चित्तूरुमण्डलम्
चित्तूरुमण्डलम् చిత్తూరు | |
---|---|
मण्डलम् | |
श्रीवेङ्कटेश्वरस्वामीदेवालयम्, तिरुपति | |
मण्डलम् | चित्तूरुमण्डलम् |
राज्यम् | आन्ध्रप्रदेशराज्यम् |
प्रान्त्यः | रायलसीमाप्रान्त्यः |
केन्द्रम् | चित्तूरुनगरम् |
Area | |
• Total | १५,३५९ km२ |
Population (2011) | |
• Total | ४१,७०,४६८ |
• Density | २७५/km२ |
भाषाः | |
• अधिकृतभाषा | तेलुगुभाषा |
Time zone | UTC+5:30 (भारतीयसामान्यकालमानम्) |
ISO 3166 code | IN-AP-PR |
Website | www.chittoor.nic.in |
चित्तूरुमण्डलम् (Chittoor district)आंध्रप्रदेशराज्ये स्थितम् एकं मण्डलम् । अस्य मण्डलस्य केन्द्रः चित्तूर् नगरः ।
इतिहासः
[सम्पादयतु]१९११ तमे वर्षे आविष्कृतं चित्तूरुमण्डलम् । कलियुगाराध्यदेवसन्निधिः श्रीवेङ्कटेश्वरस्वामिदेवालयः, पद्मावती देवालयः, तिरुचानूर्, प्रसिध्दशैवक्षेत्रं श्रीकालहस्ती|श्रीकालहस्ती]], वरसिध्दिविनायकक्षेत्रं काणिपाकं, सुरम्यं मनोरञ्जनकेन्द्रं हार्षिली-पर्वतप्रान्तः गोगर्भतीर्थं, नागलापुरग्रामे वेदनारायणस्वामी देवालयः, कपिलतीर्थम्, आकाशगङ्गा, पापविनाशनं, तलकोनारण्यप्रान्तम् इत्यादि प्रदेशवैविध्येन विराजते चित्तूरुमण्डलम् । पल्लवैः, चोलैः, यादवैः, विजयनगरराजैः, गोलकोण्डा-मौसूरु ब्रिटिष्पालकैः च पालितं मण्डलम् । मण्डलमिदं निजां नाम्ना राज्ञा आङ्गलेयानां प्रतिदानं कृतं १८०० काले इत्यतः दत्तमण्डलम् इत्यभिधीयते ।
भौगोलिकम्
[सम्पादयतु]मण्डलस्य प्राग्दक्षिणदिशोः तमिलनाडु, पश्चिमे कर्णाटकराज्यम्|कर्णाटकम्]], उत्तरे च कडपा, अनन्तपुरं च सीमायां सन्ति । १९६० तमे वर्षे कांश्चन प्रदेशान् तमिलनाडुराज्ये, तमिलनाडुराज्यस्य तिरवल्लूरुमण्डलस्थितान् कांश्चन प्रदेशान् च अस्मिन् मण्डले परस्परसम्मेलनं कृतवन्तः “ पटास्कर्” नियम परिधिं निधाय ।
कृषिः वणिज्यं च
[सम्पादयतु]तिन्त्रिणी, रक्तचन्दनं, नाधु, वनौषधीनां च स्रोतः इदं मण्डलम् । स्वर्णमूलं, सुधाशिलाः इत्यादीनि विरलतया लभ्यन्ते । प्रारिश्रामिकक्षेत्रेऽपि वर्धमानम् इदं मण्डलम् । वाहनानि, शर्करा, वस्त्राणि, मधु,ताम्रलोहपात्रनिर्माणादि कर्मागारैः शोभतेदं मण्डलम् । श्रीकालहस्तिपुण्यक्षेत्रे पाञ्चालिकानां निर्माणं, रेणिगुण्टप्रान्ते रैल्वेकार्यशाला, चन्द्रगिरिसिरामिक्कर्मागारः च विराजन्तेऽत्र । कूपजलमेव सेद्यार्थं उपयुज्यतेऽत्र । धान्येन सह कलायः, इक्षुः, माषाः, वार्तकी, फलदीनां च सस्यं क्रियते । तुङ्गभद्राधारित-जलविद्युत्केन्द्रद्वारा विद्युतः प्रदानं भवति ।
वीक्षणीयस्थलानि
[सम्पादयतु]तिरुपतिः अत्यन्तं विस्तृतमेकम् आध्यात्मिक-पारिश्रामिक-विद्याकेन्द्रं वर्तते । सहस्रशः भक्ताः समागत्य, सप्तगिरिवासिनं श्रीवेङ्कटेश्वरं दृष्ट्वा सानन्दं स्वस्थानं प्रतियान्ति । अपि च प्रसिध्द शैवक्षेत्रं श्रीकालहस्ती, वरसिध्दिविनायकक्षेत्रं काणिपाकं, सुरम्यं मनोरञ्जनकेन्द्रं हार्षिली-पर्वतप्रान्तः गोगर्भतीर्थं, कपिलतीर्थम्, आकाशगङ्गा, पापविनाशनं, तलकोनारण्यप्रान्तम् इत्यादीनि अवश्यं सन्दर्शनीयनि स्थलानि ।
वीथिका
[सम्पादयतु]-
श्रीवीरविजय आञ्जनेयस्वामी दक्षिणपातपालेम्
-
पद्मावती देवी पुष्करिणी, तिरुचानूर्ः (तिरुपतिः)
-
कपिलतीर्थम्, तिरुपतिः
-
श्रीकालहस्ती
-
पुत्तूरुनगरम्
-
विजयनगरस्य साम्राज्यमुद्रण, अलिपिरि गोपुरः, तिरुपतिः
-
राजभवनम्, चन्द्रगिरिः
-
काणिपाकम् देवालयः, चित्तूरुमण्डलम्
-
संगीतधारायन्त्रम्, तिरुमलः
-
मोकल्लमित गोपुरः, तिरुमलः
-
मृगी उद्यानवनः, तिरुमलः
तालुकाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये चित्तूरुमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |