गदग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गदग्
गदगनगरं कर्णाटक प्रान्तस्थं प्रमुखनगरं च मण्डलकेन्द्रं ।
गदगनगरं कर्णाटक प्रान्तस्थं प्रमुखनगरं च मण्डलकेन्द्रं ।


कर्णाटकस्य किञ्चन मण्डलम् अस्ति गदगमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति गदग-बेटगेरीनगरम् ।

गदगनगरं कर्णाटकप्रान्तस्थं प्रमुखनगरं मण्डलकेन्द्रं च । गदगनगरं कन्नडभाषाकवेः कुमारव्यासस्य जन्मस्थलम्। अस्मिन् नगरे वीरनारायण देवालयः अस्ति। गदग -कृतपुरम् इति पूर्वं प्रसिद्धम् एतत् नगरम् । अत्र होय्सळराजेन विष्णुवर्धनेन निर्मितं श्रीवीरनारायणामन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । विशाले प्राङ्गणे सुन्दरदेवालयः महाद्वारे गोपुरं च स्तः । गोपुरं विजयनगरशैल्या अस्ति । श्रीवीरनारायणमूर्तिः योत्रमुद्रायुक्ता शङ्खचक्रगदाहस्ता, कर्णकुण्डलकिरीटधारिणी च अस्ति । शिलास्थम्भाः आकर्षकाः सन्ति । कविः कुमारव्यासः (नारणप्पा) कर्णाटभारतकथामञ्जरी महाकाव्यम् अत्रैव लिखितवान् । कोळीवाड इति ग्रामः समीपे अस्ति । ततैव कविः कुमारव्यासः जन्म प्राप्तवान् । सः श्रेष्ठ हरिभक्तः । गदगनगरे त्रिकूटेश्वरदेवालयोऽपि कश्चन शिलादेवालयः । हरिहरब्रह्मणां त्रिलिङ्गानि अत्र सन्ति । अत्र स्थिते सरस्वतीमन्दिरे प्रत्येकस्तम्भेषु भिन्नभिन्नशिलपकलावैभवं पश्यामः । मन्दिरे शिलपकला अपूर्वाऽस्ति । श्री जगद्गुरुतोण्टदार्यमठोऽपि अत्र अस्ति अन्धानाम् अक्षयदाता श्री पञ्चाक्षरीगवायी गदगनगरे राज्ये च प्रसिद्धः। गदगनगरतः समीपे (१२ कि.मी)दूरे वेङ्कटापुरग्रामे सुन्दरः श्रीवेङ्कटेश्वरदेवालयः अस्ति । मदलगट्टा प्रदेशे मुण्डरगी समीपे कृष्णाशिलायां निर्मितः हनुमान् प्रसिद्धः अस्ति । एषः महाभारतकालीनः विग्रहः। एतस्याः मूर्तेः योजनं जीर्णोध्दारः च श्रीव्यासरायस्वामिना कृतम् । अन्यानि दर्शानीयानि स्थानानि सरस्वतीदेवालयः, त्रिकूटेश्वरदेवालयः, वीरनारायणदेवालयः, जैनमन्दिरे, श्रीतोण्टदार्यमठः, हालकेरे अन्नदानेश्वरमठः, शिवानन्दमठः, वीरेश्वरपुण्याश्रमः च प्रसिद्धानि प्रेक्षणीयस्थानानि सन्ति ।

मार्गः- बेङ्गळूरुतः ४७९ कि.मी धारवाडतः ८० कि.मी हुब्बळ्ळीतः ५८ कि.मी हुब्बळ्ळी-गुन्तकल् रेलमार्गे गदगनिस्थानम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=गदग&oldid=392739" इत्यस्माद् प्रतिप्राप्तम्