गुल्बर्गामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुल्बर्गामण्डलम्

ಗುಲಬರ್ಗಾ ಜಿಲ್ಲೆ
मण्डलम्
गुल्बर्गनगरस्य दुर्गम्
गुल्बर्गनगरस्य दुर्गम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागम् गुल्बर्गविभागम्
केन्द्रम् गुल्बर्गामण्डलम्
Government
 • Deputy Commissioner विशालः R , IAS
Area
 • Total १०,९५१ km
Elevation
४५४ m
Population
 (2001)
 • Total २१,७४,७४२
 • Density २००/km
भाषा
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसमान्य कालमानम्)
PIN
585101
दूरनवाणिसंज्ञा 91 8472
Vehicle registration KA32
ग्रीष्मकालस्य सामान्यतापमानम् 42 °से (108 °फ़ै)
शैत्यकालस्य सामान्यतापमानम् 26 °से (79 °फ़ै)
Website gulbarga.nic.in
Gulbarga district website

गुल्बर्गामण्डलं (Gulbarga district) कर्णाटकस्य उत्तरभागस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रं गुल्बर्गा नगरम्। गुल्बर्गामण्डलस्य पूर्वतनं नाम कल्बुर्गि इति ।

विस्तीर्णता[सम्पादयतु]

१६२२४ च.कि.मी. मिता।

जनसंख्या[सम्पादयतु]

अस्य मण्डलस्य जनसङ्ख्या २५ लक्षमिता अस्ति ।

उपमण्डलानि[सम्पादयतु]

अत्र आळन्द, अफजलपुरं, गुल्बर्गा, चिञ्चोळी, सेडं, चितापुर, जेवर्गी इति ७ उपमण्डलानि भवन्ति ।

नद्यः[सम्पादयतु]

कृष्णा भीमा अमरजा च अस्मिन् मण्डले विद्यमाने द्वे नद्यौ ।

वातावरणम्[सम्पादयतु]

ग्रीष्मकाले उष्णता ४६ डिग्रिपर्यन्तं वर्धते। शरत्काले शैत्यं १५ डिग्रिपर्यन्तं क्षीयते ।

इतिहासः[सम्पादयतु]

राष्ट्रकूटैः पालितम् एतत् मण्डलं चालुक्यानां हस्ते द्विशतं वर्षाणि यावत् आसीत् । चालुक्यानाम् अनन्तरं द्वादशशतकशतकपर्यन्तं कलचूर्यानां प्रशासने आसीत् । द्वादशशतकस्यान्ते देवगिरियादवाः अपालयन् । तेषाम् अनन्तरं काकतीयाः पालितवन्तः । ते युद्धे देहलिसुल्तानैः पराजिताः। क्रि.श.१३२१ तमे वर्षे देहलीसामन्तराजान् आक्रम्य बहमनिसाम्राज्यस्य स्थापनम् अभवत् । सप्तदशे शतके औरङ्गजेबः एतं प्रदेशं जित्वा पुनः मुघल् आधिपत्यं स्थापितवान् । स्वातन्त्र्योत्तरमपि एतत् हैद्राबाद्संस्थाने आसीत् । बहूनां परिश्रमफलेन क्रि.श.१९४८ तमे वर्षे भारतस्य गणराज्ये अन्तर्गतम् ।

भैगोलिकता[सम्पादयतु]

गुल्बर्गामण्डलं बेङ्गळूरुतः ६१३कि.मी.दूरे अस्ति । बिजापुर-हैदराबाद्-बीदर्- प्रदेशेभ्यः मार्गसम्पर्कः अस्ति । दक्षिणभारतात् उत्तरदिशि सञ्चरन्ति रैल् यानानि गुल्बर्गाद्वारा एव गच्छन्ति । वर्षे ७५ से.मी. वर्षा पतति । समुद्रतटात् २००मी. औन्नत्ये स्थितम् एतन्मण्डलम् ।

कृषिः[सम्पादयतु]

