गोकाक
गोकाक | |
---|---|
नगरम् | |
देशः | भारतम् |
राज्यम् | कर्णाटकम् |
वलयः | बयलुसीमे |
मण्डलम् | बेळगावी |
Government | |
• Administrator | Shri. Ramesh Laxmanrao Jarkiholi |
• Tahsildar | Shri. Audram |
Area | |
• Total | ३३.०५ km२ |
Elevation | ५५३ m |
Population (2011) | |
• Total | १,२०,१७० |
• Density | २,०३२.३८/km२ |
भाषाः | |
• अधिकृताः | कन्नड |
Time zone | UTC+5:30 (IST) |
पिन् |
591 307 |
Telephone code | 918332 |
Vehicle registration | KA-49 |
Sex ratio | 969 ♂/♀ |
Website | www.gokakcity.gov.in |
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति गोकाक-उपमण्डलम् ।
अस्मिन् उपमण्डले सुप्रसिद्धः गोकाकजलपातः अस्ति । एतस्य जलपातस्य अधः विद्युच्छक्त्याः उत्पादनम् भवति । मूलतः एतत् नगरं वाणिज्यार्थं प्रसिद्धम् अस्ति । अत्रत्ये कृष्युत्पन्नविक्रयणकेन्द्रे गुडस्य, जूर्णस्य, कार्पासस्य च वाणिज्यं भवति । वेगेन वर्धमानस्य यान्त्रिकीकरणस्य प्रभावेन अस्मिन् नगरे अपि परिवर्तनानि जायमानानि सन्ति । अतः अत्र वस्त्रस्य, शर्करानिर्माणस्य, जूर्नसंस्करणस्य, वज्रचूर्णस्य च उद्यमाः आरब्धाः सन्ति। अस्मिन् मण्डले बेळगावीनगरस्य अनन्तरं बृह्त् तथा क्रियाशीलं नगरम् एतत् ।
इतिहासः
[सम्पादयतु]ऐतिहासिकदृष्ट्या अपि प्रमुखं स्थानम् अस्ति एतत् । बादामीचालुक्याः, तथा कल्याणीचालुक्याः अत्र शासनं कृतवन्तह् सन्ति । मोगलानां काले बिजापुरस्य सुल्तानाः एतत् दुर्गं वशीकृतवन्तः । सवणूरस्य नवाबाः एतत् पारितोषिकरूपेण प्राप्तवन्तः सन्ति । दुर्भेद्यस्थाने आसीत् इत्यतः किञ्चित्कालम् यावत् जमखण्डीसंस्थानस्य, कित्तूरुसंस्थानस्य, मराठापेश्वेजनानां च अधीने आसीत्। ब्रिटीषसाम्राज्ये बेलगावीमण्डलस्य उपविभागरूपेन आसीत् । १९५६तमे वर्षे राज्यानां पुनर्घटनं यदा अभवत् तदा कर्णाटके एतस्य योजनम् अभवत् ।
नगरनिर्वहणम्
[सम्पादयतु]अत्रत्या नगरसभा १८५३तमे वर्षे स्थापिता अस्ति । तदानीन्तनः मुम्बयीसर्वकारः एककाले पुणेनगरे तथा गोकाकनगरे पुरसभाम् आरभत। अतः कर्णाटकस्य अत्यन्तं प्राचीना पुरसभा एषा । १९९५ तमे वर्षे कर्णाटकसर्वकारः एतां पुरसभां नगरसभारूपेण पर्यवर्तयत् । नगरस्य उपविभागानां ३१ सदस्याः अस्य प्रतिनिधित्वं कुर्वन्ति ।
गोकाकवैशिष्ट्यम्
[सम्पादयतु]गोकाकपट्टनं विविधविषयानां निमित्तं प्रसिद्धम् अस्ति । यथा- काष्ठनिर्मितफलानां फलकानि, पाञ्चाल्लिकाः, करकुशलवस्तूनि च अत्र निर्मीयन्ते । गोकाककरदण्टु नामकं सुप्रसिद्धं मधुरखाद्यम् अत्रत्यम् एव । एषु दिनेषु अत्रत्यं लडगिलाडु नामकं लड्डुकम् अपि सुप्रसिद्धं जातम् अस्ति ।
प्रसिद्धव्यक्तयः
[सम्पादयतु]चन्द्रशेखर कम्बारः बसवराजकट्टीमनी, के.जी.कुन्दणगारः, कृष्णमूर्ती पुराणिकः, बेटगेरी कृष्णशर्मा इत्यादयः साहित्यकाराः गोकाक-उपमण्डलतः सन्ति ।
रेल् निस्थानकम्
[सम्पादयतु]गोकाकनगरात् १० कि.मी. दूरे निस्थानकम् अस्ति । बेळगावीमण्डले पञ्चमं बृहत् स्थानकम् एतत् । नैऋत्यवलयस्य हुब्बळ्ळीविभागे अन्तर्भवति । स्थनकस्य उत्तरभागे घटप्रभानामकं, दक्षिणे पाश्चपुरनिस्थानकानि सन्ति । गोकाकरोड् निस्थानकम् इति अस्य अपरं नाम ।
प्रेक्षणीयस्थानानि
[सम्पादयतु]गोकाकजलपातः गोडचिनमल्किजलपातः घटप्रभापक्षिधाम, धुपदाळ, हिडकल्जलबन्धः, योगीकोळ्ळनिसर्गधाम (गोकाकमयूरधाम) च रमणीयानि सन्ति ।