बेळगावी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बेळगावी

वेणुग्रामः

बेलगांव, बेल्गम्
नगरम्
Skyline of बेळगावी
देशः भारतम्
राज्यम् कर्णाटकम्
वलयः बयलुसीमे
मण्डलम् बेळगावी
Government
 • Administrator Shri V. Anbukkumar
Area
 • Total ९५ km
Elevation
७६२ m
Population
 (2011)
 • Total ४८८,२९२
 • Density ५,१००/km
भाषाः
 • अधिकृताः कन्नड, मराठी
Time zone UTC+5:30 (IST)
पिन्
590 0XX
Telephone code +91831
Vehicle registration KA-22

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बेळगावी-उपमण्डलम् । कन्नडभाषिणः बेळगावीनाम्ना, मराठीभाषिणः बेळगांव नाम्ना च एतत् नगरं सम्बोधयन्ति । कर्णाटके बेङ्गळूरु, हुब्बळ्ळी, मैसूरु नगराणाम् अनन्तरं चतुर्थं महानगरम् एतत् । समुद्रस्तरतः समान्यतः २५०० पादोन्नते(७६२मीटर्) स्थाने अस्ति एतत् नगरम् । कर्णाटकसर्वकारः द्वितीयराजधानीरूपेण बेळगावीनगरं कर्तुम् इच्छति । अतः सद्यःकाले (२०१२तमवर्षस्य अक्टोबर् मासस्य ११ दिनाङ्के) सुवर्णविधानसौधनामकस्य शासकीयभवनस्य उद्घाटनम् अकरोत् ।

बेळगावीसीमाविवादः[सम्पादयतु]

१९५६ तमे वर्षे भाषानुगुणं राज्यानां यत् पुनर्घटनम् अभवत् तदा बेळगावीमण्डलं मैसूरुराज्ये(इदानीं कर्णाटकम्) योजितम् ( यद्यपि ३/४जनाः अत्र मराठीभाषिण्ः आसन्) । तदारभ्य महाराष्ट्रस्य जनाः एतत् मण्डलम् अस्माकम् इति प्रतिपादयन्तः सन्ति । एषः विवादः इदानीं सर्वोच्चन्यायालये अस्ति ।

भौगोलिकता[सम्पादयतु]

बेळगावीनगरस्य निर्देशाङ्कौ १५.८७°उ ७४.५°पू.[11] । एतत् नगरं कर्णाटकस्य उत्तरपश्चिमभागे अस्ति ।गोवा तथा महाराष्ट्रं सीमावर्तिनी राज्ये । गोवाराज्यस्य सीमातः ५०कि.मीटर् दूरे अस्ति एतत् नगरम् । राज्यस्य प्राचीननगरेषु अन्यतमम् अस्ति । राज्यराजधानीबेङ्गळूरुतः ५०२कि.मी.दूरे, हैदराबाद्तः ५१५कि.मी.दूरे , मुम्बयीतः ५००कि.मी.दूरे अस्ति । बेळगावीप्रदेशः बेळुवलनाडु इति प्रसिद्धम् आसीत्। अस्य वेणुग्रामः इति चारित्रिकं नाम आसीत् । अत्र दुर्गाणि, मन्दिराणि, जलपाताः, नदीसङ्गमादि दर्शनीयानि स्थानानि सन्ति । पूर्वकाले वेदाध्ययनशीलाः विप्राः अत्र वसन्ति स्म । स्वामी विवेकानन्दः अत्र नवदिनानि यावत् स्थितवान् । बेळगावी नगरे सुन्दरः आकर्षकः रामकृष्णाश्रमः अस्ति। द्वादशशतके निर्मितस्य दुर्गस्य पार्श्वे कमलबसदि इति सुन्दरः षोडशस्तम्भाधीरतः शिल्पाविशेषः अस्ति । एतत् शिलाबसदि इत्यपि कथयन्ति । एतत् परितः २०८ जैनप्रतिमाः सन्ति । नगरमध्ये प्रसिद्धः हनुमान् देवालयः अस्ति । एषः नगररक्षकः इति विख्यातः अस्ति । सेनाप्रदेशे मिलिटरी महादेवः इति ख्यातः शिवः मन्दिरे राराजते । शहपुरमार्गे पार्श्वे कपिलेश्वरनामकः स्वयम्भूः द्विशतवर्षप्राचीनः लिङ्गविशेषः अस्ति। । एतम् कपिलप्प इति च कथयन्ति । दक्षिणकाशी इति क्षेत्रस्य नाम अस्ति । श्रावणमासे शिवरात्रिपर्वणि च अत्र विशेषपूजादिकं भवति । बेळगावी समीपे ८. कि.मी दूरे कणबग्रामे रामतीर्थम् अस्ति । अत्र रामशिवयोः मन्दिरे स्तः । हलीसग्रामे कदम्बवास्तुशिल्परुपः श्री लक्ष्मीनरसिंहस्य देवालयः अस्ति । सुन्दरं गोपुरम् (५पादपरिमितम्), ४ - पादपरिमितोन्नता श्रीलक्ष्मीनारायणमूर्तिः सर्वालङ्कारविशिष्टा अङ्कस्थापितलक्ष्मीयुक्ता अस्ति । नृसिंहस्य १.५ पादपरिमितोन्नता मूर्तिः मानवदेहसिंहशिरविशिष्टा अस्ति । पुरतः योगी नारायणस्य शिलामन्दिरमपि अस्ति । मुगुटखानहुब्बळ्ळीप्रदेशे मलप्रभानदीतीरे सञ्चरन् श्री च्यवनमहर्षिः श्री रुद्रदेवम् अत्र प्रतिष्ठापितवान् यज्ञं च कृतवान् । श्रीनरसिंहं महाशिलायाम् आराध्य यज्ञान्ते विसृष्टवान् । श्रीयादवार्यः मूर्तिम् अन्विष्य अश्वत्थवृक्षस्याधः स्थापितवान् । विजयनगरप्रभुः अच्युतनरायः विशालम प्राङ्गणं निर्माय पूजादिव्यस्थां कृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=बेळगावी&oldid=356722" इत्यस्माद् प्रतिप्राप्तम्