सामग्री पर जाएँ

मकरसङ्क्रमणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मकरसङ्क्रान्तिः इत्यस्मात् पुनर्निर्दिष्टम्)
मकरसङ्क्रमणपर्वणः विशिष्ठं तिलगुडभक्ष्यम्

मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।

कर्कतः मकरं सूर्यसङ्क्रमणम्
रवे: सङ्क्रमणं राशौ सङ्क्रान्तिरिति कथ्यते ।
स्नानदानतप:श्राद्धहोमादिषु महाफला ॥
मेषादिषु द्वादशराशिषु क्रमेण संसरत: सूर्यस्य ।
पूर्वस्माद्राशे: उत्तरराशौ सङ्क्रमणं प्रवेश: सङ्क्रान्ति: ॥

एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं सङ्क्रमणद्वयम् । कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति । कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति । मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति । एतद्दिने एव स्वर्गस्य द्वारोद्घाटनं क्रियते इति । परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि । तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन: । अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम् ।

सङ्कान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययो: ।
गङ्गास्नानं नर: कामात् ब्रह्मण: सदनं व्रजेत् ॥ (भविष्यपुराणम्)
रविसङ्क्रमणे पुण्ये न स्नायाद्यस्तु मानव: ।
सप्तजन्मन्यसौ रोगी निर्धनोपजायते ॥
सङ्क्रान्तौ यानि दत्तानि हव्यकव्यानि मनवै: ।
तानि नित्यं ददात्यर्क: पुनर्जन्मनि जन्मनि ॥ (देवीपुराणम्)
राहुदर्शनं सङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्युर्निशि काम्यव्रतेषु च ॥ (गोभिलम्)
धेनुं तिलमयीं राजन्दद्याद्योत्तरायणे ।
सर्वान्कमानवाप्नोति विन्दते परमं सुखम् ॥
उत्तरे त्वयने विप्रा वस्तुदानं महाफलम् ।
तिलपूर्वमनड्वाहं दत्त्वा रोगै: प्रमुच्यते ॥
तस्मत्तस्यां तिलै: स्नानं कार्यं चोद्वर्तनं बुधै: ।
देवतानां पितॄणां च सोदकैस्तर्पणं तिलै: ॥
पुरा मकरसङ्क्रान्तौ शङ्करो गोसवे कृते ।
तिलानुत्पदयामास तृप्तये सर्वदेहिनाम् ॥ (विष्णुधर्मोत्तरं, शिवरहस्यं च)

सूर्य: अस्मिन् दिने दक्षिणत: उत्तरदिशि सञ्चारस्य आरम्भं करोति । अत: एव उत्तरायणस्य आरम्भ: अस्मात् दिनात् इति उच्यते । सूर्यस्य एकस्मात् राशित: अन्यराशिं प्रति प्रवेशकाल: अत्यन्तं सूक्ष्म: । सामान्यै: स: काल: क: इति न ज्ञायते । तदर्थं तत्पूर्वं परं चेति कश्चन काल: पुण्यकाल: इति निर्णीत: अस्ति । मेषतुलासङ्क्रान्तौ राशिप्रवेशात् पूर्वं प्रवेशानन्तरं च १५ घटिका: यावत् पुण्यकाल: । वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रान्तिषु प्रवेशपूर्वं १६ घटिका: यावत्, मिथुन-कन्या-धनु-मीनसङ्क्रान्तिषु प्रवेशात् परं १६ घटिका: यावत्, कर्काटकसङ्क्रमणे प्रवेशपूर्वं ३० घटिका: यावत्, मकरसङ्क्रमणे च प्रवेशानन्तरं ४० घटिका: यावत् पुण्यकाल: इति उच्यते । अस्मिन् पुण्यकाले स्नान-जप-तप-ध्यान-श्राद्ध-तर्पणादिकं कुर्वन्ति । तद्दिने पुण्यतीर्थस्नानेन पुण्यपुरुषार्था: सिध्यन्ति इति । गङ्गास्नानेन ब्रह्मलोक: प्राप्यते । विशेषतया मकरसङ्क्रमणदिने शीतलजलेन एव स्नानं कुर्वन्ति । अशक्ता: केवलम् उष्णजलेन स्नानं कुर्वन्ति । तिलपर्व इत्येव प्रसिद्धे अस्मिन् पर्वणि विभिन्नै: प्रकारकै: तिलस्य उपयोगं कुर्वन्ति । तिलतैलं लेपयित्वा स्नानं कुर्वन्ति । तिलेन तर्पणं यच्छन्ति । तिलनिर्मैतधेनो: दानं कुर्वन्ति । तिलस्य, गुड-नारिकेल-कलायमिश्रितस्य तिलस्य दानं कुर्वन्ति । पीडापरिहरार्थं बालानां तिलाभिषेकं कुर्वन्ति । देवानां पूजां कृत्वा विशेषतया मुद्गमिश्रितस्य अन्नस्य (पोङ्ग्ल) नैवेद्यं कुर्वन्ति ।

