कनकदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कनकदासः

प्रवेशः[सम्पादयतु]

कनकदासः (Kanaka Dasa) श्रेष्ठः कीर्तनकारः । (Kannada:ಕನಕದಾಸರು)कर्णाटकराज्यस्य हावेरीमण्डले बङ्कापुरसमीपे (कागिनेले) बाडग्रामः कनकदासस्य जन्मस्थलम् । (जीवितकालः क्रि.श.१५०९ तः १६०९) एषः जात्या हण्डेकुरुबः इति केचन वदन्ति, अन्ये केचन व्याधस्य जातिः इत्यपि वदन्ति । कनकदासस्य पितुः नाम बीरप्पः मातुः नाम बच्चम्मा इति । पूर्वाश्रमे कनकदासः कस्यचित् राज्ञः सेनापतिः आसीत् । कस्मिंश्चित् युद्धे पराजयं प्राप्य ऎहिके विरक्तः हरिदासः अभवत् इति कथा श्रूयते । कागिनेले आदिकेशवः एतस्य इष्ठदेवः अतः अस्य देवतास्तुतिषु कागिनेले केशवरायः इति अङ्कितम् अस्ति । अस्य रचनानि सर्वाणि अस्मै एव समर्पितानि इति ज्ञायते । एतस्य गुरुः व्यासरायः । एषः समग्रं कर्णाटकम् अटितवान् । षोडषशतकस्य भक्तिपथस्य प्रसिद्धेषु हरिदासेषु अयम् अन्यतमः । कन्नडभाषायाः प्रसिद्धाः कवयः पुरन्दरदासः इत्यादिभिः सह अयमपि कर्णाटकसङ्गीतस्य सिद्धान्ताय स्वयोगदानं कृतवान् । उडुप्यां किञ्चितकालं स्थितवान् आसीत् इति भासते । तथाकथितनीचकुलेजातस्य कनकदासस्य कृष्णदर्शनाय मन्दिरे प्रवेशः निराकृतः । तदा कनकदासाय दर्शनं दातुं श्रीकृष्णः स्वयं पश्चिमाभीमुखी भूत्वा रन्ध्रद्वारा दर्शनम् दत्तवान् । तस्य स्थानस्य कनकनकिण्डी इति नाम अभवत् । स्वस्य ९८ तमे वर्षे एषः मरणं प्राप्तवान् इति श्रूयते ।

कृतयः[सम्पादयतु]

मोहनतरङ्गिणी[सम्पादयतु]

मोहनतरङ्गिण्याः अपरं नाम कृष्णचरितम् इति । कन्नडभाषायाम् अस्य रचनस्य साङ्गत्यकाव्यम् इति वदन्ति । कनकदासस्य समकालीनजीवनचित्रणं पौराणिककथाः च शुद्धकन्नडभाषया अत्र निरूपितम् अस्ति । सेनापतिना कनकदासेन पौनपुन्येन विजयनगरं गन्तव्यम् आसीत् । विजयनगरसाम्राज्यस्य वैभवयुतकाले रजसभा, राजपरिवारस्य सरससम्माननानि, शृङ्गारः, विलासीजीवनम्, जलक्रीडा, होलियाटः, नवरात्रोत्सवः, विजयनगरपुनारचनम्, उद्यानानि, प्रजानां वेषभूषाः, समरकलाः, इत्यादयः तस्य मनसि गाढं सुस्थापिताः । कविहृदयः कनकदासः स्वस्य विजयनगरस्म्पर्कानुभवान् काव्यरूपेण अवतारितवान् । एतदेव सरसम् अत्याकर्षकं मोहनतरङ्गिणी इति कन्नडकाव्यम् । अयं स्वस्य यौवने अस्य रचनां कृतवान् इति कारणेन अत्र युद्धस्य वर्णनानि अधिकानि दृश्यन्ते । एतस्मिन् काव्ये शम्भरासुरवधः, बाणासुरवधः, हरिहरयुद्धम् इत्यादिभिः रौद्ररसप्रवाहः एव प्रवहति । अस्मिन् काव्ये कनकदासः महिमान्वितस्य श्रीकृष्णस्य चरितं वर्णयन् राजानं कृष्णदेवरायम् एव श्रीकृष्णेन तोलयति । यथा...

