सामग्री पर जाएँ

बीदरनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Bidar

ಬೀದರ್
नगरम्
बीदरदुर्गस्य प्रवेशद्वारम्
बीदरदुर्गस्य प्रवेशद्वारम्
देशः भारतम्
राज्यम् कर्णाटकम्
वलयः बयलुसीमे
मण्डलम् बीदर
Government
  Deputy Commissioner Dr. PC Jaffer IAS
Area
  Total ४३ km
Elevation
६१४ m
Population
  Total १,७०,२०४
  Density ४,०००/km
भाषाः
  अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
585 401
Telephone code 91 8482
Vehicle registration KA38
Website www.bidarcity.gov.in

भारतदेशे किञ्चन राज्यम् अस्ति कर्णाटकराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बीदरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बीदरनगरम् । अस्य मण्डलस्य पञ्चसु उपमण्डलेषु अन्यतमम् अस्ति बीदर-उपमण्डलम्। बीदर-उपमण्डलस्य केन्द्रम् अपि बीदरनगरम्।

पूर्वेतिहासः

[सम्पादयतु]

पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति । कर्णाटकराज्ये स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नाम-- नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् । नरसिंहगुहान्तरदेवालयतः नरसिंहनिर्झरतः सततं जलं प्रवहति ।

"https://sa.wikipedia.org/w/index.php?title=बीदरनगरम्&oldid=332965" इत्यस्माद् प्रतिप्राप्तम्