कर्णाटकस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

कणटका

ಕರ್ನಾಟಕ
रज्य
कर्णटका मप्
कर्णटका मप्
Country फलकम्:Country data इन्दिय
म्य्सोर् रज्य १ नोवेम्बेर् १९५६
राजधानी बङलुरु
Government
 • गोवेर्नर् वजुभै वला
Population
(२०११)
Demonym(s) कन्नडिग
Time zone IST
ISO 3166 code IN-KA

कर्णाटकराज्यस्य द्विसस्रवर्षाणाम् इतिहासः अस्ति । अनेकानि महासाम्राज्यानि राजवंशाः च कर्णाटके शासनम् अकुर्वन् । कर्णाटकस्य कलानां संस्कृतीनां आर्थिकतायाः संवर्धने तेषु बहूनां राज्ञां योगदानम् अस्ति एव । कर्णाटकस्य मूलसाम्राज्यानां प्रभावः भारतस्य सर्वभागेषु दृश्यते एव । बङ्गालस्य सेनराजवांशीयाः आत्मानं कर्णाटकस्य क्षत्रियाः इति कथयन्ति स्म । मिथिलायां तन्नाम अद्यतने बिहारराज्ये शासनं कुर्वाणः राजनः अपि वयं कर्णाटकस्य क्षत्रियाः इति वदन्ति स्म । मध्यभारतस्य चिन्दकनागाः, कलिङ्गस्य गङ्गाः, मान्यखेटस्य राष्ट्रकूटवंशः, वेङ्ग्याः चालुक्याः, देवगिरेः यादवाः च एते सर्वे वयं कन्नडारज्यमूलाः इति वदन्ति ।

पूर्वेतिहासः[सम्पादयतु]

क्रि.श.१९५६तःपूर्वकर्णाटकम्
कर्णाटकस्य नक्षा

राबर्ट् ब्रूस् फूट् महोदयः सुदीर्घस्य कर्णाटकेतिहासस्य अध्ययनस्य आरम्भं कृतवान् । अनेन अपूर्णितं कार्यम् अन्यैः विद्वद्भिः सम्पूरितम् । कर्णाटकस्य प्राचीनसंस्कृतिं हस्तपरशुसंस्कृतिः इति, उत्तरभारतस्य संस्कृतिं सोहन् संस्कृतिः इति कथयन्ति । पूर्वशिलायुगस्य नखाकारकः (उगुरुगल्लु) लघुपरशुः, तडगत्ति, इत्यादीनि नित्यजीवनोपयोगीनि आयुधानि चिक्कमगळूरुमण्डलस्य लिङ्गदहळ्ळी, गुल्बर्गामण्डलस्य हुणसगी प्रदेशेषु प्राप्तानि । तुमकूरुमण्डलस्य किब्बनहळ्ळी ग्रामे दारुखड्गः प्राप्तः, रायचूरुमण्डलस्य लिङ्गसूरुग्रामे मसृणशिलापरशुः, चित्रदुर्गमण्डलस्य ब्रह्मगिरौ ताम्रस्य कांस्यस्य अहुधानि प्राप्तानि । तत्र तत्र शवनिखननस्थानानि अपि दृष्टानि । महिलानां विविधानाम् आभरणानाम् अवशेषाः कुत्रचित् प्राप्ताः । नवशिलायुगस्य अन्ते जनाः अयसः आयुधानि, नित्यजीवने उपयोगसाधनानि निर्मातुं जानन्ति स्म इति संशोधनेन ज्ञातम् । एवं कर्णाटकस्य इतिहास्य आरम्भः पूर्वशिलायुगात् भवति । पाण्डित्यपूर्णसिद्धान्तानुसारेण ऊहया वा क्रि.पू.३०००तमे काले एव हरप्पसिन्धूखातस्य नगराणि लोथाल् नगरस्य मध्ये सम्पर्कः असीदिति अवशेषैः ज्ञायते । अत्र प्राप्तानि भग्नस्वर्णाभरणानि कर्णाटकतः आनीतानि इति वदन्ति । आधुनिके कर्णाटके नवशिलायुगस्य वसतिसाक्ष्याणि प्राप्तानि । क्रि.पू. द्वितीयशतकस्य जनानां शिलायाः प्राचीनलोहानाम् आयुधानि प्रथमतया क्रि.श.१८७२तमे वर्षे संशोधितानि । बृहच्छिलायाः रचनानि, शवनिखननस्थानानि च क्रि.श. १८६२तमे वर्षे कोडगुमण्डले, मूतेय्बेट्टप्रदेशे संशोधितानि ।

