सामग्री पर जाएँ

बेळगावी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बेळगावी

वेणुग्रामः

बेलगांव, बेल्गम्
नगरम्
Skyline of बेळगावी
देशः भारतम्
राज्यम् कर्णाटकम्
वलयः बयलुसीमे
मण्डलम् बेळगावी
Government
  Administrator Shri V. Anbukkumar
Area
  Total ९५ km
Elevation
७६२ m
Population
 (2011)
  Total ४८८,२९२
  Density ५,१००/km
भाषाः
  अधिकृताः कन्नड, मराठी
Time zone UTC+5:30 (IST)
पिन्
590 0XX
Telephone code +91831
Vehicle registration KA-22

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बेळगावी-उपमण्डलम् । कन्नडभाषिणः बेळगावीनाम्ना, मराठीभाषिणः बेळगांव नाम्ना च एतत् नगरं सम्बोधयन्ति । कर्णाटके बेङ्गळूरु, हुब्बळ्ळी, मैसूरु नगराणाम् अनन्तरं चतुर्थं महानगरम् एतत् । समुद्रस्तरतः समान्यतः २५०० पादोन्नते(७६२मीटर्) स्थाने अस्ति एतत् नगरम् । कर्णाटकसर्वकारः द्वितीयराजधानीरूपेण बेळगावीनगरं कर्तुम् इच्छति । अतः सद्यःकाले (२०१२तमवर्षस्य अक्टोबर् मासस्य ११ दिनाङ्के) सुवर्णविधानसौधनामकस्य शासकीयभवनस्य उद्घाटनम् अकरोत् ।

बेळगावीसीमाविवादः

[सम्पादयतु]

१९५६ तमे वर्षे भाषानुगुणं राज्यानां यत् पुनर्घटनम् अभवत् तदा बेळगावीमण्डलं मैसूरुराज्ये(इदानीं कर्णाटकम्) योजितम् ( यद्यपि ३/४जनाः अत्र मराठीभाषिण्ः आसन्) । तदारभ्य महाराष्ट्रस्य जनाः एतत् मण्डलम् अस्माकम् इति प्रतिपादयन्तः सन्ति । एषः विवादः इदानीं सर्वोच्चन्यायालये अस्ति ।

भौगोलिकता

[सम्पादयतु]

बेळगावीनगरस्य निर्देशाङ्कौ १५.८७°उ ७४.५°पू.[11] । एतत् नगरं कर्णाटकस्य उत्तरपश्चिमभागे अस्ति ।गोवा तथा महाराष्ट्रं सीमावर्तिनी राज्ये । गोवाराज्यस्य सीमातः ५०कि.मीटर् दूरे अस्ति एतत् नगरम् । राज्यस्य प्राचीननगरेषु अन्यतमम् अस्ति । राज्यराजधानीबेङ्गळूरुतः ५०२कि.मी.दूरे, हैदराबाद्तः ५१५कि.मी.दूरे , मुम्बयीतः ५००कि.मी.दूरे अस्ति । बेळगावीप्रदेशः बेळुवलनाडु इति प्रसिद्धम् आसीत्। अस्य वेणुग्रामः इति चारित्रिकं नाम आसीत् । अत्र दुर्गाणि, मन्दिराणि, जलपाताः, नदीसङ्गमादि दर्शनीयानि स्थानानि सन्ति । पूर्वकाले वेदाध्ययनशीलाः विप्राः अत्र वसन्ति स्म । स्वामी विवेकानन्दः अत्र नवदिनानि यावत् स्थितवान् । बेळगावी नगरे सुन्दरः आकर्षकः रामकृष्णाश्रमः अस्ति। द्वादशशतके निर्मितस्य दुर्गस्य पार्श्वे कमलबसदि इति सुन्दरः षोडशस्तम्भाधीरतः शिल्पाविशेषः अस्ति । एतत् शिलाबसदि इत्यपि कथयन्ति । एतत् परितः २०८ जैनप्रतिमाः सन्ति । नगरमध्ये प्रसिद्धः हनुमान् देवालयः अस्ति । एषः नगररक्षकः इति विख्यातः अस्ति । सेनाप्रदेशे मिलिटरी महादेवः इति ख्यातः शिवः मन्दिरे राराजते । शहपुरमार्गे पार्श्वे कपिलेश्वरनामकः स्वयम्भूः द्विशतवर्षप्राचीनः लिङ्गविशेषः अस्ति। । एतम् कपिलप्प इति च कथयन्ति । दक्षिणकाशी इति क्षेत्रस्य नाम अस्ति । श्रावणमासे शिवरात्रिपर्वणि च अत्र विशेषपूजादिकं भवति । बेळगावी समीपे ८. कि.मी दूरे कणबग्रामे रामतीर्थम् अस्ति । अत्र रामशिवयोः मन्दिरे स्तः । हलीसग्रामे कदम्बवास्तुशिल्परुपः श्री लक्ष्मीनरसिंहस्य देवालयः अस्ति । सुन्दरं गोपुरम् (५पादपरिमितम्), ४ - पादपरिमितोन्नता श्रीलक्ष्मीनारायणमूर्तिः सर्वालङ्कारविशिष्टा अङ्कस्थापितलक्ष्मीयुक्ता अस्ति । नृसिंहस्य १.५ पादपरिमितोन्नता मूर्तिः मानवदेहसिंहशिरविशिष्टा अस्ति । पुरतः योगी नारायणस्य शिलामन्दिरमपि अस्ति । मुगुटखानहुब्बळ्ळीप्रदेशे मलप्रभानदीतीरे सञ्चरन् श्री च्यवनमहर्षिः श्री रुद्रदेवम् अत्र प्रतिष्ठापितवान् यज्ञं च कृतवान् । श्रीनरसिंहं महाशिलायाम् आराध्य यज्ञान्ते विसृष्टवान् । श्रीयादवार्यः मूर्तिम् अन्विष्य अश्वत्थवृक्षस्याधः स्थापितवान् । विजयनगरप्रभुः अच्युतनरायः विशालम प्राङ्गणं निर्माय पूजादिव्यस्थां कृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=बेळगावी&oldid=356722" इत्यस्माद् प्रतिप्राप्तम्