सामग्री पर जाएँ

बनवासी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बनवासी
ग्रामः
मधुकेश्वरदेवालयः
मधुकेश्वरदेवालयः
राष्ट्रम्  भारतम्
ऱाज्यम् कर्णाटकराज्यम्
मण्डलम् उत्तरकन्नडमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
581 318
दूरवाणीकूटसंख्या 08384

बनवासी (Banavasi) वरदानद्याः तीरे स्थितं किञ्चन क्षेत्रम् । उत्तरकन्नडमण्डले शिरसी-उपमण्डले अस्ति ।

मधुकेश्वरदेवालयः
  • अक्षांशः -१४०.३२’ २०” (उत्तरे)
  • रेखांशः – ७५०. ००’ ५८” (पश्चिमे.)

समुद्रसमतलात् ५७०.८९ मीटर्मिते औन्नत्ये स्थितं बनवासीनगरं शिरसीतः सोरबमार्गे ३० कि.मी दूरे अस्ति ।

पौराणिकः उल्लेखः

[सम्पादयतु]

पुराणकाले वैजयन्ती इति प्रसिद्धे अस्मिन् नगरे मधु-कैटभनामकौ दैत्यौ महाविष्णुना संहृतौ । अग्रे शिवभक्तयोः एतयोः नाम्ना बनवास्यां मधुकेश्वरनामकम्, वरदानद्याः अपरतीरे विद्यमाने आनवट्टीग्रामे कैटभेश्वरनामकं देवस्थानं निर्मितवन्तः । धर्मराजस्य अश्वमेधयागसन्दर्भे सहदेवः दक्षिणभारतस्य दिग्दिजयसमये ‘वनवासिकाम्’ अर्थात् बनवासीनगरं जितवान् इति महाभारते उल्लेखः दृश्यते ।

ऐतिहासिकः उल्लेखः

[सम्पादयतु]

कदम्बसाम्राज्यं कर्णाटकस्य प्रथमसाम्राज्यम् इति वर्णयन्ति । राज्यस्यास्य स्थापकः मयूरवर्मा( क्रि.श.३२५-३४५) । अस्य राजधानी बनवासी । पूर्वं सः ब्राह्मणः आसीत् । तस्य नाम मयूरशर्मा इति आसीत् इत्यपि श्रूयते । अशोकचक्रवर्तिः बौद्धभिक्षुं रख्खितनामकं बौद्धमतप्रसारार्थं प्रेषितवान् आसीत् । सः बनवासीप्रान्तम् आगतवान् आसीत् इति ’महावंश’नामके बौद्धग्रन्थे उल्लिखितम् अस्ति । नागार्जुनकोण्डस्थात् कस्माच्चित् शिलाशासनात् ज्ञायते यत् सिंहळस्य बौद्धभिक्षवः धर्मप्रसारार्थं बनवासीम् आगतवन्तः आसन् इति । कि.श.प्रथमे शतके भारतम् आगतः ग्रीक् प्रवासी टालेमी एतत् पट्टणं ’बनौसि’ इति निर्दिष्टवान् ।

कन्नडसाहित्ये

[सम्पादयतु]

कन्नडसाहित्ये कर्णाटकस्य अदिकविः पम्पः स्वस्य विक्रमार्जुनविजये बनवासीम् एवं वर्णयति - आरङ्कुश विट्टोडं नेनेवुदेन्न मनं बनवासी देशम् इति । तस्य भावार्थः - 'कश्चित् माम् अड्कुशेन पीडयतु नाम मम मनः तु बनवासीम् एव स्मरति’ इति । कवेः चामरसस्य प्रभुलिङ्गलीलायाः रङ्गस्थलम् बनवासीनगरमेव ।

प्रेक्षणीयस्थानानि

[सम्पादयतु]
महानन्दिदर्शनम्

कर्णाटकराज्यस्य उत्तरकन्नडमण्डले स्थितं नगरं बनवासी । प्राचीनकालात् प्रसिद्धः श्रीमधुकेश्वरदेवालयः अत्रत्यः विशेषः। शिलामन्दिरम् एतत् दशमे शतके वरदानदीतीरे निर्मितम् अस्ति । कदम्बवंशीयानाम् अत्र प्रशासनम् आसीत् । मधुकेश्वरस्य पुरतः बृहन्नन्दीविग्रहः आस्ति। द्विसहस्रवर्षादारभ्य श्री मधुकेश्वरस्य आराधनम् अत्र प्रचलति । देवः ६४ अङ्गुलप्रमाणाकारकः उन्नतः मधुमयरूपः अस्ति ।

शिलास्तम्भविन्यासः

मन्दिरे अष्टदिक्पालकाः, दत्तात्रेयः, हनुमान्, कालभैरवः, गणपतिः, सरस्वती, परशुरामः, वेङ्कटरमणः च मन्दिरस्य शोभां वर्धयन्तः सन्ति । प्राङ्गणे शिलामञ्चः त्रैलोक्यमण्डपः शिलास्तम्भः च सन्ति । शिल्पकला चालुक्यहोय्सलमिश्रितया शौल्या विद्यते । शिवरात्रिपर्वणि अत्र रथोत्सवः प्रचलति ।

मार्गः

[सम्पादयतु]
शिरसीतः २३कि.मी.
बेङ्गळूरुतः ३८४ कि.मी.
गोकर्णतः ३०० कि.मी.
हावेरीरेलनिस्थानतः ३० कि.मी.।

बनवस्याः अत्यन्तं प्रेक्षणीयम् ऐतिहासिकं च स्थानं नाम मधुकेश्वरदेवस्थानम् । स्वादिराजैः निर्मितः शिलामण्डपः अत्यन्तम् आकर्षकः अस्ति । अत्र उमादेवी, शान्तलक्ष्मीः, नरसिंहः इत्येतेषां विग्रहाः दृश्यन्ते । मन्दिरस्य गर्भगृहस्य द्वारे सुन्दरतया पुरुषमृगौ उत्कीर्णौ स्तः । बनवासीदुर्गम् अत्यन्तं प्राचीनम् अस्ति । चालुक्यवंशीयस्य द्वितीयपुलिकेशिनः ऐहोळेशिलाशासने अस्य दुर्गस्य उल्लेखः कृतः अस्ति । सामान्यतः दशमे शतके एतस्य निर्माणं जातं स्यात् इति ऊह्यते । अस्य दुर्गस्य अधोभागे चन्द्रवळ्ळ्यां यादृश्यः विशिष्टाः इष्टिकाः प्राप्ताः आसन् तादृश्यः इष्टिकाः प्राप्ताः सन्ति । उपरि भिन्नविधानाम् इष्टिकानां संयोजनं कृतं दृश्यते । तस्य निर्माणं विजयनगरकाले अभवत् । पम्पेन वर्णिता बनवास्याः निसर्गसम्पत् अद्यापि दृश्यते ।

Carved bed-stoad of stone of Banavasi

कदम्बोत्सवः

[सम्पादयतु]

सर्वकारः प्रतिवर्षम् अत्र कदम्बोत्सवम् आचरति । तदा साहित्य-सङ्गीत-नृत्यादयः कार्यक्रमाः प्रचलन्ति । कदम्बोत्सवे सहित्यसाधकेभ्यः पम्पप्रशस्तिः दीयते ।

बनवास्यां सर्वकारीयवसतिगृहम् अस्ति । शिरसिविभागस्य कार्यनिर्वाहक-अभियन्तुः द्वारा वसतिगृहस्य आरक्षणं प्राप्तुं शक्यते ।

वीथिका

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=बनवासी&oldid=479795" इत्यस्माद् प्रतिप्राप्तम्