कर्णाटकसर्वकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्नाटकसर्वकारः
राज्यलाञ्छनम्
प्रशासनकेन्द्रम् बेङ्गळूरु
कार्याङ्गम्
राज्यपालः हंसराजभारद्वाजः
मुख्यमन्त्रिः सिद्धरामय्यः
शासकाङ्गम्
सभापतिः के.जि.बोपय्य
विधानसभायाःसदस्याः २२५
विधानपरिषद् कर्णाटकविधानपरिषत्
सभापतिः डि एच् शङ्करमूर्तिः
विधानपरिषदःसदस्याः 75
न्यायाङ्गम्
उच्चन्यायालयः कर्णाटाकोच्चन्यायालयः
उच्चन्यायाधीशः जे.एस्.वाघेला
http://www.karnataka.gov.in
प्रशासनभावनम् - विधानसौधः

इतिहासः[सम्पादयतु]

एशियाखण्डे उपशोभितस्य भारतदेशस्य २८राज्येषु कर्णाटकम् अन्यतमम् अस्ति । अस्य आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बरमासस्य प्रथमे दिनाङ्के अभवत् । अस्य पूर्वतनं नाम मैसूरुराज्यम् इति । क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गळूरुनगरं निर्मितमस्ति । तदेव इदानीमपि अस्य राज्यस्य राजधानीति तिष्ठति ।

वैशिष्ट्यम्[सम्पादयतु]

कर्णाटकं भारतस्य दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

प्रशासनम्[सम्पादयतु]

कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जयं प्राप्तवतः पक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदायिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य आनुकूल्यार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रच्छायायां विविधाः विभागाः प्रकल्पिताः । यथा.....

विभागाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

Police
Judiciary
"https://sa.wikipedia.org/w/index.php?title=कर्णाटकसर्वकारः&oldid=480097" इत्यस्माद् प्रतिप्राप्तम्