जगन्नाथदासः
जगन्नाथदासः (Jagannatha dasa) श्रेष्ठः कीर्तनकारः । जगन्नाथदासः (कन्नडभाषा : ಜಗನ್ನಾಥ ದಾಸ) कर्णाटकराज्यस्य रायचूरुमण्डलस्य मान्वी उपमण्डले बागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्परायाः प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः "नरसिंहाचार्यः" जगन्नाथदासस्य पिता, "लक्ष्मीबायी" माता । पूर्वाश्रमे अस्य नाम श्रीनिवासाचार्यः इति । दम्पत्योः एकाकी पुत्रः चेदपि गार्हस्थ्याश्रमं नाश्रितवान् इति वदन्ति । वरदेन्द्रतीर्थः गोपालदासः च अस्य गुरू अस्ताम् इति श्रूयते । जगन्नाथदासस्य पद्येषु "जगन्नाथविठल" इति अङ्कितं भवति । चन्द्राभागा नद्यां प्राप्तफलकैः अयं विषयः दृढीकृतः । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । भगवद्गीता, ब्रह्मसूत्रम् , दशोपनिषत् इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इत्येतस्मिन् कन्नडग्रन्थे मध्वमतस्य तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य पूर्णय्यस्य आदरभाक् आसीत् । मान्वी मध्ये एव जगन्नाथदास्य स्मारिका बृन्दावनं निर्मितम् अस्ति ।
कृतयः
[सम्पादयतु]एतावति काले तस्य लब्धाः कृतयः "२०७" हरिकीर्तनानि, उगाभोगौ, सुळादयः, हरिकथामृतसारः इति मध्वशास्त्रग्रन्थः च । चरणश्लोकः,
जलज्येष्टनिभाकारं जगदीश पदाश्रयम् ।
जगतीतलविख्यातं जगन्नाथं गुरुं बजे ॥
अस्य प्रसिद्धकृतौ हरिकथामृतसारे ३२ सन्धयः सन्ति । कन्नडास्य प्रसिद्धे छन्दसि भामिनीषट्पदीवृत्ते लिखितः अस्ति । हरिकथामृतसारस्य रचनाकाले घटिता काचित् घटना एवमस्ति । तस्य कृतिरचनावसरे २८सन्धयः अनायासेन रचिताः अग्रे नेतुं कष्टम् अभवत् । तदा तस्य गुरुः गोपालदासः सूचितवान् यत् तस्मिन् काव्ये आरम्भे भगवतः गणपतेः स्तोत्रं न योजितं अतः एवम् अभवत् इति । तदनन्तरं २८तमं सन्धिं विघ्नेश्वरसन्धिः इति नामाङ्कितं कृत्वा समर्पितवान् । तदनन्तरं ३२सन्धयः समापिताः ।
मुक्तिः
[सम्पादयतु]जगन्नाथदासः ४०आयुः प्राप्तवान् आसीत् । किन्तु गुरोः गोपालदासस्य अनुग्रहेण ४२वर्षाणि अधिकम् आयुर्भाग्यं प्राप्य ८२वर्षाणि जीवन् क्रि.श १८०९तमे वर्षे दिवं गतः । मन्वीग्रामे यस्मिन् गृहे श्रीजगन्नाथदासः स्वजीवनं सार्थकम् अकरोत् तत् गृहं इदानीं देवालयः अस्ति । यस्य स्तम्भस्य आधारेण सः वार्धक्ये उपविशति स्म तस्मिन् स्तम्भे इदानीमपि तस्य सूक्ष्मशरीरम अस्ति इति भक्तानां भावः अस्ति । अतः तत्र तस्य स्तम्भस्य प्रदिनं पूजा सम्भवति । दासेन उपयुक्तानि कानिचन धार्मिकवस्तूनि इदानीमपि तस्मिन् मन्दिरे सन्ति । हरिकथामृतसारस्य काचन कागदप्रतयः मन्दिरे उपलब्धाः सन्ति । प्रतिवर्षं भाद्रपदशुद्धनवम्यां दासवरेण्यस्य पुण्यदिनं वैभवेन आचर्यते ।
जीवनपाठः
[सम्पादयतु]जगन्नाथदासस्य पूर्वाश्रमजीवनेन एतत् ज्ञायते यत् केवलं विद्यार्जनेन पर्यप्तं न भवति । विनयादयः गुणाः अपि जीवने आनिवार्याः इति । अहङ्कारेणयुक्ता विद्या जीवने केवलं दुःखमेव जनयति । "श्रीनिवासाचार्यः" यदा जगन्नाथदासः अभवत् तदा सद्विद्या प्रकाशं दर्शयति इति संसिद्धम् । स्वहिताय किमपि नेच्छन् भगवति मनः अस्थापयत् । केवलं स्वस्य मनसि शान्तिः स्थिरा भवति चेत् न पर्याप्तम् तस्य वितरणम् अवश्यं भवेत् इति दर्शितवान् । असाधारणः विद्वान् जगन्नाथदासः यत् वक्तव्यं तत् सरलकन्नडेन अवदत् पुनः तत् आचरन् एव जनान् बोधितवान् । सर्वेऽपि सन्न्यासिनः भवन्तु अयमेव मोक्षमार्थः इति नोक्तवान् । लोकव्यवहारान् कुरवन्तः अपि मानवाः परिशुद्धाः मुमुक्षवः भवितुमर्हन्ति इति अवदत् । मनांसि देवे संस्थाप्य यत्किमपि कर्म कुर्वन्तु तृप्तिं प्राप्स्यन्ति । परिशुद्धं जीवनं समाचरन्तु इति वदन् स्वयम् आदर्शः अभवत् ।
प्रशंसाश्लोकः
[सम्पादयतु]दासवर्यं दयायुक्तं दूरीकृतदुराशिषम् ।
हरिकथामृतवक्तारं जगन्नाथगुरुं भजे ॥
जलजेष्टं निभाकारं जगदीशपदाश्रयम् ।
जगतितलविख्यातं जगन्नाथगुरुं भजे ॥
हरिकीर्तनम्
[सम्पादयतु]बन्धनव परिहरिसो भवविदूरा ।
कन्दर्पजनक कारुण्यदलि भक्तरा ।
दुष्टजनगळु बलु कष्ट पडिसुतिहरु ।
निनगेष्टु हेळलि केळु जिष्णु सखने ।
वौश्निष नी दयादृष्टियिन्दलि नोडि हृष्टन्न माडो ।
सन्तुष्टियिन्दलै ॥
हयमुखने निन्न दयदिन्द सलहुदु ।
वय्यगय्यने लोकत्रयव निरत ।
प्रियनेन्दु निनगे ना दैन्यदै मोरेयिडुवे ।
दयमादु गुरु बेग जयप्रदायकनागि ॥
मित शोकने एन्न मातु लालिसिनिन्न दूतरनु ।
सलहुवुदु प्रीतियिन्द, श्री गुरुजगन्नाथविठल ।
ना स्तुतिसबल्ले विधात्रमुख्वन्द्यने ॥
॥श्रीकृष्णार्पणमस्तु॥