नञ्जनगूडु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
नञ्जुडेश्वरदेवालयः रात्रौ
नञ्जनगूडुः
ನಂಜನಗೂಡು
मण्डलम्
Srikanteshwara Temple at Nanjangud
Coordinates: १२°०७′उत्तरदिक् ७६°४१′पूर्वदिक् / 12.12°उत्तरदिक् 76.68°पूर्वदिक् / १२.१२; ७६.६८
राष्ट्रम्  भारतम्
राज्याणि कर्नटकराज्यम्
Elevation ६५६
Population (2001) ४८,२२०
भाषाः
 • अधिकृत कन्नडभाषा
Time zone भारतीय सामान्यकालमानम् (UTC+5:30)
पत्रालयकूटसंख्या 571 30x
दूरवाणीकूटसंख्या 08221
Vehicle registration KA-09
Website www.nanjanagudutown.gov.in

नञ्जनगूडु (Nanjangud) कर्णाटकराज्यस्य मैसूरुमण्डले विद्यमानं किञ्चन तीर्थक्षेत्रम् । अस्य पौराणिकानि नामानि गरळपूरी, परशुरामक्षेत्रं, गौतमक्षेत्रं, दक्षिणकाशी इति च आसन् । अत्र श्रीनञ्जुण्डेश्वरस्य (श्रीकण्ठेश्वरस्य) देवालयः अस्ति । कपिलानदीतीरे एषः देवालयः अस्ति । एषः कर्णाटकराज्ये एव बृहद्धेवालयः इति प्रसिद्धः अस्ति । अस्य देवालयस्य दैर्घ्यं ३८५ पादपरिमितं विस्तारः १६० पादपरिमितञ्च अस्ति ।

महाद्वारगोपुरं १२० पादपरिमितम् उन्नतम् अस्ति । गोपुरे ३ मीटर्-परिमितोन्नतानि स्वर्णलेपितानि कलशानि श्रृंगद्वयं च विद्यते । गर्भगृहं परितः प्रदक्षिणापथः ततः ९ स्तम्भानां सथामण्डपं च अस्ति ।

एषः देवालयः आदौ गङ्गवंशीयैः अनन्तरं चोळैः विजयनारराजैः, मैसूरुओडेयरादिभिः विस्तारितः अस्ति । देवालये स्थितानां विग्रहाणां सङ्ख्या अन्यत्र कुत्रापि न दृश्यते । अर्धसंख्याकाः विग्रहाः शिवलिङ्गानि एव ।

श्रीकण्ठेश्वरदेवालयः[सम्पादयतु]

