मण्ड्यमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मण्ड्यमण्डलम्

ಮಂಡ್ಯ ಜಿಲ್ಲೆ
मण्डलम्
मेलुकोटेनगरे स्थितम् योगानरसिंहस्य होय्सळकालीनमन्दिरम्
मेलुकोटेनगरे स्थितम् योगानरसिंहस्य होय्सळकालीनमन्दिरम्
कर्णाटके मण्ड्यमण्डलम्
कर्णाटके मण्ड्यमण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागम् मैसूरु विभागम्
Established 1 July 1939[१]
केन्द्रम् मण्ड्यनगरम्
उपमण्डलानि मण्ड्य,मलवल्लि, मद्दूरु, नागमङ्गलम्, कृष्णराजपेट्, पाण्डवपुरम्, श्रीरङ्गपट्टनम्
Government
 • Deputy Commissioner बि। एन्। कृष्नय्यः IAS
Population
 (2001)[२]
 • Total १७,६१,७१८
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
ISO 3166 code IN-KA-MA
Vehicle registration KA-11
लिङ्गानुपातम् 1.015 पु/स्त्री
साक्षरतापरिमाणम् 61.21%
Precipitation 691 मिलीमीटर (27.2 इंच)
ग्रीश्मकालस्य सामान्यतापमानम् 35 °से (95 °फ़ै)
शैत्यकालस्य सामान्यतापमानम् 16 °से (61 °फ़ै)
Website mandya.nic.in
कर्णाटके मण्ड्यमण्डलम्

मण्ड्यमण्डलं (Mandya district) दक्षिणकर्णाटकस्य एकं मण्डलम् । मण्ड्यनगरं कर्णाटकराज्ये विद्यमानं प्रमुखं नगरम् अपि । मण्डलकेन्द्रस्य नाम अपि मण्ड्य एव । एतन्मण्डलकेन्द्रं मैसूरुबेङ्गळूरुनगरयोः मध्ये बेङ्गळूरुनगरात् १००कि.मी.दूरे अस्ति । एषः पुरातनप्रदेशः माण्ड्व्यमुनेः तपसः स्थानम् । माण्डव्यमुनिः एव अत्र श्रीजनार्दनं प्रतिष्ठापितवान् । मण्ड्यमण्ड्लं कृषिप्रधानम् अस्ति । एतत् क्रिस्ताब्दे १९३९ तमे वर्षे अस्तित्वे आगतम् अस्ति ।

विस्तीर्णता[सम्पादयतु]

४९६१ च.कि.मी.मिता ।

भौगोलिकता[सम्पादयतु]

निर्देशाङ्काः[सम्पादयतु]

मण्ड्यनगरं तावत् ७६°१९° - ७६७°२०° - पूर्वरेखांशे १२° १३° – १३°१४° उत्तराक्षांशे च निर्देशितम् अस्ति ।

नद्यः[सम्पादयतु]

कावेरी, हेमावती, लोकपावनी, लक्ष्मणतीर्थं, शिंषा, च नद्यः अत्र प्रवहन्ति । अतः एतत् कृषिसमृद्धं मण्डलम् अस्ति । अत्र कृष्यर्थं प्रधानं जलस्रोतः कावेरीनदी एव । कावेरीनद्याः कृष्णराजसागर इति जलबन्धात् जलं मण्ड्यमण्डलसय कृषिक्षेत्रेषु प्रवहति ।

कृषिः[सम्पादयतु]

अत्र व्रीहिः, रागि, नारिकेलं, द्विदलधान्यानि, इक्षुः च अधिकतया प्ररोहन्ति । शर्करोत्पादनं प्रधानः उद्यमः अस्ति ।

उपमण्डलानि-७[सम्पादयतु]

अत्र मण्ड्य, मद्दूरु, मळवळ्ळि, पाण्डवपुर, नागमङ्गल, कृष्णराजपेटे, श्रीरङ्गपट्टण, इति सप्त उपमण्डलानि भवन्ति ।

प्रेक्षणीयस्थानानि[सम्पादयतु]

बसराळु, मण्ड्य श्रीरङ्गपट्टणं, नागमङ्गलं मेलुकोटे, आदिचुञ्चनगिरिः, बेळ्ळूरु, मद्दूरु ।

१)श्रीरङ्गपट्टणम्[सम्पादयतु]

