खानापुरम्
खानापुरम् Khanapur,ಖಾನಾಪುರ,खानापुर | |
|---|---|
|
नगरम् | |
| देशः |
|
| राज्यम् | कर्णाटकम् |
| मण्डलम् | बेळगावी |
| Elevation | ६४९ m |
| Population (2011) | |
| • Total | २०,४०९ |
| भाषाः | |
| • अधिकृताः | मराठी, कन्नड |
| Time zone | UTC+5:30 (IST) |
| पिन् |
591302 |
| Telephone code | 08336 |
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति खानापुर-उपमण्डलम् । एतत् नगरं बेळगावीनगरतः २६कि.मी.दूरे अस्ति । बेळगावी-पणजी(राष्ट्रियराजमार्गः-४A) मार्गे अस्ति एतत् नगरम् । उत्तमः रेलसम्पर्कः, वहनसम्पर्कः च अस्ति । कन्नड,मराठी, कोङ्कणी भाषाः प्रधानतया भाष्यन्ते ।
भौगोलिकता
[सम्पादयतु]खानापुरस्य निर्देशाङ्कौ १५.६३°उ ७४.५२°पू.
प्रवासोद्यमः, इतर-आकर्षणानि च
[सम्पादयतु]मृत्पात्राणां निर्माणार्थम् एतत् नगरं प्रसिद्धम् अस्ति । खादिग्रामोद्योगयोजनायाः अङ्गतया एतत् कार्यं प्रचलति । मलप्रभानद्याः तीरे ब्रिटिषकालीनानि प्रेक्षणीयस्थानानि सन्ति । अत्रत्यजनानां प्रधानः उद्यमः कृषिः । अत्र इक्षुदण्डः, व्रीहिः, रागिधान्यम् इत्यादीनाम् उत्पादनं भवति । फलेषु पनसः, चिक्कु, बीजपुरं च अधिकतया वर्धते । भ्रष्टतण्डुलस्य गुडस्य च निर्माणं भवति ।.
दर्शनीयानि
[सम्पादयतु]- हलसीग्रामे कदम्बकालीनं भूवराहनरसिंहमन्दिरम् ।
- देवगांवग्रामे कदम्बशैल्या निर्मितं कमलनारायणमन्दिरम्।
- असोगानामकः ग्रामः मलप्रभानद्याः तीरे अस्ति । तत्रत्यानि कदम्बकालीनानि मन्दिराणि सुप्रसिद्धानि सन्ति ।