शान्तवेरी गोपाला गौड

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(शान्तवेरी गोपालगौडः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

शान्तवेरी गोपालगौडः (Shanthaveri Gopala Gowda) कर्णाटकस्य प्रमुखः समाजवादिनायकेषु अन्यतमः। तथाकथितनिम्नवर्गीयाणां ध्वनिः इव आसीत् सः। जातिभेद-वर्गभेदरहितः समाजः तस्य स्वप्नः आसीत्। श्रमिकवर्गस्य कष्टं दृष्ट्वा तस्य हृदयं विशेषतः स्पन्दते स्म। आजीवनं तदर्थं तेन सङ्घर्षः कृतः। श्रमिकनायकः इत्येव प्रसिद्धः सः। शान्तवेरी गोपालगौडस्य पिता कोल्लूरप्पगौडः। माता शेषम्मा। शिवमोग्गामण्डलस्य तीर्थहल्ली-उपमण्डलस्य शान्तवेरीग्रामः एतस्य जन्मस्थानम्। पिता स्वभावतः सरलः सात्विकः च। माता हास्यप्रिया विनोदशीला च। मातुः स्वभावः तस्मै नितरां रोचते स्म। गोपालस्य प्राथमिकः विद्याभ्यासः तीर्थहल्ली-मैसूरु-इत्यादिषु स्थानेषु अभवत्।

समाजवादस्य प्रभावः[सम्पादयतु]

भूस्वामिनां कारणतः जायमानं कृषिकाणां कष्टं, सामान्यजनानां दारिद्र्यं च तं नितरां बाधते स्म। तेन सः अतीव चिन्ताक्रान्तः अभवत्। 'श्रमः एकस्य फलम् अन्यस्य' एषः भेदभावः तस्य दुःखं जनयति स्म। पठनकाले एव सः डा राममनोहरलोहियामहोदयस्य समाजवादिविचारधारातः आकृष्टः अभवत्। सर्वे समानाः इति परिकल्पना, समाजवादिचिन्तनं च देशस्य समस्याः परिहरति इति तस्य विश्वासः आसीत्। गोपालस्य सामाजिकप्रज्ञायाः जागरणस्य कालः सन्निहितः अभवत्। १९५७ तमे वर्षे कागोडु-इत्यत्र प्रवृत्ते कृषिकाणां धनिकानां च स्वामित्वविवादविषये कलहः आरब्धः। धनिकानां शोषणं विरुद्ध्य कृषकाः एकत्रिताः अभवन् । नियमान् भञ्जितवन्तः। क्रान्तिः उग्रस्वरूपं प्राप्नोत्। गोपालगौडः कृषकाणां समर्थनं कृतवान्। तस्य मित्राणि अनुयायिनः च तत्र सहभागिनः अभवन्। "कर्षकस्य एव भूमिः", "भूस्वामित्वं नश्यताम्", "भूस्वामिनां लुण्ठनाय धिक्" इति रूपेण घोषणाः प्रतिध्वनिताः अभवन्। तत्परिणामतः परितः विद्यमानः परिसरः अपि प्रतिध्वनितः अभवत्। शासननियमेषु शैथिल्यम् आगतम्। परिस्थितिः गम्भीरा अभवत्। आन्दोलनं अधीकृत्य पत्रिकासु लेखनानि प्रकाशितानि। देशस्य नानाकोणेभ्यः प्रोत्साहनं प्राप्तम्। कृषकाणाम् आन्दोलनेन सर्वकारे कम्पनम् आरब्धम्। गोपालस्य राजकीयगुरुः डा लोहिया कागोडु प्रति आगतवान्। आन्दोलनाय गजबलं प्राप्तमिव अभवत्। सामाजिकतज्ञाः, देशविदेशीयाः राजकीयनायकाः च एतान् आश्चर्यदृष्ट्या दृष्टवन्तः। नवीनक्रान्तेः आरम्भः जातः आसीत्। हताशेन सर्वकारेण आन्दोलनस्य दमनाय गोपालगौडस्य लोहियावर्यस्य कृषकनायकानां कृषकानां च बन्धनं कृतम्। ते सर्वे कारागारे बद्धाः। तथापि आन्दोलनं न स्थगितम्। अन्ते सत्यम् अवगत्य सर्वकारः 'कृषकः एव भूस्वामी' इति अङ्ग्यकरोत्। गौडमहोदयस्य समाजवादः साकारताम् आप्नोत्।

