गङ्गवंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फलकम्:Infobox former country/autocat
गङ्गवंशः
ಗಂಗವಂಶ
साम्राट्
क्रि.श.–क्रि.श. १००४
राजधानी Not specified
भाषाः कन्नडभाषा
धर्मः सनातनधर्मः
Government एकप्रभुत्वम्
हतिहासः
 - स्तम्भित क्रि.श.
 - Earliest records
 - Disestablished क्रि.श. १००४

गङ्गाः प्रायः चतुर्थे शतकतः दशमशतकपर्यन्तं दक्षिणकर्णातकम् तमिळुनाडुराज्यस्य उत्तरभागं प्राशासन् । तलकाडुप्रदेशीयाः कन्नडराजवंशीयाः गङ्गराजाः कदम्बवशीयानां समकालिकाः कर्नाटकस्य दक्षिणभागे प्रशासनं कृतवन्तः प्रख्याताः च आसन् । यद्यपि एतेषां समकालीनाः चालुक्याः, राष्ट्रकूटाः च एतेषामपेक्षया प्रबलाः आसन् तथापि गङ्गाः तैः बान्धव्यं संरक्ष्य स्वतन्त्रं प्रशासनं कुर्वन्ति स्म । गङ्गानां राजधानी प्रथमं कुवलाळप्रदेशे आसीत् (अद्यतनकोलारम्)। यदा कदम्बाः बनवासी नगरम् राजधानीम् कृतवन्तः ततः दशविंशतिवर्षेषु एव गङ्गराजाः तलकाडुनगरे साम्राज्यस्थापनाम् कृतवन्तः ।

कर्नाटकराज्ये दीर्घसमयं यावत् प्रशासनं कृतवत्सु राजवंशीयेषु गङगाराजाः प्रथमाः आसन् । एते सा. श. चतुर्थशतकतः दशमशतकपर्यन्तम् सततं सप्तशतवर्षपर्यन्तं कर्णाटकस्य विविधभागेषु प्रशासनं कृतवन्तः आसन् । आरम्भसमये कोलारप्रदेशे एतेषाम् राजधानी आसीत् । अनन्तरम् तलकाडुराजधानी अभवत् इति केचन इतिहासज्ञाः अभिमतं प्रकटितवन्तः सन्ति ।

प्रमुखाः राजानः[सम्पादयतु]

कोङ्गुणिवर्मा[सम्पादयतु]

कोङ्गुणिवर्मा गङ्गवंशीयेषु प्रथमः राजा इति विश्वस्यते । कोङ्गुणिवर्मणः कालतः त्रिशतवर्षपर्यन्तम् एतेषां शासनाविषये विवरणानि न लभ्यन्ते ।

दुर्विनीतः[सम्पादयतु]

गङ्गवंशस्य प्रसिध्दः राजा अविनीतस्य पुत्रः दुर्विनीतः इत्यासीत् । एषः सा. श. ६०५ तः सा.श. ६५० पर्यन्तम् प्रशासनं कृतवान् । एषः युध्दे पल्लवराजान् पराजितवान् । तत्र चाळुक्यराजं जयसिंहवल्लभम् राज्याधिपं कृतवान् ।

श्रीपुरुषः[सम्पादयतु]

दुर्वीनीतस्य अनन्तरम् श्रीपुरुषः इति प्रसिध्दः गङ्गराजः । अष्टमशतकस्य राजा श्रीपुरुषः तलकाडुतः प्रशासनम् आरब्धवान् । सा. श. ७२६ तः सा. श. ७८८ वर्षपर्यन्तम् षट्षष्टि वर्षाणि राज्यशासनम् कृतवान । एषः पाण्ड्यराजैः सह वैवाहिकसम्बन्धम् निर्माय उभयवंशीयेषु स्थितं वैरम् दूरीकृतवानपि । मान्यपुरे (अद्यतनस्य नेलमङ्गलोपमण्डलस्य मण्णे) राजनिवासः आसीत् । नन्दिगिरिः गङ्गराज्यस्य प्रमुखः गिरिदुर्गः। गङ्गराज्यस्य मध्यभागं गङ्गवाडि इति सम्बोधयन्ति स्म । एतत् ९६०००ग्रामाणां समूहः आसीत् । गङ्गवाडीप्रदेशस्य नागरिकाः एव गङ्गवाडिकाराः इति सम्बोधिताः । श्रीपुरुषः स्वयम् पण्डितः ग्रन्थकर्ता च आसीत् । अनेन "गजशास्त्रम्" इति ग्रन्थः रचितः अभवत् । विशेषतः युध्दे गजानामुपयोगविषये एषः विशेषज्ञानम् प्राप्तवान् आसीत् ।