पौराणिकरीत्या एतत् आदिरङ्गक्षेत्रम् अस्ति । गौतमक्षेत्रं श्रीरङ्गपुरी इति अपि नामनि स्तः । आंग्लाः एतत् नगरं श्रीरङ्गपटाम् इति उक्तवन्तः । अधुना श्रीरङ्गपट्टणम् इति ख्यातम् अस्ति । गौतमऋषिः अत्र श्रीरङ्गनाथम् आराधितवान् । कावेरी मातुः अपेक्षानुसारं श्रीकावेरी स्वस्य कृते एतत् स्थलं स्वीकृतवती । अत्र कावेरी श्रीरङ्गनाथस्य पादयोः समीपे उपविष्टा अस्ति इत्येव अंशः अत्र साक्ष्यं वदति (सि हयवदन राव –मैसूरु गेजेट)। एतत् एकं द्वीपम् अस्ति ५ कि.मीटर* २ कि.मी विस्तारितम् अस्ति । कावेरीनदी परितः प्रवहति । अस्य स्थलस्य १२ शतकपर्यन्तस्य चारित्रिकी प्राचीनता अस्ति । गङ्गराजानां अधिकारी तिरुमलः क्रिस्ताब्दे ८९४ तमे वर्षे एतं द्वीपम् अन्विष्य वने श्रीरङ्गनाथं प्रतिष्ठापितवान्। ’श्रीरङ्गनाथमूर्तिः स्वयं व्यक्ता आसीत् । अधिकारी अन्विष्य मन्दिरं निर्माय पूजितवान्’ इत्यपि अन्यः आधारः सूचयति । अनन्तरं चोळराजाः होय्सलराजाः स्वल्पकालं यावत् अत्र शासनम् कृतवन्तः । विजयनगरराजानां समये परितः दुर्गस्य निर्माणं कृतवन्तः । मैसूरुराजानां प्रशासनकाले (१५६५-१६१०) श्रीरङ्गपट्टणं मैसूरराजानां अधिनम् आसीत् । टिप्पु सुल्तान् हैदर अलि प्रशासनकाले (१७९९तमे वर्षे) चतुर्थमैसूरुयुध्दानन्तरम् एतत् द्वीपम् आंग्लानां वशे आसीत् । तदनन्तरं मैसूरुराजानां प्रशासने योजितम् अभवत् । श्रीरङ्गपट्टणस्य प्रमुखः आकर्षणीयः विषयः श्रीरङ्गनाथदेवालयः अस्ति । उत्तमं महाद्वारम् उन्नतं गोपुरं च स्तः । गर्भगृहे श्रीरङ्गनाथस्वामी शयानः १५ पादपरिमितः विस्तारवान् च अस्ति । अत्र आदिशेषः स्वयं रक्षणं करोति । लक्ष्मीदेवी गौतममुनिश्च पादयोः समीपे सेवां कुर्वन्तौ तिष्ठतः । श्रीरङ्गनायकी एव श्रीरङ्गनाथस्य पत्नी । तस्याः निमित्तम् एकं पृथक् गर्भगृहम् अस्ति । अत्र रथसप्तमीपर्वणि ब्रह्मरथोत्सवः प्रचलति । अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्री विजयनरसिंहदेवालयः (१७ शतकीयः) आञ्जनेयदेवालयः, अम्बेगालुकृष्णः, गङ्गाधरेश्वरः , अन्ये च वैष्णव मठाः च दर्शनीयाः सन्ति ।

मार्गसूची[सम्पादयतु]

२)होस कन्नम्बाडी[सम्पादयतु]

श्रीवेणुगोपालस्वामिमन्दिरं कृष्णराजसागर जलबन्धकारणात् जलानयनप्रदेशे जले मग्नम् आसीत् । एतस्य ११००- वर्षप्राचीनः इतिहासः अस्ति एतस्य मन्दिरस्य । ७९ वर्षानन्तरं पुनः निर्मितम् अस्ति । द्राविडहोय्सलशैल्योः मेलनम् अस्मिन् मन्दिरे पश्यामः। नक्षत्ररुपे उन्नतप्रदेशे २००*६० मीटर परिमितः विस्तारवान् अयं देवालयः खोडेसंस्थया निर्मितः शिल्पकलावैभवयुक्तः च अस्ति ।

मार्गः[सम्पादयतु]

  • कृष्णराजसागरतः ९ कि.मी.

३.शिवनसमुद्रः[सम्पादयतु]

कावेरीनद्याः द्वितीयः द्वीपः शिवनसमुद्रः इति प्रसिद्धः अस्ति । अत्र जगन्मोहनरङ्गनाथस्य मन्दिरम् अस्ति । समीपे गगनचुक्कीजलपातः भरचुक्कीजलपातः इति जलपातद्वयम् सुन्दरम् अस्ति । एतत् स्थानम् एशियाखण्डे ऐदम्प्राथम्येन विद्युदुत्पादनकार्यार्थम् अपि प्रसिद्धम् अस्ति । विद्युदागारः क्रिस्ताब्दे १९०२ तमे वर्षे आरब्धः अस्ति ।

मार्गः[सम्पादयतु]

४. मेलुकोटे[सम्पादयतु]

