सामग्री पर जाएँ

मयूरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मयूरः
Male Indian Peacock on display. The elongated upper tail coverts make up the train of the Indian peacock.
Male Indian Peacock on display. The elongated upper tail coverts make up the train of the Indian peacock.
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Aves
गणः Galliformes
कुलम् Phasianidae
उपकुलम् Phasianinae
वंशः Pavo
Linnaeus, 1758

उपविभागीयस्तरः

Pavo cristatus
Pavo muticus

भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् रूप्यकम्

मयूरः (Peacock) सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति। एतस्य केका प्रसिद्धा। मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति। तस्य नृत्यं नयनमनोहरं वर्तते।

वाहनम्

[सम्पादयतु]

एषः मयूरः स्कन्दस्य (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति ।

मयुरः।

मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः ।

अस्माकं राष्ट्रियः पक्षी

[सम्पादयतु]
राष्ट्रपक्षी।

मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान् आसीत् इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति बर्ही इति एतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवन्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः नीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तः मयूरः पक्षिजातिषु एव सुन्दरतमः । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च । तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।

भारतीयस्य मूयूरस्य केका (स्वरः)
सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्


बाह्यसम्पर्कतन्तवः

[सम्पादयतु]

मयूरः(मोर)

"https://sa.wikipedia.org/w/index.php?title=मयूरः&oldid=474211" इत्यस्माद् प्रतिप्राप्तम्