उत्तरप्रदेशस्य लखनऊनगरस्य कस्मिंश्चित् आपणे विक्रियमाणाः विभिन्नवर्णानां वाताटाः

एतद्दिने एव वाताटानाम् उड्डयनम् अपि कुर्वन्ति महता प्रमाणेन भारतस्य केषुचित् राज्येषु । एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं तृणं, धान्यं, गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत: अग्ने: उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।

”गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती
खुरमध्येषु गन्धर्वा: खुराग्रेषु च पन्नगा:
सर्वसन्धिषु साध्या चन्द्रादित्यौ तु लोचने
ककुदि सर्वनक्षत्रं लाङूले धर्म आश्रित: ॥
अपाने सर्वतीर्थानि प्रस्रावे जावीनदी ।
नानाद्वीपसमाकीर्णा चत्वार: सागरास्तथा ॥
ऋषयो रोमकूपेषु गोमये पद्मधारिणी ।
सन्ति रोमसु विद्या श्रृङ्गयोरयनद्वयम् ॥
धैर्यं धृति क्षान्ति पुष्टिर्वृद्धिस्तथैव च ।
स्मृतिर्मेधा तथा लज्जा वपु: कीर्तिस्तथैव च ॥
विद्या शान्तिर्मतिवा सन्तति: परमा तथा ।
गच्छन्तीमनुगच्छन्ति एता गां वै न संशय: ॥
यत्र गावो जगत्तत्र देवदेवीपुरोगमा: ।
यत्र गावस्तत्र लक्ष्मी: सांख्यधर्मा शाश्वत: ॥
गाव: पवित्रा माङ्गल्या देवानामपि देवता: ।
यस्ता: शुश्रूषते भक्त्या स पापेभ्य: प्रमुच्यते ॥“

एतदृशी गोमाता प्रतिदिनम् अपि पूजनीया । य: प्रतिदिनं न श्क्नोति स: सङ्क्रमणदिने वा गोपूजां कुर्यात् । शुभकर्मणि, अपरकर्मणि, श्राद्धकर्मणि एवं सर्वत्रापि गोपूजा श्रेयस्करी । गोमातु: श्रृङ्गद्वये अयनद्वयस्य अधिदेवता: निवसन्ति । अयनद्वयस्य सन्धिकाले मकरसङ्क्रमणदिने गोपूजा अत्यन्तं श्रेयस्करी ।

तद्दिने मध्याह्नभोजनानन्तरं नारिकेल-गुड-कलायमिश्रितं तिलम्, इक्षुदण्डं, शर्करानिर्मितं विग्रहं च प्रतिगृहं गत्वा वितरन्ति । रात्रौ देवतापूजाया: अनन्तरं ज्योतिष्कान् सगौरवम् आह्वयन्ति । ज्योतिष्का: सङ्कान्तिमूर्ते: स्वरूपं, तस्य वर्षस्य सङ्क्रमणफलं प्ञ्चाङ्घानुसारं वदन्ति ।

तमिळुनाडुराज्ये, आन्ध्रपदेशे, उत्तरप्रदेशे, कर्णटके एवं कुत्रचित् सङ्क्रमणस्य आचरणे प्रादेशिकानि वैशिष्ट्यानि सन्ति ।

वैद्यकीयमहत्त्वम् :

[सम्पादयतु]
शैत्यकाले अस्माकं शरीरे विद्यमान: तैलांश: शाखार्थं व्ययित: भवति । तेन शरीरे तैलांशस्य अभाव: भवति । तस्मात् शीतसम्बद्धा: रोगा: जायन्ते । नारिकेल-गुड-कलायमिश्रितस्य तिलस्य, इक्षुदण्डस्य, शर्कराभक्ष्यस्य च भक्षणेन अभाव: निवार्यते ।
"https://sa.wikipedia.org/w/index.php?title=मकरसङ्क्रमणम्&oldid=444180" इत्यस्माद् प्रतिप्राप्तम्