यादगिरिमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटके यादगिरिमण्डलम्

यादगिरिमण्डलम् (Yadgir district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् ।

विस्तीर्णता[सम्पादयतु]

८३८६ च.कि.मी मिता अस्ति ।

स्थापना[सम्पादयतु]

यादगिरिमण्डलं २०१० तमवर्षस्य एप्रिल् मासस्य दशमे दिनाङ्के नूतनमण्डलत्वम् आप्नोत् । सर्वमण्डलेषु एतत् अतिलघुमण्डलम् । मण्डलकेन्द्रस्य मण्डलस्य च एकम् एव नाम अस्ति । येतगिरि इति अस्य प्राचीनं नाम ।

स्थानम्[सम्पादयतु]

अस्य मण्डलस्य उत्तरे सेडम्, वायव्ये चितापुरम्, पश्चिमे शहापुरम्, पूर्वे आन्ध्रप्रदेशः च सन्ति ।

उपमण्डलानि[सम्पादयतु]

यादगिरिः, शाहपुरम्, सुरपुरं च अस्य उपमण्डलानि भवन्ति ।

नद्यः[सम्पादयतु]

भीमा, कृष्णा नद्यौ मण्डले प्रवहतः ।

उत्खननस्य स्थानानि[सम्पादयतु]

सुरपुर-उपमण्डले हुणसगी इत्यत्र पूर्वशिलायुगीयानि वस्तूनि प्राप्तानि सन्ति|

इतिहासः[सम्पादयतु]

पूर्वं यादवाः गिरौ स्थित्वा एतं प्रदेशं पालितवन्तः। अतः अस्य नाम यादवगिरिः इति आगतम् । कालक्रमेण यादगिरिः अभवत् । कालान्तरे यादवान् जित्वा पश्चिमचालुक्याः पालितवन्तः। गच्छति काले क्रमशः बहमनिसुल्तानानां बिजापुर- सुल्तानानां हैदराबाद् निजामानां च हस्तगतम् अभवत् ।

सञ्चारव्यवस्था[सम्पादयतु]

इदानीं रेल् बस् इत्यादीनां सञ्चारिवाहनानां व्यवस्था समीचीना अस्ति । कर्णाटकतः आन्ध्रतः अपि सर्वविधसम्पर्काः भवन्ति । एतत् मण्डलकेन्द्रं मुम्बई, बेङ्गळूरु, चेन्नै, हैदराबाद्, तिरुपतिः, तिरुवनन्तपुरं, सोलापुरं, धर्मावरं, कोयम्बत्तूर्, कन्याकुमारी इत्यादिभ्यः महानगरेभ्यः साक्षात् सञ्चारसम्बन्धः अस्ति । यन्त्रोद्यमस्थापनार्थं अतीव अवकाशः अत्र विद्यते ।

खनिजाः[सम्पादयतु]

यादगिरिमण्डलं नैसर्गिकसम्पदा पूरितम् अस्ति । युरेनियं निक्षेपः नूतनतया आविष्कृतः । क्रिस्ताब्दे २००९ तमे वषे नूतनतया निर्मितं मण्डलम् एतत् । भीमाकृष्णानद्योः मध्ये स्थितः अयं प्रदेशः यादवानां प्रशासने आसीत् ।

क्षेत्राणि[सम्पादयतु]

यादगिरिः, शहपुरं, सुरपुरं ,तिन्थणी, हुणसगी , यरगोळ्,

१) यादगिरिनगरे पर्वतप्रदेशे जगन्मातामन्दिरं श्रीरामलिङ्गेश्वरमन्दिरं च स्तः । जैनबसदि शिथिलदुर्गाणि च सन्ति ।

मार्गः

बेङ्गळूरुतः ५६८ कि.मी ।

२) छायाभगवती क्षेत्रं रामगया इति प्रसिद्धम् अस्ति । प्राचीनकाले सगरसीमा इति प्रसिद्धम् इदानीं सुरपुरम् इति अस्ति । अत्र पर्वतप्रदेशे रुक्मिणी सत्यभामासहितः श्रीमदनगोपालः श्रीकृष्णः तिष्ठन् इव निर्मितोऽस्ति । सुन्दरदेवालयस्य पुरतः पुष्करिणी अस्ति । श्री कृष्णजन्माष्टमीसमये सहस्रशः जनाः अत्र अगच्छन्ति ।

मार्गः

यादगिरितः ३५ कि.मी.


"https://sa.wikipedia.org/w/index.php?title=यादगिरिमण्डलम्&oldid=240332" इत्यस्माद् प्रतिप्राप्तम्