सोमसूरिय वीथियिक्केल ।
हेमनिर्मित सौधदोळि ।
रामणीयतेवेत्त कळसदङ्गडियिर्दु ।
वा महा द्वारकापुरदे ॥

ओरन्ते मरणकालरु हडगिन व्यव
हारदि गळिसिद हणव
भारसङ्ख्येयलि तूगुवरु बेडिदरे कु
बेरङ्गे कडव कोडुवरु ॥

नलचरित्रम्[सम्पादयतु]

नलचरित्रं रामधन्यचरित्रं च भामिनीषट्पदी इति कन्नडछन्दसि रचितम् स्तः । एते नित्यनूतनशैल्या निरूपिते अद्भुतकल्पनाविलासस्य द्वे काव्ये । महाभारतस्य कथायाः प्रेरणारूपा उज्ज्वला आर्येतरा प्रेमकथा एव नलदमयन्त्योः कथा । त्रयोदशेशतके रचितस्य संस्कृतभाषाया नलचम्पू काव्यापेक्षया हृदयस्पर्शि चित्रणम् अस्य कनकदासस्य नलचरित्रकाव्ये अस्ति । आश्लीलताम् अतिरिच्य शृङ्गाररसविलासितम् एतत् काव्यम् अद्यापि कन्नडसारस्वतलोके अतीव जनप्रियम् अस्ति । नलः हंसदौत्येन स्वप्रेम निवेदनम्, तयोः अमोदप्रमोदाः तदनन्तरस्य सङ्कटकालः पुनर्मिलनम् इत्यादीनि कथादृश्यानि चिरनूतनानि सन्ति । करुणरसप्राधान्यस्य नलचरित्रस्य कानिचन पद्यानि यथा...

ललित हेमद तूगुमञ्चद
होळेव मेल्वासिनलि मलगुव
ललनेगी विधि बन्धुवे हा एनुत बिसुसुय्दु । (५-२)

मोहनतरङ्गिण्यां शृङ्गारः अतिप्रखरः यस्य विषये चिन्तनं मथनं अन्यैः सह न शक्यते । आम्लाम्रमिव वितीर्य खादितुं न साध्यम् । किन्तु नलचरित्रे तु प्रौढशृङ्गारः मल्लिकासुमम् इव सर्वैः सह सम्भाजनमर्हति ।

रामधान्यचरितम्[सम्पादयतु]

कनकदासः अस्मिन् काव्ये तण्डुलः तु धनवताम् आहारधान्यं रागी दीनानां धान्यम् इति वदन् तस्य रामधान्यम् इति नाम प्रापितवान् । एतयोः धान्ययोः मध्ये पेशलसम्भाषणम् अरचयत् । अत्र युद्धस्य सन्निवेशाः न सन्ति चेदपि वीररस्य झरी अस्ति एव । यथा...

नुडिगे हेसद घण्डनिन्नोळु कोडुवरे मारुत्तरव कडुजडवला निन्नोडेयने मातेके ?
हेणद बायिगे तुत्तु नीनहे निन्न जन्म निरथकवला ।
एल्वो नीनेल्लिहेयो निन्नय बळगवदु ॥

इत्यदिषु वचनेषु कनकदासः रागिधान्यस्य व्याजेन आत्मगाथां निरूपयति इति भाति । उन्नतस्तरस्य जनानाम् आहारधान्यस्य तण्डुलस्य निम्नवर्गस्य आहारधन्यस्य रागिधान्यस्य मध्ये संवादं परिकल्पयिता स्वस्य सर्जनशीलतां प्रादर्शयत् ।

