आनेगोन्दी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आनेगोन्दी

आनेगोन्दी

किषिकिन्द
नगरि
Skyline of आनेगोन्दी
Country  India
State कर्नतक
District कोप्पल् जिले
Elevation
५६८ m
Population
 (2001)
 • Total ३,४९७
Languages
 • Official कनड
Time zone UTC+5:30 (IST)
Sex ratio 1740:1757[१] /
आनेगोन्दी
आनेगोन्दी
आनेगोन्दी

'आनेगोन्दी (गङ्गावती)- कर्णाटकराज्ये कोप्पळमण्डले विद्यमानं प्रमुखम् ऐतिहासिकं नगरम् । रामायणकाले किष्किन्धा इति प्रसिद्धं वानरराजानां साम्राज्यम् आसीत् । वालिसुग्रीवानां राजधानी अत्रैव आसीत् । वालिसुग्रीवयोः युद्धमपि अत्रैव अभवत् । आनेगोन्दीप्रदेशे देवीपम्पाम्बिका तपः कृत्वा शिवं प्रसाद्य तेन सह विवाहं कृतवती । पम्पापतिः विरूपाक्षः हम्पीक्षेत्रेऽस्ति । पम्पासरः अत्र अस्ति । एतत् पञ्चमहसरस्सु अन्यतमम् अस्ति। चिन्तामणिमठः रुद्राक्षिमण्टपः संन्यासीगुण्डु, वालिभण्डार् जयलक्ष्मीदेवालयः रङ्गनाथगुडि दर्शनीयस्थानानि अत्र सन्ति ।

अनेगोन्दीप्रदेशे विद्यमानाः गगनप्रासादः , दुर्गं, पम्पासरः, ६४ स्तम्भानां कृष्णदेवरायस्य स्मारकं, नववृन्दावनम्, सूक्ष्मदारुकर्माणि, शिलाशिल्पयुक्तः श्रीगणपति देवालयः, श्री गविगङ्गनाथमन्दिरम्, शिलाचित्रितं सम्पूर्णरामायणं, शिल्पकलावैभवयुतः उच्चप्पय्यनमठः, चिन्तामणिशिवालयः, कनकगिरिः,विजयनगर-वास्तुशिल्पस्य दृष्टान्तः श्री कनकाचलपतिदेवालयः, राज्ञः वेङ्कटप्पनायकस्य निर्मितिः स्नानसरः, सुप्रसिद्धः कोटिलिङ्गयुक्तः पुरस्य सोमनाथेश्वरदेवालयः,कुकनूरु महामायादेवालयः, षष्ठविक्रमादित्यनिर्मितः कल्लिनाथेश्वरदेवालयः च दर्शनीयानि स्थानानि भवन्ति ।

  1. "View Population". Office of the Registrar General & Census Commissioner, India. 
"https://sa.wikipedia.org/w/index.php?title=आनेगोन्दी&oldid=401767" इत्यस्माद् प्रतिप्राप्तम्