मेलुकोटे
मेलुकोटे | |
---|---|
नगरम् | |
कर्णाटके मेलुकोटॆ | |
राष्ट्रम् | भारतम् |
राज्यानि | कर्णाटकराज्यम् |
Elevation | ९०० m |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय समान्यकालमानम्) |
पत्रालयकूतटसंख्या |
571431 |
दूरवाणीसंख्या | 08232 |
Vehicle registration | KA-11 |
मेलुकोटे (Melukote)कर्णाटकराज्यस्य मण्ड्य्यमण्डले विद्यमानं किञ्चन क्षेत्रम् । एषा
श्रीरामानुजार्याणां लीलाभूमिः । एतत् स्थानं तिरुनारायणपुरं दक्षिणबदरी यादवाद्रिः नारायणाद्रिः वेदाद्रिः यदुगिरि इत्यपि कथयन्ति । यदुगिरिपर्वतस्थले ३५८९ पादपरिमिते उन्नते स्थाने निर्मितं दुर्गम् इति कारणतः प्रसिद्धमस्ति इदं यात्रास्थलम् । दक्षिणभारते स्थितेषु चतुर्षु वैष्णवक्षेत्रेषु
मेलुकोटे अन्यतमम् । अन्यानि क्षेत्राणि कञ्चि, तिरुपतिः श्रीरङ्गञ्च।
अत्र श्रीचेलुवनारायणस्वामिमन्दिरम् अत्यन्तं सुन्दरम् अस्ति । पर्वतप्रदेशे स्थितं योगानरसिंहमन्दिरम् अपरं सुन्दरं देवस्थानम् अस्ति । कृतयुगादारभ्य अत्र पूजा प्रचलति इति विशेषः । ब्रह्मणा पूजितः, तस्य मानसपुत्रेण सनत्कुमारेण भूलोके अत्र स्थापितः देवः अत्र अस्ति इत्यभिप्रायः। श्रीरामानुजाचार्याः क्रिस्ताब्दे १११० तमे वर्षे प्रतिष्ठापितवन्तः इति चारित्रिकः आधारः अस्ति । चेलुवनारायणस्वामिदेवालयः २८० पादपरिमितः चौकाकारे अस्ति । होय्सलराजा बिट्टिदेवः अथवा विष्णुवर्धनः अस्य देवालयस्य अभिवृद्धये कारणपुरुषः इति स्पष्टमस्ति ।
श्री चेलुवनारायणस्वामिनः मनमोहका भङ्गी अत्यन्तम् आकर्षिका अस्ति । एतं वैरमुडि, राजमुडि, कृष्णराजमुडि इति किरीटैः निर्दिष्टदिनेषु अलङ्कुर्वन्ति । तेन वैरमुडि-उत्सवः, राजमुडि-उत्सवः, कृष्णराजमुडि-उत्सवः इत्यादयः आचरन्ति । वैरमुडि- उत्सवः वैभवपूर्णः भवति । एतदुत्सवं वीक्षितुं लक्षाधिकजनाः रात्रौ अत्र आगच्छन्ति । पर्वतप्रदेशे स्थितः योगानरसिंहः भक्तप्रह्लादस्य तपसः फलरूपेण प्रत्यक्षम् आगतः इति विश्वासः अस्ति । एषः देवः चतुर्भुजः भव्यमूर्तिरूपः । अत्रत्यम् अत्यन्तम् आकर्षकं स्थानम् कल्याणीतीर्थम् । अक्कनकोळ, तङ्गियकोळ, रायशिखरं (६० पादपरिमितोन्नतौ स्थिताः निराधाराः चतुस्तम्भाः एकशिलानिर्मिताः। धनुष्कोटिः इति तीर्थक्षेत्रं देवालयतः एक- कि.मीटर् दूरे अस्ति। पौराणिकैतिह्यानुसारं श्रीरामः सीतासहितः अत्र आगतवान् । सीतायाः स्नानार्थं बाणप्रयोगेण जलोद्गमनम् कृतवान् इति स्थलपुराणम् अस्ति ।
मार्गः
[सम्पादयतु]- मण्ड्यतः ३६ कि.मीटर ।
- पाण्डवपुरतः २९ कि.मी।
- मैसूरुतः ७० कि.मी ।
- बेङगलूरुतः १५७ कि.मी।
- सम्पर्कदूरभाषा -०८२३६-५८७३९
वीथिका
[सम्पादयतु]बाह्यानुबन्धः
[सम्पादयतु]- मेलुकोटे देवालयम् , अभयारण्य Archived २०१३-१०-२९ at the Wayback Machine
- मेलुकोटे देवालयम् अभयारण्य | पक्षिशाला Archived २०१२-०६-१८ at the Wayback Machine
- मेलुकोटे देवालयम् अभयारण्य | चित्रपतङ्गाः Archived २०१३-१०-१८ at the Wayback Machine