सामग्री पर जाएँ

पट्टदकल्लु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पट्टदकल्लु
विश्वपरम्परास्थानानि

Virupaksha Temple, Dravidian style
राष्ट्रम् भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः iii, iv
अनुबन्धाः 239
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1987  (11th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

पट्टदकल्लु (Pattadakallu) कर्णाटकस्य बागलकोटेमण्डले विद्यमानं किञ्चन क्षेत्रम् । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः । पट्टदकल्लु कन्नडशिल्पिनां प्रयोगालयः इति प्रसिद्धः अस्ति ।

कर्णाटके प्रशासनम् कृतवत्सु बादाम्याः चालुक्याः प्रमुखाः आसन्। एते क्रिस्ताब्दस्य ५३५ तः ७५७ वर्षाणि यावत् शासकाः आसन् । एते कला -संस्कृतिरक्षकाः शिल्पकलासक्ताः च । शिल्पानां विषये आसक्तियुक्ताः इति कारणादेव अनेकान् सुन्दरदेवालयान् निर्मितवन्तः । ग्रीक् भूगोळज्ञः टालेमी एतं प्रदेशं ज्ञातवान् आसीत् । सः एतं पर्तुगल् इति उल्लिखितवान् अस्ति । चालुक्याः एतत् नगरम् किसुवोळल् इति उक्तवन्तः । अत्र पट्टाभिषेकोत्सवम् आचरन्तः आसन् इति कारणात् पट्ट्दकल्लु इति नाम आगतम् अस्ति । विश्वसंस्था अपि विश्वपरम्परास्थानानां पट्टिकायाम् एतत् नगरं समायोजितवती अस्ति ।

मलप्रभानद्याः वामनाला प्रदेशे एतत् नगरम् अस्ति । शिल्पकलासम्पद्युक्तं नगरमिदम् । अत्र नवदेवालयाः सन्ति । सर्वे शिवदेवालयाः । गळगनाथ-जङ्गमेश्वर-विरूपाक्ष-मल्लिकार्जुन- त्रिलोकेश्वर-पापनाशदेवालयाः प्रमुखाः सन्ति ।

श्रीविरूपाक्षदेवालयः (लोकेश्वरदेवालयः) बृहदस्ति । क्रिस्ताब्दे ६४० तमे वर्षे निर्मितः । देवालयस्य वास्तुविन्यासः अतीव सुन्दरः अस्ति । पूर्वाभिमुखः देवालयः एषः । महाद्वारं, नन्दिमण्डपः, मुखमण्डपः, विशालसभामण्डपः, प्रदक्षिणपथम्, अन्तरालः, गर्भगृहम् इत्येते भागाः विशिष्टाः सन्ति । नन्दिमण्डपे ९ पाददीर्घः, ७ पादविस्तृतः, कृष्णशिलानन्दिविग्रहः अस्ति । सभाभवने १८ स्तम्भाः सन्ति । १८ जालन्ध्राः सन्ति । एतेषु सुन्दरशिल्पानि सन्ति । शिखरं ५८ पादमितोन्नतम् अतीव सुन्दरं च अस्ति । एतत् कञ्चीकैलासेश्वरदेवालयस्य साम्यं भजते इति मतम् अस्ति । हेवेल् नामकः चरित्रकारः पट्टदकल्लु स्थलं दृष्ट्वा 'चालुक्यविक्रमादित्यः चोळानां पल्लवानां केरलराजानां विषये साधितस्य विजयस्य अपेक्षया विरूपाक्षमन्दिरं निर्माय अपूर्वां कीर्तिं सम्पादितवान्’ इति उक्तवान् अस्ति।

मार्गः

[सम्पादयतु]

धूमशकटमार्गः

[सम्पादयतु]

गदग-बिजापुरमार्गे बादामी निस्थानम् अस्ति । ततः २९ कि.मी ।

वाहनमार्गः

[सम्पादयतु]

बेङ्गळूरुतः ५०० कि.मी, बिजापुरतः १२० कि.मी। पट्टदकल्लु उत्सवः प्रतिवर्षं प्रचलति । सङ्गीत-नृत्य-जानपदसङ्गीतानाम् अपूर्वं मेलनं तदा भवति । समीपे बादामी शिलागुहाः पर्वते (२९ कि.मी) सन्ति । बनशङ्करीदेवालयः (२० कि.मी) दूरे अस्ति । महाकूटेश्वरदेवालयः अपि अतीव सुन्दरः महाकूटस्थले(२० कि.मी) अस्ति । बादामी चालुक्यानां राजधानी आसीत् । बादामीनगरे वसति व्यवस्था अस्ति ।

अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

चित्रशाला

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=484926" इत्यस्माद् प्रतिप्राप्तम्