सामग्री पर जाएँ

कर्णाटकस्य राजवंशाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटकराज्ये पूर्वम् (कन्नडनाडु) अनेके राजवंशीयाः प्रशासनं कृतवन्तः । केचित् प्रादेशिकव्याप्तौ प्रशासनं कृतवन्तः अन्ये केचन कर्णाटकराज्यसीमाम् अतिक्रम्य दक्षिणभारते एव साम्राज्यस्य विस्तारं कृतवन्तः । तलकाडु प्रदेशीयाः गङ्गवंशीयाः बादामिचालुक्यवंशीयाः, मान्यखेटस्य राष्ट्रकूटवंशीयाः, विजयनगरस्य राज्ञां विस्तृते साम्राज्ये दक्षरीत्या प्रशासनम् कृत्वा कर्णाटकस्य संस्कृतेः प्रसारणम् कृतवन्तः । विजयनगरराजानाम् प्रभावः पोरसमुद्रमपि आसीत् । ललितकला, शिल्पकला, साहित्यं धर्मः सैन्यशास्त्रम् आर्थिकाभिवृद्धिः, राजकीयचिन्तनं, सामाजिकपरिवर्तनम् इत्यादिविषयेषु कर्णाटकराज्यस्य राजवंशीयानां कार्यं प्रभावः प्रदानं च स्मरणीयानि सन्ति ।

महाभारतकालात् अपि कर्णाटकम् इति कश्चन भौगोलिकः प्रदेशः उल्लेखितः अस्ति । कन्नडशब्दस्य उत्पत्तिविषये विदुषां मध्ये भिन्नाभिप्रायाः सन्ति एव । किन्तु कन्नडभाषा प्राचीनकालादपि दक्षिणभारते उपयोगे आसीत् इत्यत्र विवादः नास्ति । अधुना कन्नडम् इत्यस्य कन्नडनाडु कर्णाटकम् कन्नडजनाः इत्यादिषु अर्थेषु प्रयोगः अस्ति । कर्णाटकराज्यं दक्षिणप्रस्थभूमेः हृदयभागेऽस्ति । कर्णाटकराज्यस्य विस्तार १,७३,७९१ चतुरस्र किलोमीटर् अस्ति । उत्तरदिशि महाराष्ट्रराज्यम् गोवाराज्यम् च, पूर्वदिशि आन्ध्रप्रदेशराज्यम् दक्षिणभागे तमीळनाडुराज्यम् केरलराज्यम् च सन्ति । पश्चिमे सिन्धुसागरः (अरब्बीसमुद्रम्) २८७ किलोमीटर् दीर्घः अस्ति । प्राचीनकालतः अपि कर्णाटकराज्ये अनेकराजवंशीयाः प्रशासनम् कृतवन्तः । मौर्यसाम्राट् अशोकः अपि कर्णाटकराज्यस्य उत्तरभागेषु स्वप्रशासनसीमां वर्धितवान् । मौर्याणाम् साम्राज्यस्य पतनपश्चात् तेषाम् अधीनराजाः सातवाहनाः स्वतन्त्ररूपेण कर्णाटकराज्यस्य प्रदेशे स्वप्रशासनम् आरब्धवन्तः। कन्नडप्रदेशयुक्तम् दक्षिणप्रस्य भूमौ स्यापितं प्रथमं साम्राज्यम् इति शातवाहनानां नाम सुकीर्तिं प्राप्तम् अभवत् । केचन इतिहासज्ञाः एतेषां प्रशासनकेन्द्रम् अधुनात्मनारी मण्डलप्रदेशे आसीत् इति च वदन्ति । कर्णाटकराज्य इतिहासस्य आरम्भः अशोकचक्रवर्तिनः प्रशासनकालात् भवति । उत्तरकर्णाटके कोप्पळ, ब्रह्मगिरि, जेटिङ्गरामेश्वर, सिद्धापुर, निद्धार, उदगोळ, प्रदेशेषु ब्राह्मीलिपेः शिलाभिलेखाः लब्धाः सन्ति । अशोकस्य साम्राज्यम् कर्णाटकराज्य बळ्ळारी पर्यन्तमासीत् इति ज्ञातम् भवति । अतिरिक्ततया अशोकस्य वंशजः मौर्यसाम्राज्यस्य स्थापकः चन्द्रगुप्तमौर्यः कर्णाटकराज्य श्रवणबेळगोळ क्षेत्रम् आगत्य स्वस्य जीवनस्य पश्चिमकालं यापितवान् । अत्रैव मरणं प्राप्तवान् इति विषयमनुसृत्य मौर्यवंशजाः कर्णाटके प्रशासनं कृतवन्तः इति दृढम् भवति । पू.श. तृतीयशतकतः सा.श.तृतीयशतकपर्यन्तं मौर्यवंशजाः भारतदेशे प्रशासनम् कृतवन्तः । तस्मिन्समये कर्णाटके शातवाहनाः प्रशासनिकाः आसन् । एतेषां राजधानी अधुनातनं पैठणनगरमासीत् । एते आन्ध्रप्रदेशीयाः आन्ध्रभृत्याः इति ख्याताः आसन् । अतः शातवाहनाः कर्णाटकराज्यदेशीयाः न भवन्ति इत्यपि केचन अभिप्रायं प्रकटयन्ति । शातवाहनानां शासनानि प्रायशः प्राकृतभाषाया सन्ति । । एतदपि सातवाहनाः कर्णाटकप्रान्तीयाः भवितुं न अर्हन्ति इत्यभिप्रायः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_राजवंशाः&oldid=388580" इत्यस्माद् प्रतिप्राप्तम्