इम्मडिशिवकुमारः[सम्पादयतु]

श्रीपुरुषस्य मरणानन्तरम् अस्य पुत्रः इम्मडिशिवकुमारः सिंहासनासीनः अभवत् । अस्मिन् समये एव राष्ट्रकूटवंशीयः प्रथमकृष्णः प्रबलः भूत्वा गङ्गराजम् पराजित्य स्वमाण्डलिकम् कृतवान् । अस्य प्रशासनकाले अनेकवारं राष्ट्रकूटराजभिः युध्दम् अभवत् । शिवकुमार अपि विद्वान् आसीत् । अनेन ‘एजशतक’ इति ग्रन्थः लिखितः ।

प्रथमराचमल्लः[सम्पादयतु]

शिवकुमारस्यानन्तरं प्रथमराचमल्लः गङ्गराजेषु शूरः अधिकारं प्राप्तवान् । एषः स्वसाम्राज्यम् राष्ट्रकूटवंशीयानाम् दस्तात् स्वतन्त्रमकृतवान् । अस्य समकालिकः राष्ट्रकूटवंशीयः राजा अमोधवर्षः गङ्गराजः स्वतन्त्राः इति अङ्गीकृतवान् । गङ्गराजभिः वैवाहिकसम्बन्धं स्थापयित्वा वैरं निवारितवान् ।

प्रथमराचमल्लराजानन्तरं इम्मडिशचमल्लः, इम्मडिभूतुर्ग, तृतीयः मारसिंहः चतुर्थः राचमल्लः इत्यादि राजानः क्रमशः अधिकारं प्राप्तवन्तः ।

चतुर्थशचमल्लभूपालः[सम्पादयतु]

चतुर्थशचमल्लभूपालस्य प्रशासनकालः कर्नाटक शिल्पकालेतिहासे प्रमुखः घट्टः इति विख्यातः अस्ति । चतुर्थराचमल्ल भूपालस्य मन्त्री चामुण्डरायः श्रवणाबेळगोळक्षेत्रे गोम्मटेश्वरस्य मूर्तिं पर्वतप्रदेशशिलात् निर्माय प्रतिष्ठापितवान् । अत्यमोधः एकशिलानिर्मिता मूर्तिः अधुनापि भक्तिवैराग्यप्रदर्शिका अस्ति ।

गङ्गाराजानाम् साम्राज्यं प्रसिध्दस्य चोळराज्ञ प्रथमराजेन्द्रस्य आक्रमणेन विनष्टम् अभवत् ।

गङ्गराजानां स्थूलेतिहासः[सम्पादयतु]

गङ्गराजानः स्थलीयाः कोलारः, बेङ्गळूरु, तुमकूरु, मैसूरु, चामराजनगरम्, मण्ड्य, हासनम्, इत्यादिमण्डलैः सहितं दक्षिणकर्णाटके शातवाहनानां पश्चात् अधिकारारूढाः । एते कृषकवर्गस्य जनाः । एतेषां पूर्वतनराजधानी कोलारम् । पश्चात् तलकाडुप्रदेशं परिवर्तितवन्तः । चन्नपट्टणसमीपस्य माकुन्दः, नेलमङ्गलनिकटस्य मण्णे इति प्रदेशः एतेषाम् उपराजधानी आसीत् । क्रि.श. तृतीयशतमानतः दशमशतकपर्यन्तं प्रायः ८००वर्षाणि सूदीर्घं प्रशासनम् अकुर्वन् । एते जैनमतस्य अधिकमादरं प्रादर्शयन् । गङ्गानां प्रसिद्धः राजा श्रीपुरुषः कुणिगल् इति स्थाने बृहत्सरः निर्मितवान् । राजमल्लस्य मन्त्री चावुण्डरायः श्रवणबेळगोळम् इति प्रदेशे क्रि.श. ९८०तमे वर्षे गोमटेश्वस्य एकशिला महामूर्तिं रचयितवान् । गङ्गवंशः क्रि.श. १००४तमवर्षे चोळराजैः पराजित्य अन्तमपश्यत् ।




"https://sa.wikipedia.org/w/index.php?title=गङ्गवंशः&oldid=364373" इत्यस्माद् प्रतिप्राप्तम्