नागवल्लीपत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नागवल्लीपत्राणि
विक्रयणार्थं संस्थापितानि नगवल्लीपत्राणि
नागवल्लीपत्रम्

एतत् नागवल्लीपत्रम् अपि भारते वर्धमानः कश्चन पत्रविशेषः । एतत् नागवल्लीपत्रम् अपि लता एव । अतः सस्यजातौ एव अन्तर्भवति । एतत् नागवल्लीपत्रम् आङ्ग्लभाषायां Betel Leaf इति उच्यते । एतत् नागवल्लीपत्रं यद्यपि आहारत्वेन न उपयुज्यते तथापि भोजनस्य अनन्तरं सेव्यमानस्य ताम्बूलस्य निर्माणार्थम् उपयुज्यते । एतत् नागवल्लीपत्रम् औषधत्वेन अपि उपयुज्यते । नागवल्लीपत्रं हरिद्वर्णीयं, कृशं, रसयुक्तं च भवति । अनेन नागवल्लीपर्णेन सह सुधां, पूगं च योजयित्वा "ताम्बूलं" निर्मीयते । अस्य नागवल्लीपत्रस्य वर्धनं न तावत् श्रमदायकम् । वाटिकासु पूगवृक्षम्, अन्यवृक्षं वा अवलम्ब्य वर्धते इयं नागवल्लीलता । कुत्रचित् नागवल्लीपत्रम् एव जीवनाधारः उद्योगः अपि ।

नागवल्लीपर्णेन निर्मितं ताम्बूलम्
ताम्बूलनिर्माणार्थम् अपेक्षितानि वस्तूनि
आपणे ताम्बूलनिर्माणम्

आयुर्वेदानुदानुसारम् अस्य नागवल्लीपत्रस्य स्वभावः[सम्पादयतु]

१ "आस्टेयोपोरोसिस्" नामकस्य अस्थिरोगस्य औषधम् इदं नागवल्लीपत्रम् ।
२ अवर्धितं नागवल्लीपत्रं वातहरम्, उदरबाधायाः निवारकं च ।
३ इदं नागवल्लीपत्रं जीर्णशक्तिं वर्धयति ।
४ नागवल्लीपत्रं ध्वनिं समीकरोति ।
५ नागवल्लीपत्रं कामोत्तेजकं चापि ।
६ नागवल्लीपत्रस्य रसं बालानां कासावसरे, अजीर्णावसरे अपि औषधत्वेन दीयते ।
७ नागवल्लीपत्रं "ग्यास् ट्रबल्" (वायुसमस्यां) परिहरति अपि ।
८ नागवल्लीपत्रम् अनारोग्यस्य प्रसरणं निवारयत्ति ।
९ नागवल्लीपत्रम् उदरस्य व्रणान् अपि शमयति । पातः प्रसवानन्तरं महिलाभ्यः अवश्यं दीयते ।
१० सुधायां विद्यमानं क्याल्सियं यथा शरीरे अतिशीघ्रं प्रसरेत् तथा करोति नागवल्लीपत्रस्य रसः । सुधायां तु अत्यधिकप्रमाणेन क्याल्सियं भवति । अतः एव महिलाभ्यः प्रसवानन्तरं लाम्बूलं दीयते ।
११ बालानां श्वासोच्छ्वाससमस्या जाता चेत् इदं नागवल्लीपत्रं भ्राष्ट्रस्य उपरिसंस्थाप्य किञ्चित् उष्णीकृत्य हृदयभागे स्थापयन्ति ।
१२ नागवल्लीपत्रेण निर्मितं मद्यम् आयुर्वेदे केभ्यश्चित् रोगेभ्यः औषधरूपेण दीयते ।
१३ सर्वत्र अपि शुभावसरेषु लाम्बूलं दीयते एव ।
१४ देवस्य नैवेद्यरूपेण अपि "फलताम्बूलं" समर्प्यते ।‎
"https://sa.wikipedia.org/w/index.php?title=नागवल्लीपत्रम्&oldid=356789" इत्यस्माद् प्रतिप्राप्तम्