खानापुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खानापुरम्

Khanapur,ಖಾನಾಪುರ,खानापुर
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावी
Elevation
६४९ m
Population
 (2011)
 • Total २०,४०९
भाषाः
 • अधिकृताः मराठी, कन्नड
Time zone UTC+5:30 (IST)
पिन्
591302
Telephone code 08336

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति खानापुर-उपमण्डलम् । एतत् नगरं बेळगावीनगरतः २६कि.मी.दूरे अस्ति । बेळगावी-पणजी(राष्ट्रियराजमार्गः-४A) मार्गे अस्ति एतत् नगरम् । उत्तमः रेलसम्पर्कः, वहनसम्पर्कः च अस्ति । कन्नड,मराठी, कोङ्कणी भाषाः प्रधानतया भाष्यन्ते ।

भौगोलिकता[सम्पादयतु]

खानापुरस्य निर्देशाङ्कौ १५.६३°उ ७४.५२°पू.

प्रवासोद्यमः, इतर-आकर्षणानि च[सम्पादयतु]

मृत्पात्राणां निर्माणार्थम् एतत् नगरं प्रसिद्धम् अस्ति । खादिग्रामोद्योगयोजनायाः अङ्गतया एतत् कार्यं प्रचलति । मलप्रभानद्याः तीरे ब्रिटिषकालीनानि प्रेक्षणीयस्थानानि सन्ति । अत्रत्यजनानां प्रधानः उद्यमः कृषिः । अत्र इक्षुदण्डः, व्रीहिः, रागिधान्यम् इत्यादीनाम् उत्पादनं भवति । फलेषु पनसः, चिक्कु, बीजपुरं च अधिकतया वर्धते । भ्रष्टतण्डुलस्य गुडस्य च निर्माणं भवति ।.

दर्शनीयानि[सम्पादयतु]

  • हलसीग्रामे कदम्बकालीनं भूवराहनरसिंहमन्दिरम् ।
  • देवगांवग्रामे कदम्बशैल्या निर्मितं कमलनारायणमन्दिरम्।
  • असोगानामकः ग्रामः मलप्रभानद्याः तीरे अस्ति । तत्रत्यानि कदम्बकालीनानि मन्दिराणि सुप्रसिद्धानि सन्ति ।
"https://sa.wikipedia.org/w/index.php?title=खानापुरम्&oldid=364558" इत्यस्माद् प्रतिप्राप्तम्