के.जी.कुन्दणगारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
के.जी.कुन्दणगारः
के.जी.कुन्दणगारस्य जन्म नगरस्य मानचित्रः
के.जी.कुन्दणगारस्य जन्म नगरस्य मानचित्रः


“उत्तरकर्णाटके कन्नडभाषा अध्ययनार्थं योग्यभाषा इति कथयितृषु कुन्दणगारः (Kundanagaara) अन्यतमः । कन्नडं क्रियात्मकरूपेण, शास्त्रियरूपेण च पाठनस्य मार्गदर्शकः एषः एव । कन्नडाम्बायाः देवालयानां शिखराणां आधारभूमिः कुन्दणगारः एव इति अ. न.कृष्णरायः उक्तवान् अस्ति । बेळगावीमण्डलस्य गोकाक-उपमण्डलस्य कौजलगीग्रामे १८९५तमे वर्षे आगस्ट्मासस्य १४ दिनाङ्के बुधवासरे एतस्य जन्म अभवत् । पिता गिरिमल्लपः माता शाकाम्बरी । कल्लपः इति पित्रे कृतं नामकरणम् । बाल्ये एव मातापित्रोः अग्रजानुजानां वियोगं प्राप्य पितृव्यस्य निङ्गप्पस्य आश्रये वर्धितवान्। स्वर्णकारकुले जन्म प्राप्तवतः कल्लप्पस्य कुन्दणगारः इति मूलवृत्तेः कुलनाम शाश्वतम् अभवत् । निर्धनकुटुम्बे जन्म प्राप्तवता कल्लप्पेन बाल्ये एव कार्यं करणीयम् अभवत् । स्वश्रमेण आर्जितधनेन बेलगाव्याः सर्दारप्रौढशालायां शिक्षणम् अनुवर्तितवान् । तदनन्तरं भीमप्पकौजलगिमहोदयस्य सहाय्येन धारवाडनगरे अग्रिमविद्याभ्यासम् अनुवर्तितवान् । क्रि.श.१९०९ तमे वर्षे मेट्रिक् परीक्षायाम् उत्तीर्णः जातः । कल्लप्पः मित्रणां साहाय्येन पुणेनगरस्य फर्ग्यूसन् महाविद्यालयं प्रविष्टवान् । १९१३ तमे वर्षे इण्टर् मीडियेट् परीक्षायाम् उत्तीर्णः जातः । तथापि अनारोग्यस्य तथा निर्धनत्वस्य कारणतः व्यासङ्गं त्यक्त्वा शिक्षकवृत्तिः अवलम्बनीया अभवत् । १९१४ तमे वर्षे कमलाबाय्या सह विवाहः जातः । विवाहानन्तरं स्वयम् अध्ययनं कृत्वा १९१९ तमे वर्षे विज्ञानविषयं स्वीकृत्य पदविपरीक्षायाम् उत्तीर्णः जातः । ततः प्रभृतिः कल्लप्प गिरिमल्लप्प कुन्दणगारः इति प्रसिद्धः जातः । सः एव के. जी. कुन्दणगारः । गोकाक् मुनसिपल् महाविद्यालये शिक्षकः जातः कुन्दणगारः । कालक्रमेण एतां प्रतिष्ठितशिक्षणसंस्था इति निरूपितवान् । एतस्मिन् काले कन्नडसंस्कृतभाषयोः अध्ययनम् अनुवर्त्य १९२५ तमे वर्षे कन्नडविषये एम्. ए. पदवीं प्राप्तवान् । अनन्तरं धारवाडनगरस्य कर्णाटकमहाविद्यालये कन्नडप्राध्यापकवृत्तिं प्राप्य कुन्दणगारः प्राध्यापकस्य स्थानं प्राप्तवान् । वर्षद्वयानन्तरं धारवाडनगरं त्यक्त्वा कोल्हापुरं गत्वा तत्रत्य राजाराममहाविद्यालयं प्रविष्टवान् । तस्मिन्नेव वर्षे कोल्हापुरसंस्थानस्य प्राच्यवस्तुसंशोधनविभागे निर्देशक- रूपेण नियुक्तः जातः । तत्र एतस्मै ग्रन्थरचनायाः उत्तमः अवसरः प्राप्तः । १९३७ तमे वर्षे तेन रचिता प्रथमा कृतिः "हरिहर देव प्रशस्ति” । तदनन्तरं प्रथमा कादम्बरी 'सरस्वती’ । अन्यः कश्चन हास्यरसप्रधानः ग्रन्थः 'चहा’ इति । कन्नडभाषायाः वर्धनार्थं रचनात्मकमार्गदर्शनं कृतवान् कुन्दणगारः । दक्षिणभारतस्य बहुषु विश्वविद्यालयेषु एषः प्रतिष्ठितस्थानं प्राप्तवान् आसीत् । कन्नडभाषायाः भव्यपरम्परायाः ज्ञानम् आङग्लभाषामाध्यमेन इतरेभ्यः प्रापितवान् राजदूतः अस्ति कुन्दणगारः । कन्नडसाहित्यपरिषदः "कन्नड-कन्नड निघण्टुः” इत्यस्य रचनायाः कार्ये कुन्दणगारः आत्मानं प्रवर्तितवान् । सुव्यवस्थितरूपेण कार्यकरणं तस्य बाल्यादारभ्य प्राप्तः संस्कारयुक्तः गुणः। एतादृश महान् १९६१ तमे वर्षे गदगनगरे प्रचलितस्य ४३ तमस्य अखिलभारतकन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं अलङ्कृतवान् । कन्नडं व्यवस्थितरीत्या प्रवर्धितेषु ज्येष्ठेषु प्रोफेसर् कुन्दणगारः अन्यतमः । १९८५ तमे वर्षे आगस्ट्मासस्य २२ तमे दिनाङ्के एषः दिवङ्गतः । एतस्य निस्वार्थं सार्थकं च जीवनं युवसन्ततेः मार्गदर्शकम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=के.जी.कुन्दणगारः&oldid=393544" इत्यस्माद् पुनः प्राप्तिः