः, घटप्रभाजलपातः, गोडचिनमल्किजलपातः च प्रवासीस्थानानि सन्ति ।

उपमण्डलानि-१०

[सम्पादयतु]

बेळगावी, खानापुरं, बैलहोङ्गल् सवदत्ती रामदुर्गम्, गोकाक, हुक्केरी , चिक्कोडी, रायबाग, अथणी (कर्णाटकम्)

क्षेत्राणि

[सम्पादयतु]

बेळगावीप्रदेशः "बेळुवलनाडु" इति प्रसिद्धम् आसीत् । अस्य वेणुग्रामः इति चारित्रिकं नाम आसीत् । अत्र दुर्गाणि, मन्दिराणि, जलपाताः, नदीसङ्गमादि दर्शनीयानि स्थानानि सन्ति । पूर्वकाले वेदाध्ययनशीलाः विप्राः अत्र वसन्ति स्म । स्वामी स्वामी विवेकानन्दः अत्र नवदिनानि यावत् स्थितवान् । बेळगावी नगरे सुन्दरः आकर्षकः रामकृष्णाश्रमः अस्ति । द्वादशशतके निर्मितस्य दुर्गस्य पार्श्वे कमलबसदि इति सुन्दरः षोडशस्तम्भाधीरतः शिल्पविशेषः अस्ति । एतत् शिलाबसदि इत्यपि कथयन्ति । एतत् परितः २०८ जैनप्रतिमाः सन्ति । नगरमध्ये प्रसिद्धः हनुमान् देवालयः अस्ति । एषः नगररक्षकः इति विख्यातः अस्ति । सेनाप्रदेशे मिलिटरी महादेवः इति ख्यातः शिवमन्दिरः राराजते । शहपुरमार्गे पार्श्वे कपिलेश्वरनामकः स्वयम्भूः द्विशतवर्षप्राचीनः लिङ्गविशेषः अस्ति । एतम् कपिलप्प इति च कथयन्ति । दक्षिणकाशी इति क्षेत्रस्य नाम अस्ति । श्रावणमासे शिवरात्रिपर्वणि च अत्र विशेषपूजादिकं भवति । बेळगावी समीपे ८. कि.मी दूरे कणबग्रामे रामतीर्थम् अस्ति । अत्र रामशिवयोः मन्दिरे स्तः । हलसीग्रामे कदम्बवास्तुशिल्परुपः श्री लक्ष्मीनरसिंहस्य देवालयः अस्ति । सुन्दरं गोपुरम् (५पादपरिमितम्), ४ - पादपरिमितोन्नता श्रीलक्ष्मीनारायणमूर्तिः सर्वालङ्कारविशिष्टा अङ्कस्थापितलक्ष्मीयुक्ता अस्ति । नृसिंहस्य १.५ पादपरिमितोन्नता मूर्तिः मानवदेहसिंहशिरविशिष्टा अस्ति । पुरतः योगी नारायणस्य शिलामन्दिरमपि अस्ति । मुगुटखानहुब्बळ्ळीप्रदेशे मलप्रभानदीतीरे सञ्चरन् श्री च्यवनमहर्षिः श्री रुद्रदेवम् अत्र प्रतिष्ठापितवान् यज्ञं च कृतवान् । श्रीनरसिंहं महाशिलायाम् आराध्य यज्ञान्ते विसृष्टवान् । श्रीयादवार्यः मूर्तिम् अन्विष्य अश्वत्थवृक्षस्याधः स्थापितवान् । विजयनगरप्रभुः अच्युतनरायः विशालम प्राङ्गणं निर्माय पूजादिव्यस्थां कृतवान् ।

सवदत्ती दुर्गः

द्विसहस्रवर्षप्राचीनं श्री रेणुकादेव्याः जागृतं स्थानम् एतत् क्षेत्रम् । रेणुकादेवीम् एल्लम्मा देवी इति च कथयन्ति । महर्षिजमदग्निः अत्र तपः कृतवान् । अत्र सप्त ह्रदानि सुन्दराणि सन्ति । मङ्गलवासरे शुक्रवासरे श्रावणमासे पूर्णिमातिथौ च अत्र बहुजनाः आगच्छन्ति । इष्टार्थदायकं पवित्रं क्षेत्रम् एतत् । अत्र बनदहुण्णिमे(माघमासस्य पूर्णिमा)पर्यन्तं यात्रोत्सवः प्रचलति । एतं ‘एल्लम्मादेवी जात्रे’ इति कथयन्ति ।

मार्गः

[सम्पादयतु]

३) जैनमन्दिरम्

[सम्पादयतु]

बैलहोङ्गलसमीपे देगांवग्रामे द्वादशशतकीयः कल्लुबसदिः (कमलबस्ति इत्यपि ख्यातम्) जैनमन्दिरम् अस्ति । अत्र महाकाळी- महासरस्वती- लक्ष्मीनारायणमन्दिराणि सन्ति ।

मार्गः

[सम्पादयतु]
  • बेळगावी ५० कि.मी

४)सोगल

[सम्पादयतु]

अस्मिन् क्षेत्रे सोमेश्वरमन्दिरं सुन्दरजलपातः उद्यानं च आकर्षणीयानि सन्ति । राष्ट्रकूटानां शिल्पम् एतत् कलात्मकम् अस्ति । पार्वत्याः तपोभूमिः एषा । शिवलिङ्गरूपी श्रीनरसिंहशिल्पं विशिष्टतया रचितम् अस्ति ।

मार्गः

[सम्पादयतु]
  • सवदत्तितः ३० कि.मी ।
  • बेळगावी ५८ कि.मी ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


  1. 1 2 "2001 Census". Official Website of Belgaum District. आह्रियत 4 January 2011.
"https://sa.wikipedia.org/w/index.php?title=बेळगावीमण्डलम्&oldid=496372" इत्यस्माद् प्रतिप्राप्तम्