सामग्री पर जाएँ

शृङ्गेरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शृङ्गेरी

ಶೃಂಗೇರಿ
उपमण्डलम्
विद्याशन्कर् मन्दिरम्(१३४२ क्रि. श.) शृङ्गेर्याम्
विद्याशन्कर् मन्दिरम्(१३४२ क्रि. श.) शृङ्गेर्याम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
Government
  एम्.एल्.ए डी. एन्. जीवरज्.
Elevation
६७२ m
Population
 (2001)
४,२५३
भाषाः
  अधिक्र्त कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
577139
दूरवाणीकूटसंख्या 08265
Vehicle registration KA-18
शारदाम्बामन्दिरम्

शृङ्गेरी (Sringeri) कर्णाटकराज्यस्य चिक्कमगलूरुमण्डले विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । तुङ्गातीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । आदिशङ्कराचार्यैः अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् ।

पुरी बदरी द्वारका उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । अत्र विद्यमानस्य श्रीचक्रस्य शारदाम्बामूर्तेः च प्रतिष्ठापनं च शङ्कराचार्यैः एव कृतमस्ति । चन्दनदारुशिल्पमयी मूर्तिः एषा काश्मीरतः आनीता इति श्रूयते । अत्र श्रीमातरं ब्राहमी माहेश्वरी वैष्णवी इन्द्राणी चामुण्डा राजराजेश्वरी इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिश्रणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादशस्तम्भाः द्वादशराशीन् सूचयन्ति । प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा अत्र प्रचलन्ति । तुङ्गानदीतीरे श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्डपाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति ।

श्रीविद्याशङ्करदेवालयः

मार्गः

[सम्पादयतु]
बेङ्गळूरुतः ३२६ कि.मी.
मङ्गळूरुतः २०६ कि.मी.
चिक्कमगळूरुतः ९० कि.मी
कर्णाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति ।
रेलयानेन बीरूरु, कडूरु निस्थानपर्यन्तं गमनं शक्यम् ।

वासव्यवस्था

[सम्पादयतु]

श्रीमठे वासस्थलं भोजनं च काल्पितं भवति । दूरभाषा- ०८२६५-५०१२३

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=शृङ्गेरी&oldid=481820" इत्यस्माद् प्रतिप्राप्तम्