कर्णाटकस्य एकीकरणे सहभागः[सम्पादयतु]

कन्नडराज्यस्य एकीकरणं विना कन्नडप्रज्ञा अशक्या। एकीकरणस्य परमं लक्ष्यम् अस्ति -'कन्नडजनानाम् उद्धरणम्' इति। तदर्थं गोपालगौडः १९५४ तमे वर्षे सर्वत्र प्रवासं कृतवान्। जनजागरणाय सभासु समारम्भेषु च कर्णाटकराज्यस्य इतिहासं संस्कृतिं गतवैभवं च वर्णितवान्। खण्डितस्य राज्यस्य मेलनस्य आवश्यकतां प्रतिबिम्बितवान्। कर्णाटके कन्नडभाषा एव शासनभाषा भवेत् इति आग्रहं कृतवान्। एस् निजल्लिङ्गप्प-अन्दानप्प-दोड्डमेटीसदृशानां कर्णाटकनेतॄणां कन्नडलेखकानां च नेतृत्वे समग्रे राज्ये सत्याग्रहाः आन्दोलनानि च अभवन्। कर्णाटके पाञ्चजन्यं प्रतिध्वनितम् अभवत्। १९५६ तमवर्षस्य नवम्बर् मासे प्रथमदिनाङ्के यदा कर्णाटकस्य एकीकरणम् अभवत् तदा तस्य आनन्दः अवर्णनीयः आसीत्। कन्नडजनानां स्वप्नः साकारतां प्राप्नोत्। स्वतन्त्रभारते पञ्चाशताधिकराज्यानि भारतसर्वकारे विलीनानि अभवन्। अतः राज्यं नास्ति चेदपि राजानः सर्वकारतः राजधनं प्राप्नुवन्ति स्म। तस्य स्थगनार्थं गोपालगौडः अग्रे आगतवान्। कतिचित् अनुयायिभिः सह आन्दोलनं कृतवान्। नवरात्रिशोभायात्रासमये महाराजस्य पुरतः स्थित्वा प्रतिभटनं कृतवान्। पुनः कारागृहवासः आपतितः। १९६९ तमे वर्षे राजधनं स्थगितम् अभवत्। आन्दोलनस्य लक्ष्यं पूर्णम् अभवत्। समाजवादस्य आशयः एव जाति-वर्ण-वर्गरहितस्य समाजस्य निर्माणम्। हरिजनानां समानतायै क्रान्तिमार्गम् अनुसृतवान्। अस्पृश्यतायाः विरोधं कृत्वा देवालये प्रवेशाधिकारं कल्पितवान्। शिक्षणेन विना स्वाभिमानः न उत्पद्यते। दास्यभावना न गच्छति इति विषयं सर्वकारस्य अवधानं प्रति आनीतवान्।रात्रिशालाः आरब्धवान्। तन्मध्ये त्रिवारं राज्यसभासदस्यरूपेण चितः अभवत्। समाजवादस्य कल्पनां विधानसभायाम् अपि प्रतिपादितवान्। भूस्वाम्यतापद्धतेः निवारणाय, दास्यपद्धतेः निर्मूलनाय, जात्यतीतजीवनाय, कृषकाणां सुखाय च कार्यं कृतवान्। तस्य कुटुम्बीयानाम् अपि अत्र पूर्णः सहयोगः आसीत्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]