मैसूरुपत्तनतः द्वादशमैल्‌दूरेनञ्जनगूडुप्रसिद्धंशैवक्षेत्रम्‌ । देवमन्दिरस्य पुरतः पवित्रतमा कपिलानदी प्रवहति । देवालयस्य दक्षिणभागे “गुण्डलु” नाम्नी नदी प्रवहति । कपिलमहर्षिः अत्रैव तप आचरति स्म । एतत्‌ तीर्थं पुण्यप्रदम्‌ इति स्थलपुराणानि विवृण्वन्ति । अमृतसम्पुदनाय देवाः दानवाश्च क्षीरसागरे मन्दरं पर्वतं मन्थानं कृत्वा वासुकिं रज्जुं विभाव्य ममन्थुः । तदा गरलं समुदियाय । देवाः भग्नमनोरथा अभूवन्‌ । विष्णोराज्ञया पार्वतीजानिं ते शरणमगमन्‌ । देवानां संरक्षणार्थाय भवानीपतिः विषं पपौ । हालाहलं कण्ठे तस्थौ। तदारभ्य कै लासनाथः नीलकण्ठः, नञ्जुण्ड इत्यादिभिः अभिधानैः अन्कितः बभूव । नञ्जनगूडुक्षेत्रे विराजमानः भक्तानामभीष्टप्रदः ईश्वरः नञ्जुण्डेश्वर इति कथ्यते । क्षेत्रमेतच्च गरलपुरीति आह्वयते। नञ्जुण्डेश्वर देवालयः द्राविडशैल्या निर्मितः । तथापि देवालये होय्सलानां चोलानां च शैल्यः परिदृश्यन्ते । देवालयः कदा आविरभवत्‌ल, मूलबेरः कदा प्रतिष्ठापित इति नावगम्यते । क्रमशः विस्तरीक रणं, नवीकरणं च तत्र पश्यामः । त्र्यूनसार्धशतस्तम्भैः युतः देवालयः कराचूरि नञ्जराजेन, मैसूरु प्रधानमात्येन पूर्णय्येन च क्रमशः विस्तृतो बभूव इति कथा । १८४४५ तमे वत्सरे गोपुरं तृतीयेन कृष्णराजेन निरमायि इति शासनेषु उदाहृतम्‌ । देवालये तृतीयस्य कृष्णराजस्य तस्य पत्नीनां च विग्रहाः सन्ति । त्रिषष्ठि संख्याकानां शिवभक्त ानां शिला लोहमयानां दर्शनं नान्यत्र शिवालयेषु मण्डलेऽस्मिन्‌ पश्यामः । देवालयस्य पश्चिमे बहूनि शिवलिन्गानि सन्ति । उत्तरस्यां दिशि शिवलीला प्रकाशकाः पञ्चविंशति विग्रहाः सुन्दराः सन्ति । नवरन्गमण्टपस्य वामपार्श्वे सत्यनारायणः (आदि केशवमूर्तिः) प्रतिष्ठापितः । एवमेव भगवद्रामानुज प्रभृतीनां श्रीवैष्णवाचार्याणां विग्रहाः अत्र शोभन्ते । देवमन्दिरस्य उत्तरपार्श्वे सप्तफफ णामण्डल मण्डितस्य सर्पस्य अधोभागे षण्मुखस्य विग्रहः प्रेक्षकानां मनांसि आक र्षति । आलयस्थं रुदाक्षिमण्डपं संराज्ञी लिन्गराजम्मण्णी तृतीय कृ पत्नी निर्ममे । महम्मदीयः टिप्पू नञ्जुण्डेश्वरस्य भक्तः । इतरेषु देवालयेषु प्रध्वंसितेष्वपि एष देवालयः तेन उद्धृतः । कदाचन सुल्तानस्य टिप्पोः प्रीतिपात्रभूतः गजः नेत्ररोगेन पीडितः आसीत्‌ । कृतचिकित्सेषु सर्वेषु विफलेषु मित्राणां वचनानि विश्वस्य सः नञ्जुण्डेश्वरं शरणं जगाम । अष्टचत्वारिंशत्‌दिनेषु करी मुक्त रोगोऽभवत्‌ । सुप्रीतः सुल्तानः अमूल्यरत्नयुतं क ण्ठीहारं अन्यनि आभरणानि च भगवते प्रादात्‌ । तदारभ्य नञ्जुण्डेश्वरः हकीं नञ्जुण्ड इति प्रसिद्धोऽभवत्‌ । गतेषु दिनेषु तृतीयः कष्णराजश्च असंख्याकानि अमूल्यानि आभरणानि भगवते समर्पयामास । प्रसिद्धोष्वा भरणेषु तेषु फश्रीण्ठमुडिफ कि रीटं सुविख्यातम्‌ । ब्रह्मरथोत्सवात्‌ प्राक्‌ श्रीक ण्ठमुडि उत्सवः प्रतिसंवत्सरं प्रचलिष्यति । तदा असंख्याकाः जनाः मेलिष्यन्ति । भगवत्याः पार्वत्याः विनायकस्य सुब्रह्मण्यस्य चण्डिकेश्वरस्य च रथैः सार्धं पञ्चरथाः युगपदाकृ ष्यन्ते । एतेषु त्रयः गजरथः, कै लासरथः, तुरगरथश्च बृहत्प्रमाणाः । द्वौअल्पीयांसौ । गजरथः गजैरेव आकृ ष्यमाणः । क्षेत्रेऽस्मिन्‌ कै लासनाथः परशुरामाय दर्शनं प्रादात्‌ इति पौराणिकी क था । अनतिदूरे एव गुण्डलु चूर्णावती नद्यौ प्रवहतः । तयोः सन्गमप्रदेशं रशुरामक्षेत्रमिति क थयन्ति । अत्र परशुराम देवालयश्च वर्तते । क्षेत्रस्यास्य मृदा चर्मव्याधयः अनेके परिहृता भवन्तीति प्रथा । एवं देवालयस्य शिलायाः उपरि उट्टन्कितं वर्तते । भक्ताः अस्य क्षेत्रस्य दर्शनं प्रथमतः कृत्वा ततः नञ्जुण्डेश्वरं पश्यन्ति । नञ्जनगूडुपत्तने द्वैतमता चार्याणां राघवेद्रस्वामिनां मठः वर्तते । मठेऽस्मिन्‌ गन्धभाण्डागारे अमूल्याः बहवः ग्रन्थाः संगृहीताः । तेषु न्याय मुकु रन्याय चम्पक मालिका, शारदागम, साहित्य साम्राज्याख्याः बहवः हस्तलिखिताः ग्रन्थाः सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नञ्जनगूडु&oldid=361020" इत्यस्माद् पुनः प्राप्तिः