कृष्णाजलबन्धेन अत्र कृषिसमृद्धिः अस्ति । मण्डलस्य श्यामला मृत्तिका कृषिकर्मार्थं योग्या अस्ति । प्रधानानि सस्यानि, गोधूमः, द्विदलधान्यानि, कलायाः, व्रीहिः, च भवन्ति । कृषिप्रधाने अस्मिन् मण्डले यन्त्रोद्यमस्य गणनीया प्रगतिः नास्ति ।

उद्यमाः[सम्पादयतु]

शहाबाद्, वाडी, मळखेड, प्रदेशेषु वज्रचूर्णानि(सिमेण्ट्)उत्पाद्यन्ते । मण्डले बहुत्र ’दाल् मिल् ’ सन्ति । शहाबाद् इत्यत्र शिलाफलकानाम् उद्यमः अपि अस्ति ।

क्षेत्राणि[सम्पादयतु]

गुलबर्गा, नागवि, काळगि, मळखेड, मण्णूरु, गाणगापुरम् ,

दर्शानीयानि स्थानानि[सम्पादयतु]

१) गुलबर्गानगरम्[सम्पादयतु]

गुलबर्गाप्रदेशस्य कलबुर्गी, कलम्बुरगी कल्लुभूमी इति नामानि आसन् । कर्णाटकस्योत्तरे भागे अस्ति । अत्र रन्नः कुमारवाल्मीकिः मडिवाळमाचय्यः च आसन् । अत्र बन्देनवाजदर्गा, शरणबसवेश्वमन्दिरं दर्शनीयानि स्थानानि । आनन्ददासः भीमदासः मण्णूरुदासः विठलदासः इत्येतेषां जन्मभूमिः एषः प्रदेशः । शरणबसवेश्वरमन्दिरस्य सभामण्डपे स्तम्भेषु मयूर-गरुड-शुक-सिंह-गजादीनां प्रतिकृतयः सन्ति । चैत्रशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति। गुल्बर्गानगरे शरणबसवेश्वरमन्दिरम्, बन्देनवाज्दर्गा, बहमनिकोटे, श्रीराममन्दिरं, श्रीदत्तात्रेयमन्दिरम्, श्रीसायिमन्दिरम्, लक्ष्मीमन्दिरम्, श्री भाग्यवन्ति देवस्थानम्, टैलर्मञ्जिल्, श्री वेणुगोपालदेवालयः च। सुरपुरस्य नायकानां राजगृहं, माणिक्यनगरस्य माणिकेश्वरीदेवालयः, केसरटगिपार्क्, इत्यादीनि प्रेक्षणीयानि स्थानानि सन्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ६२३ कि.मी ।
धारवाडतः ३४८ कि.मी ।
बिजापुरतः १४५ कि.मी

२) गाणगापुरम् (अफझलपुरम्)[सम्पादयतु]

त्रिमूर्तिरुपदत्तात्रेयस्य पादुकापूजा उत्सवादयः अस्मिन् क्षेत्रे प्रसिद्धाः सन्ति । अस्य गणगभवनं गन्धर्वभवनं चेति नामानि श्रीगुरुचरित्रग्रन्थे सन्ति । भीमा-अमरजानद्योः सङ्गमस्थानम् एतत् । दत्तत्रेयस्यावताराः इति प्रसिद्धः श्रीनरसिंहभारतीस्वामी अत्र निवासं कृत्वा अन्ते समाधिस्थः अभवत् । फेब्रवरीमासे अत्र यात्रामहोत्सवः भवति । "दत्तजयन्तिविशेषोत्सवः" ।

मार्गः[सम्पादयतु]

गाणगापुररेलनिस्थानतः १६ कि.मी गुलबर्गा -चवडापुरतः ३८ कि.मी

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]







"https://sa.wikipedia.org/w/index.php?title=गुल्बर्गामण्डलम्&oldid=480252" इत्यस्माद् प्रतिप्राप्तम्