एषा श्रीरामानुजार्याणां लीलाभूमिः । एतत् स्थानं तिरुनारायणपुरं, (दक्षिणबदरी) यादवाद्रिः नारायणाद्रिः वेदाद्रिः यदुगिरि इत्यपि कथयन्ति । उन्नतप्रदेशे यदुगिरिपर्वतस्थले (३५८९ पादपरिमितम्) उन्नतस्थाने निर्मितदुर्गम् इति कारणतः प्रसिद्धयात्रास्थलम् एतत् । दक्षिणभारते स्थितेषु चतुर्षु वैष्णवक्षेत्रेषु मेलुकोटे अन्यतमम् । अन्यानि क्षेत्राणि काञ्ची, तिरुपतिः श्रीरङ्गम् । अत्र श्रीचेलुवनारायणस्वामिमन्दिरम् अत्यन्तं सुन्दरम् अस्ति । पर्वतप्रदेशे स्थितं योगानरसिंहमन्दिरम् अपरं सुन्दरं देवस्थानम् अस्ति । कृतयुगादारभ्य अत्र पूजा प्रचलति इति विशेषः । ब्रह्मणा पूजितः, तस्य मानसपुत्रेण सनत्कुमारेण भूलोके अत्र स्थापितः देवः अत्र अस्ति इत्यभिप्रायः। श्रीरामानुजाचार्याः क्रिस्ताब्दे १११० तमे वर्षे प्रतिष्ठापितवन्तः इति चारित्रिकः आधारः अस्ति । चेलुवनारायणस्वामिदेवालयः २८० पादपरिमितः चौकाकारे अस्ति । होय्सलराजा बिट्टिदेवः अथवा विष्णुवर्धनः अस्य देवालयस्य अभिवृद्धये कारणपुरुषः इति स्पष्टमस्ति । श्री चेलुवनारायणस्वामिनः मनमोहका भङ्गी अत्यन्तम् आकर्षिका अस्ति । एतं वैरमुडि राजमुडि, कृष्णराजमुडि इति किरीटैः निर्दिष्टदिनेषु अलङ्कुर्वन्ति । तेन वैरमुडि-उत्सवः, राजमुडि-उत्सवः, कृष्णराजमुडि-उत्सवः इत्यादयः आचरन्ति । वैरमुडि- उत्सवः वैभवपूर्णः अस्ति । एतदुत्सवं वीक्षितुं लक्षाधिकजनाः रात्रौ अत्र आगच्छन्ति । पर्वतप्रदेशे स्थितः योगानरसिंहः भक्तप्रह्लादस्य तपसः फलरूपेण प्रत्यक्षम् आगतः इति विश्वासः अस्ति । एषः देवः चतुर्भुजः भव्यमूर्तिरुपः अत्रत्यम् अत्यन्तम् आकर्षकं स्थानम् कल्याणीतीर्थम् । अक्कनकोळ, तङ्गियकोळ, रायगोपुरं (६० पादपरिमितोन्नतौ स्थिताः निराधाराः चतुस्तम्भाः एकशिलानिर्मिताः । धनुष्कोटिः इति तीर्थक्षेत्रं देवालयतः (एक)१ कि.मीटर् दूरे अस्ति । पौराणिकविषयानुसारं श्रीरामः सीतासहितः अत्र आगतवान् । सीतायाः स्नानार्थं बाणप्रयोगेण जलोद्गमनम् कृतवान् इति स्थलपुराणम् अस्ति ।

मार्गः[सम्पादयतु]

  • मण्ड्यतः ३६ कि.मीटर ।
  • पाण्डवपुरतः २९ कि.मी. ।
  • मैसूरुतः ७० कि.मी ।
  • बेङ्गळूरुतः १५७ कि.मी.
  • सम्पर्कदूरभाषा -०८२३६-५८७३९

५)गञ्जां निमिषाम्बादेवालयः (श्रीरङ्गपट्टणम्)[सम्पादयतु]

एतत् क्षेत्रं लोकपावनीकावेरीनद्योः सङ्गमस्यानम् । स्थलपुराणरीत्या देवी पार्वती मुक्तकऋषेः प्रभावेण अत्र आगत्य स्थितवती । श्री मुम्मडि कृष्णराजओडेयरमहोदयेन अस्य देवालयस्य पुनरुद्धारः १९ शतके कृतः अस्ति । भक्तानाम् इष्टार्थसिद्धिः स्मरणात् निमेषमात्रकाले भवति इति जनानां विश्वासः । अतः एव इयं निमिषाम्बा । अत्रैकं श्रीचक्रम् अस्ति ।भारतदेशे स्थितेषु षटचक्रेषु एतदपि अन्यतमम् अस्ति । प्रतिदिनम् अस्याः देव्याः सहस्रशः जनाः दर्शनं कुर्वन्ति । नवरात्रिमहोत्सवे लक्षाधिकजनाः आगच्छन्ति अत्र निमिषाम्बदेव्याः जन्मदिनम् महत्वपूर्णं दिनम् अस्ति । तस्मिन् दिने अपि बहवः भक्ताः अत्र आगच्छन्ति ।

