बीदरनगरम्
Bidar ಬೀದರ್ | |
|---|---|
|
नगरम् | |
|
बीदरदुर्गस्य प्रवेशद्वारम् | |
| देशः | भारतम् |
| राज्यम् | कर्णाटकम् |
| वलयः | बयलुसीमे |
| मण्डलम् | बीदर |
| Government | |
| • Deputy Commissioner | Dr. PC Jaffer IAS |
| Area | |
| • Total | ४३ km२ |
| Elevation | ६१४ m |
| Population | |
| • Total | १,७०,२०४ |
| • Density | ४,०००/km२ |
| भाषाः | |
| • अधिकृताः | कन्नड |
| Time zone | UTC+5:30 (IST) |
| पिन् |
585 401 |
| Telephone code | 91 8482 |
| Vehicle registration | KA38 |
| Website | www.bidarcity.gov.in |
भारतदेशे किञ्चन राज्यम् अस्ति कर्णाटकराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बीदरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बीदरनगरम् । अस्य मण्डलस्य पञ्चसु उपमण्डलेषु अन्यतमम् अस्ति बीदर-उपमण्डलम्। बीदर-उपमण्डलस्य केन्द्रम् अपि बीदरनगरम्।
पूर्वेतिहासः
[सम्पादयतु]पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति । कर्णाटकराज्ये स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नाम-- नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् । नरसिंहगुहान्तरदेवालयतः नरसिंहनिर्झरतः सततं जलं प्रवहति ।