हरिभक्तिसारः[सम्पादयतु]

हरिभक्तिसारः तु ११० भक्तिगीतानां ग्रन्थः । कन्नडभाषायाः प्रसिद्धे छन्दसि भमिनीषट्पद्यां रचिताः श्लोकाः सन्ति । अयं ग्रन्थः कन्नडस्य भगवद्गीता इव् अस्ति । कनकदासस्य सर्वाणि काव्यानि कविसहजवर्णनैः अनुपमोपमाभिः समृद्धानि सन्ति । तस्य काव्यकौशलेन कन्नडभाषासारस्वतलोकः आश्चर्यचकितः एव ।

कीर्तनानि[सम्पादयतु]

कनकदासस्य दैवभक्तिपारम्यम् अस्य हरिकीर्तनानां पठनेन ज्ञायते । एतेषु श्रीहरिं स्वस्वामीव, प्रियतम इव अणोरणीयः इव महतो महीयः इव अपश्यत् । बा रङ्ग एन्न मनके (आगच्छतु मम हृदयम्) इति हृन्मन्दिरे हरिं प्रतिष्ठाप्य सुखमनुभूतवान् दैवसहवासस्य सुखम् । अन्तर्दृष्ट्या हरिं वीक्ष्य... कण्डे ना तण्ड तण्ड हिण्दु दैव प्रचण्डरिपु गण्ड उद्दण्ड नरसिंहन (पश्याम्यहं पश्यामि गणदैवप्रचण्डरिपोः गण्डोद्दण्डनरसिंहम्) इति वदन् सन्तोषमनुभूतवान् ।

एल्लि नोडिदरल्लि राम
एम्ब अनुभूतियल्लि हरियन्नु कण्ड बळिक
बहुकिने बदुकिदेनु भव एनगे हिङ्गितु ॥
इति तस्य धन्यताभावः अत्र पद्यभुतः अस्ति ।

दासदादसरमनेय दासियर मग मङ्कुदास
मरुळुदास नरजन्म हुळु परमपापी ।
इति वन्दन् कनकदासः वार्धक्ये उपकान्ते...
आतनोलिद मेले इन्यातरकुलवय्या

वीरशैवानां विवादः कदनं, मुसल्मानानां प्राबल्यम् इत्यादिभिः खिन्नमनस्कः वैदिकधर्मस्य पुनश्चेतनं कर्तुं व्यासराजः यतमानः आसीत् । वैदिकसंस्कृतेः उत्थानार्थं प्रतिष्ठापितः विजयनगरसाम्राज्यस्य पतननान्तरं वैदिकधर्मस्यापि अवनतिः आरब्धा । एतादृशे कलखण्डे कनकदासः व्यासरजस्य कार्यम् आलम्बनं कुर्वन् अत्र अतिष्ठत् ।

नावु कुरुबरु नम्म देवरु बीरय्य ।
काव नम्मज्ज नरकुरि हिण्डुगळ ।
इति विनीतभावेन जातिभवं प्रदर्शितवान् कनकदासः व्यासराज्स्य सम्पर्कानन्तरं....
कुलकुलवेन्दु होडेदाडदिरि.....
इति अवदत् । एदादृशः परिवर्तनं सञ्जातम् ।

कनककुहरम्[सम्पादयतु]