इतिहासारम्भः[सम्पादयतु]

कर्णाटके आरम्भे क्रि.पू.२३०तमे काले शातवाहनराजवंशीयाः अधिकारं प्राप्तवन्तः । एतेषां प्रशासनं तु चतुर्थशतकपर्यन्तं प्राचलत् । तृतीयशतकस्य आरम्भे शातवाहनानाम् अवनतेः अनन्तरम् इदानीन्तने उत्तरकन्नडमण्डलप्रदेशे बनवासीकदम्बराजवंशः आगतः । अस्य संस्थापकःशिवमोग्गमण्डलस्य ताळगुन्दस्य मयूरशर्मा इति ब्राह्मणः । अनन्तरम् एषः मयूरवर्मा अभवत्। तथा च दक्षिणकर्णाटके पश्चिमस्य गङ्गराजवंशः प्रशासनं प्रारभत । इदं सर्वप्रथमतया कन्नडभाषायै प्रशासनभाषायाः स्थानं दत्तवन्तः एते राजानः । क्रि.श.४५०तमवर्षस्य हल्मिडीशिलाशासनफलके अस्य उल्लेखः अस्ति । तथैव पञ्चमशताब्दस्य ताम्रनिष्कानि कदम्बानां राजधान्यां बनवासीप्रदेशे प्राप्तानि । एतेषु नाण्येषु कन्नडलिपिः दृश्यते ।

मध्ययुगेतिहासः[सम्पादयतु]

कालक्रमेण कर्णाटके महान्तः राजवंशाः प्रशासनम् अकुर्वन् । एतेषु बादामीचालुक्याः, राष्ट्रकूटाः, पश्चिमचालुक्याः प्रमुखानि राजकुलानि । एतेषां राज्ञा वैभवोपेतराजधान्यः कर्णाटके अपि दृष्टुम् उपलभ्यन्ते । ते कन्नडभाषायाः सहित्यसमृद्धये सहाय्यं कृतवन्तः अपि । कर्णाटकस्य मलेनाडु इति ख्याते पश्चिमाद्रिप्रदेशे होय्सळराजाः साम्राज्यम् अस्थापयन् । एतेषां प्रशासनकाले सङ्गीतं सहित्यं कलाः वास्तुशिल्पाः प्रवर्धमाने आगताः । अनेन विशिष्टस्य कन्नडसाहित्यस्य उदयः अभवत् । एतैः नृपैः अतिविशिष्टविन्यासानां शिल्पानां देवालयाः निर्मिताः । साम्राज्यस्य विस्तारेण आन्ध्रप्रदेशस्य तमिळुनाडुराज्यस्य केचन प्रदेशाः कर्णाटके अन्तर्गताः । चतुर्दशशतकस्य आरम्भकाले महम्मदीयानाम् आक्रमणं सम्यक् नियन्त्र्य विज्यनगरसाम्राज्यं प्रतिष्ठपितम् । उत्तरकर्णाटकस्य विजयनगरं तेषां नूतना राजधानी । अस्य पूर्वतनं नाम होसपट्टण इति । अस्य अनुपमस्य विशालस्य साम्राज्यस्य संस्थापकौ हरिहरः बुक्करायः च । केचन इतिहासलेखकाः वदति यत् एतौ होय्सळसाम्राट् तृतीयवीरबल्लालस्य सेनाधिपती इति । एतत् साम्राज्यं शतकद्वयकालं प्रशासनम् अकरोत् इत्यपि वदन्ति । बीदरराज्यं परिपालयन्तः बहमनिसुल्तानाः एतेषां प्रधानवैरिणः आसन् । क्रि.श.१५६५तमे वर्षे सम्भूते ताळीकोटेयुद्धे विजयनगरराजानः पराजिताः । विजनगरस्य पतनानन्तरं बहमनिराजाः एव अधिकारसूत्रं गृहीतवन्तः । बिजापुरस्य सुल्तानाः दक्षिणभारतस्य अधिकारप्राप्तये बिजापुरसुल्तानैः सह कदनम् आरब्दवन्तः । बहमनिसुल्तानाः बिजापुरसुल्तानाः च उर्दु पर्शियन च साहित्यं, भारतीयम् अरब्बी च वास्तुशात्रं पोषितवन्तः । विजापुरस्थितः गोल् गुम्बज़ एतेषाम् एव योगदानम् । कालक्रमेण बिजापुरसुल्तानान् जित्वा विजयनगरस्य प्रशासनम् आरब्धम् । १७तमे शतके मोगलाः बिजापुरसुल्तानान् पराजित्य अधिकारं प्राप्नुवन् ।