मार्गः[सम्पादयतु]

  • श्रीरङ्गपट्टणतः नगरबस्यानम्, अश्वशकटिका, अटोयानं च अस्ति ।
  • गञ्जांप्रदेशतः २ कि.मीटरदूरे अस्ति ।

६)आदिचुञ्चनगिरिः (नागमङगलम्)[सम्पादयतु]

अत्र भगवान् परमेश्वरः आगत्य वासं कृत्वा चुञ्चनामाङ्तस्य राक्षसस्य वधं कृतवान् अतः एषः गिरिः चुञ्चगिरिः इति प्रसिद्धः अस्ति । उन्नतिः १९६० मीटर् । अन्या कथा एवमस्ति । शिवकपालदुत्पन्नाय सिद्धयोगिने स्वयं शिवः दर्शनं दत्त्वा स्वपीठेन साकं प्रतिनिधिरुपेण कञ्चित् सिद्धयोगिनं तत्र त्यक्तवान् । स्वयम् पञ्चप्राणैः पञ्चलिङ्गाकृतिरूपेण स्थितवान् । क्षेत्रदेवतारुपेण आदिशक्तिरुपिणी देवी अत्र स्थापिता अस्ति । अत्रत्य पुण्यतीर्थानि गविसिद्धेश्वरः, चेळूरुकम्ब, गळिगे कल्लूरु, कत्तलुसोमेश्वरः नागचावडिभैरवमन्दिरं च । अन्नदानार्थं प्रसिद्धम् अय्यनमठम् अथवा अन्नदानीमठम् अस्मिन् क्षेत्रे अस्ति ।

मार्गः[सम्पादयतु]

  • नागमङ्गलतः २६ कि.मी.
  • मण्डयतः ६६ कि.मी.
  • बेळ्ळूरु-तुमकूरुमार्गः

अस्मिन् मण्डले बहूनि प्रेक्षणीयानि स्थलानि सन्ति । मेलुकोटे, सोमनाथपुरम्, क्रुष्णराजसागरजलाशयम्, रङ्गनतिट्टु च सन्ति । कृष्णराजसागरजलबन्धः, बृन्दावनोद्यानम्, श्रीरङ्गपट्टणं, मेलुकोटे, रङ्गनतिट्टु कोक्करेबेळ्ळूरु ,सोमनहळ्ळिअम्मनदेवालयः, मुळ्ळनकट्टेदेवालयः, सोमनाथपुरदेवालयः, शिवनसमुद्रजलपातः, आदिचुञ्चनगिरिक्षेत्रम्, मुत्तेत्तिक्षेत्रम्, भीमेश्वरि,केरेकण्णूरु, बसवरळु माधवरायदेवालयः, निमिशाम्बामन्दिरं, देवरमने मूडिगेरे

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

कवयः- बि.एम्.श्रीकण्ठय्यः, पु ति नरसिंहाचार्यः, के.एस्.नरसिंहस्वामी, अ.रा.मित्र च।
कन्नडस्य नाटककर्तारः- नवमसिङ्गराय, ग्रन्थकर्त्री श्रीमती त्रिवेणी, आर्याम्बा पट्टाभि च, राजकीयनेतारः- जी.मादेगौडः , कर्णाटकस्य भूतपूर्वमुख्यमन्त्री एस्.एम्.कृष्णः , भूतपूर्वशिक्षासचिवः के.वि.शङ्करेगौड, अभिनेता अम्बरीषः च ।
चित्ररङ्गकलाविदः- अभिनेत्री रम्या, चित्रनिदेशकः प्रेम, नागतिहळ्ळीचन्द्रशेखरः, के.एस्.एल्.स्वामी, जो.सैमन् , अर्जुन, श्रीमती रूपा अय्यर्, च, कथाकारः बे.रामण्णः, सङ्गीतनिदेशकः हंसलेखा, जानपदगायकौ एम्.एस्.रविगौड, किक्केरि कृष्णमूर्ति, चित्रनिर्मापकः सन्देश नागराजः, स्वातन्त्र्ययोद्धा पि.एन्.जवरप्प गौड, इत्यादयः मण्ड्यमण्डले सञ्जन्य ख्यातिं प्राप्तवन्तः ।


  1. "District Profile". Department of State Education Research and Training. आह्रियत 6 January 2011. 
  2. "District Statistics". Official Website of Mandya district. आह्रियत 6 January 2011. 

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मण्ड्यमण्डलम्&oldid=480742" इत्यस्माद् प्रतिप्राप्तम्