अथणी (कर्णाटकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अथणी

ಅಥಣಿ Athani
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावी
Elevation
५५४ m
Population
 (2011)
 • Total ५९,२००
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति अथणी-उपमण्डलम् । अथणी-उपमण्डलस्य विस्तीर्णता १९९५.७ km2,[2] ७४% भूमिः कृषियोग्या अस्ति । ८९ग्रामाः सन्ति । २००१तमवर्षस्य जनगणनानुसारं जनसङ्ख्या ४६१४०० । एतत् उपमण्डलं परितः महाराष्ट्रस्य साङ्गली-उपमण्डलम् अस्ति । वार्षिकी वर्षा ५८२ mm। कृष्णा तथा अग्राणी नामके द्वे नद्यौ अत्र वहतः ।

अथणीनगरस्य देवता अस्ति सिद्धेश्वरः । सिद्धेश्वरमन्दिरे सोमवासरेषु विशेष-उत्सवाः भवन्ति । शिवयोगी मुरुघेन्द्रस्वामिनः जन्मस्थानं नदी इङ्गळभावी अस्मिन् मण्डले अन्तर्भवति। कोकटनूरु यल्लम्मा, कटगेरी लक्कव्वा, अवरखोड हनुमप्प एतानि स्थानानि पवित्राणि इति गण्यन्ते । विशिष्य महाराष्ट्रतः अधिकतया भक्ताः अत्र आगच्छन्ति । अस्य उपमण्डलस्य पञ्च प्रमुखाः ग्रामाह् नाम- अथणी, उगार, ऐनापुरं, कागवाड, तथा शेडबाळ ।

"https://sa.wikipedia.org/w/index.php?title=अथणी_(कर्णाटकम्)&oldid=364576" इत्यस्माद् प्रतिप्राप्तम्