सामग्री पर जाएँ

गोकाक

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोकाक
नगरम्
गोकाकजलपातः
देशः  भारतम्
राज्यम् कर्णाटकम्
वलयः बयलुसीमे
मण्डलम् बेळगावी
Government
  Administrator Shri. Ramesh Laxmanrao Jarkiholi
  Tahsildar Shri. Audram
Area
  Total ३३.०५ km
Elevation
५५३ m
Population
 (2011)
  Total १,२०,१७०
  Density २,०३२.३८/km
भाषाः
  अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
591 307
Telephone code 918332
Vehicle registration KA-49
Sex ratio 969 /
Website www.gokakcity.gov.in


कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति गोकाक-उपमण्डलम् । अस्मिन् उपमण्डले सुप्रसिद्धः गोकाकजलपातः अस्ति । एतस्य जलपातस्य अधः विद्युच्छक्त्याः उत्पादनम् भवति । मूलतः एतत् नगरं वाणिज्यार्थं प्रसिद्धम् अस्ति । अत्रत्ये कृष्युत्पन्नविक्रयणकेन्द्रे गुडस्य, जूर्णस्य, कार्पासस्य च वाणिज्यं भवति । वेगेन वर्धमानस्य यान्त्रिकीकरणस्य प्रभावेन अस्मिन् नगरे अपि परिवर्तनानि जायमानानि सन्ति । अतः अत्र वस्त्रस्य, शर्करानिर्माणस्य, जूर्नसंस्करणस्य, वज्रचूर्णस्य च उद्यमाः आरब्धाः सन्ति। अस्मिन् मण्डले बेळगावीनगरस्य अनन्तरं बृह्त् तथा क्रियाशीलं नगरम् एतत् ।

इतिहासः

[सम्पादयतु]

ऐतिहासिकदृष्ट्या अपि प्रमुखं स्थानम् अस्ति एतत् । बादामीचालुक्याः, तथा कल्याणीचालुक्याः अत्र शासनं कृतवन्तह् सन्ति । मोगलानां काले बिजापुरस्य सुल्तानाः एतत् दुर्गं वशीकृतवन्तः । सवणूरस्य नवाबाः एतत् पारितोषिकरूपेण प्राप्तवन्तः सन्ति । दुर्भेद्यस्थाने आसीत् इत्यतः किञ्चित्कालम् यावत् जमखण्डीसंस्थानस्य, कित्तूरुसंस्थानस्य, मराठापेश्वेजनानां च अधीने आसीत्। ब्रिटीषसाम्राज्ये बेलगावीमण्डलस्य उपविभागरूपेन आसीत् । १९५६तमे वर्षे राज्यानां पुनर्घटनं यदा अभवत् तदा कर्णाटके एतस्य योजनम् अभवत् ।

नगरनिर्वहणम्

[सम्पादयतु]

अत्रत्या नगरसभा १८५३तमे वर्षे स्थापिता अस्ति । तदानीन्तनः मुम्बयीसर्वकारः एककाले पुणेनगरे तथा गोकाकनगरे पुरसभाम् आरभत। अतः कर्णाटकस्य अत्यन्तं प्राचीना पुरसभा एषा । १९९५ तमे वर्षे कर्णाटकसर्वकारः एतां पुरसभां नगरसभारूपेण पर्यवर्तयत् । नगरस्य उपविभागानां ३१ सदस्याः अस्य प्रतिनिधित्वं कुर्वन्ति ।

गोकाकवैशिष्ट्यम्

[सम्पादयतु]

गोकाकपट्टनं विविधविषयानां निमित्तं प्रसिद्धम् अस्ति । यथा- काष्ठनिर्मितफलानां फलकानि, पाञ्चाल्लिकाः, करकुशलवस्तूनि च अत्र निर्मीयन्ते । गोकाककरदण्टु नामकं सुप्रसिद्धं मधुरखाद्यम् अत्रत्यम् एव । एषु दिनेषु अत्रत्यं लडगिलाडु नामकं लड्डुकम् अपि सुप्रसिद्धं जातम् अस्ति ।

प्रसिद्धव्यक्तयः

[सम्पादयतु]

चन्द्रशेखर कम्बारः बसवराजकट्टीमनी, के.जी.कुन्दणगारः, कृष्णमूर्ती पुराणिकः, बेटगेरी कृष्णशर्मा इत्यादयः साहित्यकाराः गोकाक-उपमण्डलतः सन्ति ।

रेल् निस्थानकम्

[सम्पादयतु]

गोकाकनगरात् १० कि.मी. दूरे निस्थानकम् अस्ति । बेळगावीमण्डले पञ्चमं बृहत् स्थानकम् एतत् । नैऋत्यवलयस्य हुब्बळ्ळीविभागे अन्तर्भवति । स्थनकस्य उत्तरभागे घटप्रभानामकं, दक्षिणे पाश्चपुरनिस्थानकानि सन्ति । गोकाकरोड् निस्थानकम् इति अस्य अपरं नाम ।

प्रेक्षणीयस्थानानि

[सम्पादयतु]

गोकाकजलपातः गोडचिनमल्किजलपातः घटप्रभापक्षिधाम, धुपदाळ, हिडकल्जलबन्धः, योगीकोळ्ळनिसर्गधाम (गोकाकमयूरधाम) च रमणीयानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=गोकाक&oldid=271082" इत्यस्माद् प्रतिप्राप्तम्