सामग्री पर जाएँ

कोप्पळमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोप्पळमण्डलम्
मण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकम्
केन्द्रम् कोप्पळ
उपमण्डलानि कोप्पळ, गङ्गावति, यल्बुर्गा, कुश्टगी
Area
 • Total ७,१९० km
Population
 (2001)
 • Total ११,९६,०८९
 • Density १६६/km
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
दूरवाणिसंज्ञा + 91 (0)8539
Vehicle registration KA-37
Website www.koppal.nic.in

कोप्पळमण्डलं (Koppala District) कर्णाटकराज्ये स्थितं किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रं कोप्पळनगरम्

विस्तीर्णता

[सम्पादयतु]

७१९० च.कि.मी. मिता।

उपमण्डलानि -४

[सम्पादयतु]

कोप्पळ, गङ्गावती, कुष्टगी, यलबुर्गा

कोप्पळमण्डल्स्य मानचित्रम्

तुङ्गा, भद्रा तुङ्गभद्रा कर्णाटकस्य नूतनमण्डलेषु एतत् अन्यतमम् अस्ति । इतिहासेन सांस्कृतिककारणेन च प्रसिद्धम् अस्ति । कन्नडस्य कविराजमार्गे ’विदित महा कोपण नगर’ इति अस्य मण्डलस्य ख्यातिः । तुङ्गभद्रायाः तीरस्य अनेगोन्दिप्रदेशे रामायणस्य प्रमुखाः घटनाः समभवन् । वालिसुग्रिवयोः वासप्रदेशः किष्किधा अत्र एव अस्ति । विजयनगरसाम्राज्यकाले गजाः (आने) अत्रैव पाल्यन्ते स्म । क्रि.श. १५६५ तमे वर्षे सम्भूते रक्कसतङ्गडगीयुद्धे(ताळीकोटेयुद्धे) विजयनगरस्य पतनानन्तरं हम्पी-अनेगोन्दीप्रदेशयोः वैभवः महम्मदीयैः योधैः नामावशेषितः । साम्राडशोकस्य शिलाशासनपत्राणि, शिलायुगकालीनाः जनवासगुहाः च अत्र सन्ति । विजयनगरसाम्राज्यस्य प्रथमराजधानी अनेगोन्दी, फ्रेञ्चसहाय्येन टिप्पुनिर्मितं दुर्गं, हिन्दूमुसल्मानयोः भावैक्यस्य द्योतकं मर्दानदर्गा, किन्नाळकला, इत्यादिविषयाः कोप्पलस्य गरिमां वर्धयन्ति ।

दर्शानीयानि स्थानानि

[सम्पादयतु]
इटगि महादेवमन्दिरम्

महाभारतसमये पाण्डवेषु अतिशूरः अर्जुनः तपः कर्तुम् अत्र आगतवान् । अत्रैव इन्द्रकीलपर्वते तपः कृत्वा परमेश्वरेण साकं युद्धं कृतवान् । अन्ते शरणागतः पाशुपतास्त्रं प्राप्तवान् । पर्वतप्रदेशं मळेमल्लेश्वरः इति कथयन्ति । अस्य ‘पाण्डववठार’ इति नामधेयम् अपि अस्ति । अत्र मौर्यचक्रवर्तेः अशोकस्य अनेकशासनानि लब्धानि सन्ति । इतिहासासक्तः संशोधनार्थम् आगच्छन्ति । गविमठः कोप्पळनगरे अतिप्रसिद्धः अस्ति । अत्र देवः गविसिद्धेश्वरः । प्रतिवर्षं जनवरीमासे पञ्चदशदिनपर्यन्तं यात्रामहोत्सवः अत्र प्रचलति ।

समीपे (११ कि.मी)मोदपुर (मादिगनूरु) ग्रामे दक्षिणबदरी इति ख्यातम् श्रीबदरीनारायमन्दिरम् अस्ति । श्रीविष्णुतीर्थयातिवरेण्येन स्थापितमेतत् । त्रिवारम् अत्र आगच्छति चेद बदरीयात्राफलं लभ्यते इति प्रथा अस्ति । समीपे श्रीविष्णुतीर्थस्य वृन्दावनमपि अस्ति ।

रामायणकाले किष्किन्धा इति प्रसिद्धं वानरराजानां साम्राज्यम् आसीत् । वालिसुग्रीवानां राजधानी अत्रैव आसीत् । वालिसुग्रीवयोः युद्धमपि अत्रैव अभवत् । आनेगोन्दीप्रदेशे देवीपम्पाम्बिका तपः कृत्वा शिवं प्रसाद्य तेन सह विवाहं कृतवती । पम्पापतिः विरूपाक्षः हम्पी क्षेत्रेऽस्ति । पम्पासरः अत्र अस्ति । एतत् पञ्चमहसरस्सु अन्यतमम् अस्ति । चिन्तामणिमठः रुद्राक्षिमण्टपः संन्यासीगुण्डु, वालिभण्डार् जयलक्ष्मीदेवालयः रङ्गनाथगुडि दर्शनीयस्थानानि अत्र सन्ति ।

-बळ्ळारी-रायचूरमण्डलयोः सङ्गमस्थले आनेगोन्दीतः नदीतरणानन्तरम् अथवा होसपेटेकमलापुरतः काम्प्लि मार्गतः वा अत्र आगन्तुं व्यवस्था अस्ति । अत्र ९ माध्वयतीनां वृन्दावनानि सन्ति । श्री प्राणदेवमन्दिरमपि अस्ति । श्री पद्मनाभतीर्थः, श्रीकवीन्द्रः, श्रीवागीशः, श्रीव्यासरायः श्री श्रीनिवासतीर्थः श्रीशतीर्थः, श्रीरघुवर्यः श्री गोविन्दओडेयरः, श्री सुधीन्द्रः च नवयतयः । गुहायां वासः, तुङ्गभद्रानदीस्नानम् अत्र विशेषाः। रम्यः द्वीपप्रदेशः एषः।

अनेगोन्दीप्रदेशे विद्यमानाः गगनप्रासादः , दुर्गं, पम्पासरः, ६४ स्तम्भानां कृष्णदेवरायस्य स्मारकं, नववृन्दावनम्, सूक्ष्मदारुकर्माणि, शिलाशिल्पयुक्तः श्रीगणपति देवालयः, श्री गविगङ्गनाथमन्दिरम्, शिलाचित्रितं सम्पूर्णरामायणं, शिल्पकलावैभवयुतः उच्चप्पय्यनमठः, चिन्तामणिशिवालयः, कनकगिरिः,विजयनगर-वास्तुशिल्पस्य दृष्टान्तः श्री कनकाचलपतिदेवालयः, राज्ञः वेङ्कटप्पनायकस्य निर्मितिः स्नानसरः, सुप्रसिद्धः कोटिलिङ्गयुक्तः पुरस्य सोमनाथेश्वरदेवालयः,कुकनूरु महामायादेवालयः, षष्ठविक्रमादित्यनिर्मितः कल्लिनाथेश्वरदेवालयः च दर्शनीयानि स्थानानि भवन्ति ।

प्रसिद्धाः व्यक्तयः

[सम्पादयतु]

कल्लिनाथशास्त्री, पुराणिकचेन्नकविः, गविमठस्य श्रीमरिशान्तवीरस्वामी, सिद्धय्य पुराणिकः, अन्नदानय्य पुराणिकः, श्री बसवराज रायरेड्डि इत्यादयः अत्र सञ्जाताः प्रसिद्धाः जनाः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कोप्पळमण्डलम्&oldid=398141" इत्यस्माद् प्रतिप्राप्तम्