चिक्कोडी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चिक्कोडी

चिक्कोडी

ಚಿಕ್ಕೋಡಿ
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावी
Government
 • MP (Member of Parliament) Ramesh Katti
Elevation
६८३ m
Population
 (2001)
 • Total ४२,६२९
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
591201
Telephone code 08338
Vehicle registration KA-23

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति चिक्कोडी-उपमण्डलम् । एतत् उपमण्डलं परितः पर्वताः सन्ति । कर्णाटक-महाराष्ट्रयोः सीमाभागे अस्ति । मण्डलस्तरीयाः सर्वविधकार्यालयाः अत्र सन्ति । तथापि मण्डलत्वेन एतस्य उपमण्डलस्य घोषणा जाता अस्ति ।

इतिहासः[सम्पादयतु]

चिक्कोडी-इतिहासः सामान्यतः २००-३०० वर्षप्राचीनः । प्रारदेशिकभाषया चिक्क=लघु, कोडी=ग्रामः तन्नाम लघुग्रामः इति अर्थः । एतस्य समीपे एव हिरेकोडी( महाग्रामः) इति कश्चन ग्रामः अस्ति । कालान्तरेण मुख्यमार्गे आसीत् इति कारणतः तथा अत्रत्यानां प्रसिद्धानां नागवल्लीपत्राणां कारणतः प्रमुखवाणिज्यकेन्द्रम् अभवत् । एवम् एतस्य वर्धनम् अभवत्।

भौगोलिकता[सम्पादयतु]

चिक्कोडीनिर्देशाङ्कौ १६.४३°उ, ७४.६°पू.[1] । सामन्यतः औन्नत्यं ६८३मीटरमितम् (२२४०फीट्)। नगरस्य विस्तीर्णता १८.२९चतुरस्रकिलोमीटरमिता। गरिष्ठः उष्णांशः ३५⁰ C , कनिष्ठः उष्णांशः १८⁰ C, अत्यधिकी वार्षिकीवर्षा ८२६.६४ mm.

इतरविवरणानि[सम्पादयतु]

इतरविवरणानि[सम्पादयतु]

२००१ तमवर्षस्य जनगणनानुसारम् अस्य उपमण्डलस्य जनसंख्या ३२,८२० मिता ।२०११तमवर्षस्य जनगणनानुसारम् एतस्य जनसङ्ख्या ४२,६२९। एतेषु पुरुषाः ५१%, महिलाः ४९% । साक्षरताप्रमाणं ७३%, तन्नाम भारतस्य साक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । पुरुषाणां साक्षरता प्रमाणं ७९%, महिलानां ६६% । १२% साक्षराः ऊनषड्वर्षियाः ।

आर्थिकता[सम्पादयतु]

प्रधाने शर्करावलये एषः भागः अन्तर्भवति । अस्मिन् भागे जनानां प्रधानः व्यवसायः कृषिः । अस्मिन् उपमण्डले त्रयः शर्करानिर्माणागाराः सन्ति। कृष्णा, वेदगङ्गा, दूधगङ्गा नद्यः भूमेः फलवत्ततां वर्धितवत्यः सन्ति ।एषु दिनेषु जनाः कौशेयतन्तुवर्धने आसक्ताः दृश्यन्ते । चिक्कोडीनगरं परितः पर्वताः सन्ति॥ एतेषां शिखरस्य उपरि वायुप्रसरणे साहाय्यकाः वृक्षाः सन्ति इत्यतः वायुना विद्युच्छक्तेः उत्पादनम् अत्र प्रचलति ।

प्रेक्षणीयानि स्थानानि[सम्पादयतु]

  • याननिस्थानकस्य निकटे विद्यमानः चन्द्रकोरीगणेशदेवालयः प्रसिद्धः अस्ति । याननिस्थानकतः २.५.कि.मी.दूरे अपरः कश्चन परतिनागलिङ्गेश्वरनामकः देवालयः अस्ति ।
  • शान्तगिरिजैनमन्दिरम्-चिक्कोडीनगरात् १०कि.मी.दूरे जैनानाम् इतिहासस्य प्रकाशने समर्थं किञ्चन मन्दिरम् अस्ति । अत्र एव श्रीशान्तिगिरितीर्थः वसति स्म ।
  • चिक्कोडीतः २०कि.मी.दूरे कृष्णानद्याः तीरे विद्यमाने पवित्रे श्रीक्षेत्रे यडूरुग्रामे वीरभद्रमन्दिरम् अस्ति ।
  • आयुर्वेदचिकित्सार्थं औषधार्थं च प्रसिद्धः नागमुन्नोळीग्रामः अस्मिन् एव मण्डले अस्ति।
"https://sa.wikipedia.org/w/index.php?title=चिक्कोडी&oldid=364570" इत्यस्माद् प्रतिप्राप्तम्