आधुनिकेतिहासः[सम्पादयतु]

आधुनिकः इतिहासः यदुरायस्थापितात् मैसूरुसंस्थानात् आरभ्यते । एतत् साम्राज्यम् ओडेयर् राजवंशाजाः राजानः शासनं कृतवन्तः । क्रि.श. १५६५तमवर्षपर्यन्तं मैसूरुसंस्थानं सामन्तराज्यरूपेण आसीत् । क्रि.श.१५६५तमवर्षात् अनन्तरे काले ताळीकोटेयुद्धानन्तरं विजयनगरसाम्राज्यस्य पतनानन्तरं मैसूरुसंस्थानं स्वतन्त्रम् अभवत् । सप्तदशे शतके साम्राज्यस्य विस्तरणं सञ्जातम् । नरसराजओडेयरस्य चिक्कदेवराजओडेयरस्य च प्रशासनकाले संस्थानं विस्तृतं भूत्वा दक्खनप्रस्थभूमौ एव सर्वबलिष्टं साम्राज्यम् अभवत् । मैसूरुसंस्थानं दक्षिणकर्णाटकस्य तमिळुनाडुराज्यस्य च कांश्चन भागान् अवाप्नोत् । हैदर् अलि तस्य पुत्रः टिप्पु सुल्तानः च क्रि.श.१८शतके ओडेयर् राजानं सिंहासनात् अवतार्य मैसूरुसंस्थानस्य अधिकारं स्वीकृतवन्तौ । हैदर् अलेः प्रशासनकाले संस्थानस्य सेनाबलं बहुधा संवर्धितम् । पुत्रपित्रोः प्रशसनकाले अनेकानि युद्धानि संवृत्तानि । मराठाराजैः सह, आङ्ग्लान् विरुध्य, गोल्कोण्डनिजामानां विरुद्धं च युद्धानि अभवन् । अस्मिन् समये एव चत्वारि आङ्ग्लमैसूरु समाराणि अभवन् । आरम्भे द्वयोः युद्धयोः मैसूरुसंस्थानं विजयं, अनन्तरद्वयोः पराजयं च अवाप्नोत् । क्रि.श.१७९९तमे वर्षे सञ्जाते समरे यदा टिप्पुसुल्तानः मृतः तदा मैसूरुसंस्थास्य बहुभागः आङ्ग्लानां हस्तगतः । तदा मैसूरुराजाः आङ्ग्लानां सामन्ताः अभवन् । ओडेयर -राजानां प्रशासनं क्रि.श. १९४७तमवर्षे भरतस्य स्वातन्त्रप्राप्तेः पर्यन्तम् अपि आसीत् । क्रि.श. १७९९तः १९४७पर्यन्तं १४८ वर्षाणाम् ओडेयर् प्रशसनस्य अवधौ आङ्ग्लानां मैसूरुराज्यम् (इदानीन्तनं कर्णाटकम्) आधुनीकरणार्थं प्रसिद्धम् अभवत् । मैसूरु ओडेयर् राजानः सङ्गीतसाहित्यकलादिषु रुचिमन्तः आसन् अतः एतेषां संरक्षणं पोषणं संवर्धनं च अभवन् ।

