तीर्थहळ्ळी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तीर्थहळ्ळी
तुङ्गानद्याः कृते निर्मितः सेतुः
तुङ्गानद्याः कृते निर्मितः सेतुः
तीर्थहळ्ळी
Location of तीर्थहळ्ळी
in कर्णाटकम्
निर्देशाङ्काः

१३°४२′उत्तरदिक् ७५°१४′पूर्वदिक् / 13.7°उत्तरदिक् 75.23°पूर्वदिक् / १३.७; ७५.२३

देशः भारतम्
राज्यम् कर्णाटकम्
मण्डलम् शिवमोग्गा
जनसङ्ख्या

• सान्द्रता

१४,८०६ (2001)

2,505 /किमी2 (6,488 /वर्ग मील)

समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

5.91 वर्ग किलोमीटर (2.28 वर्ग मील)

591 मीटर (1,939 फ़ुट)

जालस्थानम् www.thirthahallitown.gov.in

तीर्थहळ्ळी शिवमोग्गामण्डलस्य उपमण्डलेषु अन्यतमम् अस्ति । तथा तत्रत्यं शासनकेन्द्रम् अपि । तुङगानद्याः तटे विद्यमानं तीर्थहळ्ळीनगरं शिवमोग्गतः ६० कि .मी.दूरे अस्ति । तीर्थहळ्ळी कर्णाटकस्य दक्षिणभागे अस्तीति कारणतः अत्यधिकवृष्टिपतनस्य प्रदेशेषु अन्यतमम् । तीर्थहळ्ळी-उपमण्डलं पूर्णतया सह्याद्रिपर्वतश्रेण्याः नित्यहरिद्वर्णस्य सान्द्रं वनम् अस्ति । पूगस्य कृषिः तत्रत्यः प्रमुखः फलोदयः । उपफलोदयरूपेन एलां कृष्णमरीचं तथा कदलीम् अपि संवर्धयन्ति ।

प्रसिद्धाः लेखकाः कवयः च[सम्पादयतु]

कन्नडकवेः कुवेम्पुवर्यस्य स्थानं तीर्थहळ्ळी-उपमण्डलस्य ‘कुप्पळ्ळी ’ । कन्नडस्य प्रमुखलेखकस्य हा.मा.नायकस्य जन्मस्थानम् अस्य एव उपमण्डलस्य ‘हारोगद्दे’ । ज्ञानपीठपुरस्कृतलेखकः यु.आर्.अनन्तमूर्तिः,कविः एस् .वि परमेश्वरभट्टः, कादम्बरीलेखिका एम्.के.इन्दिरा,‘अलक’ तीर्थहळ्ळी एते सर्वे मूलतः तीर्थहळ्ळीनगरीयाः। ख्यातः समाजवादिधुरीणः शान्तावेरी गोपालगौडः अस्य एव उपमण्डलस्य जनः। सः तीर्थहळ्ळीविधानसभाक्षेत्रतः निर्वाचितः शासकः अभवत् । पुरुषोत्तमरावः तथा देवङ्गिप्रफुल्लचन्द्रमहोदयः सहजकृषिं कृत्वा अनन्यपरिश्रमं कृतवन्तौ प्रगतिपरकृषिकौ अस्मात् प्रदेशात् एव । कन्नडचलनचित्रस्य प्रसिद्धस्य नटस्य दिगन्तस्य तथा चलनचित्रलेखकस्य कविराजस्य अपि स्वग्रामः तीर्थहळ्ळी । नटस्य दिगन्तस्य चलनक्षेत्रं प्रति परिचयं कारितवान् कूड्लु रामकृष्णः तीर्थहळ्ळीयः । आधुनिकतन्त्राणि उपयुज्य कृषिकरणे अस्य नगरस्य जनाः सर्वदा अग्रेसराः । अस्मिन् विषये “कृषि-ऋषिः” इति ख्यातस्य पुरुषोत्तमरावस्य नाम उल्लेखार्हम् अस्ति ।

प्रेक्षणीयस्थानानि[सम्पादयतु]

वीक्ष्णार्थं कवलेदुर्गं (१८ कि. मी),कुन्दाद्रिः (२४ कि. मी ),कुप्पळ्ळी (१७कि मी ), आगुम्बे (३२कि.मी.),बर्कणजलपातः (३५कि.मी), शरावत्याः उगमस्थानम् अम्बुतीर्थं (१८. कि.मी) मण्डगद्दे (३० कि.मी), तथा चिब्बलगुड्डे{१० कि.मी} एतानि स्थालनि आकर्षणीयानि सन्ति ।

पौराणिकमहत्त्वम्[सम्पादयतु]

तीर्थहळ्ळी पौराणिकदृष्ट्या महत्वपूर्णं पुण्यक्षेत्रम् अस्ति । अत्रत्यपुराणप्रसिद्धं श्रीरामेश्वरमन्दिरं पवित्रनद्याः तुङ्गायाः तटे अस्ति। देवालयस्य गर्भगृहस्य अन्तः विद्यमानं शिवलिङगं महामुनिः परशुरामः प्रतिष्ठापितवान् इति प्रतीतिः अस्ति । गर्भगृहात् बहिः दुर्गायाः तथा गणपतेः प्रतिमे स्तः । परशुरामः स्वस्य परशुं पवित्रायाः तुङगायाः जलेन प्रक्षालितवान् इति कारणतः एतत् स्थलं तीर्थहळ्ळी इति प्रसिद्धं अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=तीर्थहळ्ळी&oldid=332873" इत्यस्माद् प्रतिप्राप्तम्