उडुपीपुरे श्रीकृष्णदेवालये विद्यमाने कनकगवाक्षस्य उल्लेखः श्रीकृष्णमठस्य इतिहासपुटेषु अथवा कनकदासस्य अन्येषां वा कृतौ शिलाभिलेखेषु नास्ति । मन्दिरस्य निर्मितिः आगमशास्त्रानुगुणं नास्ति एव । तत्र बलिशिला ध्वजस्तम्भः अन्तरालः अर्धमण्डपं प्रदक्षिणापथः च न सन्ति । उडुपीकृष्णस्य पश्चिमाभिमुखस्य प्रतिष्ठापनं श्रीमध्वाचार्यः शालिवाहनशकवर्षः ११६० हेविलम्बिसंवत्सरस्य माघशुक्लतृतीयायां (क्रि.श.१२३८तमे वर्षे) कृतवान् । पश्चिमसमुद्रे प्राप्तां मूर्तिं पश्चिमाभिमुखं संस्थाप्य पश्चिमसमुद्राधीशः इति अकथयत् श्रीमध्वाचार्यः । कनकदासस्य समकालीनः सर्वोत्तमतीर्थस्वामिनः वचनानुसारं देवतामूर्तयः पूर्वाभिमुखाः एव भवेयुः इति कश्चिदपि नियमः नास्ति अतः मध्वाचार्यः श्रीकृष्णं पश्चिमाभिमुखमेव प्रतिष्टापयत् । अतः कृष्णस्य परिवर्तनस्य प्रश्नः एव नोद्भवति । इति । वादिराजः पुरन्दरदासः कनकदासः च दासपरम्परायाः त्रिवेणीसङ्गमः इव । त्रयः अपि समानमानस्काः समकालीनाः च । तेषां मध्ये परस्परं गौरवादरः चिन्तनं चर्चा प्रचलति स्म । एकैकस्यापि अन्यस्य ज्ञानकौशलानां विषये विश्वासः आसीत् । १२०वर्षाणां दीर्घकालं जीवितेन वादिराजेन सह कनकस्य स्नेहविश्वासः आसीत् । सर्वविधसमुत्कर्षम् आनीतवान् चेदपि मन्दिरस्य पावित्र्यापावित्र्यविषये मौढ्यं परिहर्तुं नाशकत् । तस्य स्नेहविश्वासयोः दुरुपयोगं कृत्वा कनकः श्रीकृष्णमप्रवेशस्य प्रयत्नमपि न कृतवान् । कृष्णस्य मूर्तेः पुरतः ध्यानार्थिभक्तानाम् आनुकूल्यार्थं व्यवस्थापितः गवाक्षस्य निकटं स्थित्वा कनकवादिराजयोः संवादः भवति स्म । तत् कुहरम् एव इदानीं कनकस्य कुहरम् इति प्रसिद्धम् अस्ति । कनकदासस्य भक्तिं पुण्यपौरुषं च द्योतयितुं तस्य काव्यकृषिः एव महासाधनम् अस्ति । कन्नडसारस्वतलोके विद्वत्सम्पन्नः कनकदासः कुलातीतः कालातीतः च तिष्ठति ।

दासस्य किञ्चित्कीर्थनम्[सम्पादयतु]

अत्र तस्य काव्यस्य ललितरसधारा दृश्यते ।
नी मायेहोळगो निनोळुमायेयो ।
नी देहदोळगो निन्नोळु देहवो।

बयलु आलयदोळगो आलयवु बयलोळगो ।
बयलु आलयवेरडु नयनदोळगो ।
नयन बुद्धिय ओळगो बुद्धिनयनद ओळगो ।
नयनबुद्धिगळेरडु निन्नोळो हरिये ॥

सवियु सक्करेयोळगो सक्करेयु सवियोळगो ।
सवियु सक्करेयेरडु जिह्वेयोळगो ।
जिह्वे मनसिन ओळगो मनसु जिह्वेय ओळगो ।
जिह्वे मनसुगळेरडु निन्नोळगो हरिये ।

कुसुमदोळु गन्धवो गन्धदोळु कुसुमवो ।
कुसुमगन्धगळेरडु घ्राणदोळगो ।
असमभवकागिनेलेयादिकेशवराय ।
उसुरलेन्नळवल्ल एल्ल निन्नोळगो ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

अवलोकनयोग्यानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कनकदासः&oldid=324620" इत्यस्माद् पुनः प्राप्तिः