मैसूरुसंस्थानस्य राजानः[सम्पादयतु]

1. यदुरायः - कालः क्रि.श. १२९९ – १४२३ ।
2. बेट्टद चामराज ओडेयर् - कालः क्रि.श. १४२३ – १४५९ ।
3. तिम्मराज ओडेयर् - कालः क्रि.श. १४५९ – १४२७ ।
4. हिरियचामराज ओडेयर् - कालः क्रि.श. १४२७ – १५१३ ।
5. हिरिय बेट्टद चामराज ओडेयर् - कालः क्रि.श. १५१३ – १५५३ ।
6. तिम्मराज ओडेयर् -
7. बोळचामराज ओडेयर् –
8. बेट्टदचामराज ओडेयर् – त्रयाणाम् – कालः क्रि.श. १५५३ – १५७८
9. राज वोडेयर् - कालः क्रि.श. १५३८ – १६१८
10. चामराज ओडेयर् - कालः क्रि.श. १६१७ – १६३७ ।
11. द्वितीयः राज ओडेयर् - कालः क्रि.श. १६३७ – १६३८ ।
12. रणधीर कण्ठीरव नरसराज ओडेयर् - कालः क्रि.श. १६३८ – १६५९ ।
13. दोड्डदेवराज ओडेयर् - कालः क्रि.श. १६५९ – १६७३ ।
14. चिक्कदेवराज ओडेयर् - कालः क्रि.श. १६५९ – १६७३ ।
15. चिक्कदेवराज ओडेयर् नृपस्य मूकपुत्रः - कालः क्रि.श. १७०४ – १७१४ ।
16. दोड्डकृष्णराज ओडेयर् – कालः क्रि.श. १७१४ – १७३४
17. अङ्कनहळ्ळि चामराज ओडेयर् / इम्मडि कृष्णराज ओडेयर् - उभावपि दत्तकपुत्राः - कालः क्रि.श. १७३४ – १७६६ ।
18. नञ्जराज ओडेयर् - कालः क्रि.श. १७६६ – १७७० ।
19. बेट्टद चामराज ओडेयर् - कालः क्रि.श. १७७० – १७७६ ।
20. खासा चामराज ओडेयर् - कालः क्रि.श. १७७६ – १७९६
21. तृतीयः कृष्णराज ओडेयर् - कालः क्रि.श. १७९९ – १८१० ।
22. चामराज ओडेयर् - कालः क्रि.श. १८८१ – १९०२ ।
23. चतुर्थः कृष्णराज ओडेयर् - कालः क्रि.श. १९०२ – १९४० ।
24. जयचामराज ओडेयर् - कालः क्रि.श. १९४० – १९४७ । एषः राजा स्वातन्त्रभारते कर्नाटकस्य तमिळुनाडुराज्यस्य च राज्यपालः भूत्वा सेवाम् अकरोत् ।

कर्णाटकस्य एकीकरणम्[सम्पादयतु]

मैसूरु संस्थानस्य जयचामराज् वेडेयर् राजा स्वातन्त्रोत्तरं मैसूरुराज्यं भारतस्य भागं भवितुम् अनुमन्तिं दत्तवान् । क्रि.श. १९५० तमे वर्षे मैसूरुराज्यं भारतस्य अङ्गम् अभवत् । कर्णाटकैकीकरणस्य प्रक्रिया १९तमे शतकस्य द्वितीयार्धे आरभ्य क्रि.श.१९५६तमे वर्षे पुनस्सङ्घटनेन परिसमाप्तम् । तादानीं कोडगु, मद्रास्, हैदराबाद्, मुम्बै राज्यानां केचनभागाः मैसूरुराज्ये अन्तर्गताः । क्रि.श. १९७३तमे वर्षे मैसूरुरज्यं कर्णाटकम् इति पुनर्नामाङ्कितम् ।

"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_इतिहासः&oldid=399902" इत्यस्माद् पुनः प्राप्तिः