लक्कुण्डी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्कुण्डी

लक्किगुण्डी

—  town  —
ब्रह्मजिनालयः
ब्रह्मजिनालयः
निर्देशाङ्काः
देशः भारतम्
राज्यम् कर्णाटकम्
समीपतमं नगरम् गदग
समयवलयः IST (UTC+05:30)

लक्कुण्डी (गदग) -कर्णाटकप्रान्तस्य गदगमण्डले विद्यमानः कश्चन प्राचीनः अग्रहारः । पूर्वं लोक्कुण्डी इति च ख्यातः । अत्र १०८ देवालयाः १०८ बसदयः(जैनदेवालयाः), १०१ वाप्यः १०२ शिवलिङ्गानि च आसन् । काशीविश्वेश्वरः प्रमुखः । दानचिन्तामाणिः इति प्रसिद्धा अत्तिमब्बा बसदीनां निर्माणं (१००९-४०) कारितवती । ब्रह्मदेवालयः प्राचीनः ३० स्तम्भविशिष्टः । तत्र महावीरस्य कृष्णाशिल्पमूर्तिः अस्ति । एतां मूर्तिं दक्षिणभारते एव शिल्पकलामुकुटमणिः इति कथयन्ति ।

काशीविश्वेश्वरमन्दिरस्य कीर्तिमुखम्

ऐतिहासिके विवरणे एतत् तेजोमयं बृहन्नगरम् इत्यपि प्रसिद्धम् आसीत् । लोक्किगुण्डि इति कल्याणचालुक्यानां काले नाम आसीत् । बलयुतं दुर्गं शिल्पकलास्थानं दक्षिणभारतमुकुटमणिः इति च ख्यातम् आसीत् । अत्र कलापूर्णाः देवालयाः जैनानां मन्दिरैः (बसदि) शिलालेखैः (२९) प्रसिद्धः लक्कुण्डीग्रामः प्रसिद्धं सांस्कृतिककेन्द्रमासीत्।

माणिकेश्वरमन्दिरस्था पुष्करिणी

आङ्गलाः अपि एतत् नगरं वर्णितवन्तः सन्ति । नागनाथ-नीलकण्ठेश्वर- विद्याशङ्कर- काशिविश्वनाथादीनां देवानां शिल्पकलायुक्तानि मन्दिराणि लक्कुण्डीप्रदेशे सन्ति । कन्नेरबावि, चतीरबावि, माळिबावि, सिद्धरबावि, हनुमनबावि इत्याद्यः अनेकाः पुष्करिण्यः अत्र सन्ति । बावि नाम कूपः अथवा पुष्करिणी । अत्र नाणकानां टङ्कणकार्यमपि प्रचलति स्म । अत्रोत्पन्नानां नाणकानां गद्याण, पोनगद्याण, लोक्किगद्याण इति नामानि आसन् ।

तीर्थङ्करस्य प्रतिमा,जैनमन्दिरस्य द्वारालङ्कारः च

विशेषतः सर्वधर्मियाणाम् अत्र आश्रयः आसीत् । वीरशैवाः ब्राह्मणाः जैनाः च अत्र परस्परसौहार्देन वसन्ति स्म । सर्वेषामपि गौरवम् आसीत् ।’ देवालयेषु काशीविश्वनाथमन्दिरम् अतीव प्रसिद्धम् अस्ति । अत्रत्यं कलामयं दक्षिणद्वारम् अत्यन्तं सुन्दरम् अस्ति । भित्तिषु अपि सुन्दरचित्राणि सन्ति । आकाशे स्थितानां मेघानां चित्रणं, मदगजस्य आभरणं वस्त्रं, सुन्दरमयूरः, चौकाकारे रक्षाकवचे नागबन्धनम् इत्यादीनि प्रसिद्धानि शिल्पानि सन्ति । शिल्पशैली औत्तरेया अस्ति । एतेषां देवालयानां शिल्पानि हिन्दुदेवालयेषु एव प्रमुखानि अद्वितीयानि च इति श्रीबर्जेस् महोदयः उक्तवान् अस्ति। कन्नडभाषाप्रिया राज्ञी अत्तिमब्बा अत्रत्या एव आसीत् । दानचिन्तामणिः इति ख्याता एषा सत्कुलप्रसूता च आसीत् । तया कश्चन ब्रह्मजिनालयः क्रिस्ताब्दे २००९ तः १०४० वर्षसमये निर्मितः अस्ति । देवालयः १२ पाददीर्घः ३२ पादविस्तृतः ४२ पादोन्नतः च । पूर्वाभिमुखे अत्र बसदिप्रदेशे सभामण्डपं सुन्दरम् अस्ति । स्तम्भेषु अपि सुन्दकलाकृतयः सन्ति ।

नन्नेश्वरमन्दिरम्
जैनमन्दिरस्य प्राकारः

राज्ञी अत्तिमब्बा कर्णाटके राज्यशिल्पसौन्दर्याय अपूर्वं रत्नं दत्तवती । अत्र ध्यानस्थस्य वर्धमानमूर्तेः सुन्दरं मूर्तिशिल्पमस्ति । सर्वे दर्शकाः अपि एतां मूर्तिं दृष्ट्वा अतीव सन्तुष्टाः भवन्ति । गदगनगरे वसतिः साध्यास्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

हुब्बळ्ळी-गुन्तकल्मार्गे गदगनिस्थानम् अस्ति । ततः १२ कि.मी वाहनमार्गः ।

वाहनमार्गः[सम्पादयतु]

हुब्बळ्ळी- बळ्ळारीवाहनमार्गे लक्कुण्डीनिस्थानमस्ति । लक्कुण्डीप्रदेशतः समीपे गदगनगरे (१२ कि.मी ) श्रीवीरनारायणमन्दिरम् अतीव सुन्दरम् अस्ति (त्रिकूटेश्वरमन्दिरे सरस्वतीमन्दिरं कलापूर्णस्तम्भयुक्तम् अस्ति । अनेकानि शिल्पानि अपि अत्र सन्ति । शिलादेवालयः अयम् ।

"https://sa.wikipedia.org/w/index.php?title=लक्कुण्डी&oldid=360789" इत्यस्माद् प्रतिप्राप्तम्