कन्नडसंस्कृतिविभागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

कन्नडसंस्कृतिविभागः
रेखचित्रम् - चन्द्रगुप्तमोरुयसाम्राज्यः
रेखचित्रम् - चन्द्रगुप्तमोरुयसाम्राज्यः

कन्नडदेशः- इतिहासः कर्णाटकराज्यस्य इतिहासः प्राचीनः तथा विशिष्टः च अस्ति । कस्यापि प्रदेशस्य इतिहाहं ज्ञातुं तत्रत्यानि शासनानि , नाणकानि , सहित्यकृतयः च साहाय्यं कुर्वन्ति । कर्णाटकस्य प्राक् ऐतिहासिककाले जना अत्र वसन्ति स्म । उत्खननेन एतत् ज्ञातम् । तदानींतन जीवनविधानः अपि ज्ञातः भवति ।

कर्णाटके प्राचीनशिलायुगे, नूतनशिलायुगे, बृहत्शिलायुगे तथा लोहयुगे जनाः वसन्ति स्म इति ज्ञातः । कृष्णा, घटप्रभा, मलप्रभा, भीमा, तुङ्गभद्रा, कावेरीनदीतीरेषु, गिरिषु, गिरिसानुषु,जनाः वसन्ति स्म । ते मृगया पशुपालनेन च जीवन्ति स्म अनेके विद्वांसः एतस्मिन् विषये संशोधनं कृतवन्तः ।बृहत्शिलायुगे अयसः आयुधानां उपयोगं ते जानन्ति स्म ।मृतानां स्मारकम्, , अस्थिसंरक्षणस्थानानि वा पाण्डवगुडिनाम्ना ज्ञाताः ।एते मेगलिथ् इति वदन्ति| मोर्याः रायचूरु-बळ्ळारि-चित्रदुर्ग-गुल्बर्गामण्डलेषु अशोकस्य शासनानि प्राप्तानि। धर्मलिपिः इत्येव प्रसिद्धः । अशोकस्य शासनानि ब्रह्मीलिपौ, प्राकृतभाषायां सन्ति ।यत्र एतानि प्राप्तानि तत् स्थानं मौर्यसाम्र्अज्यस्य सीमा इति परिगणिता ।

क्रि.पू ३ शतमानसमये अर्थात् अशोकस्य काले कर्णाटके मोरुयसाम्राज्यस्य सीमाभागः इति परिगणितः आसीत् । अशोकात् पूर्वं तस्य पितामहः चन्द्रगुप्तः भद्रबाहुमुनिना सह श्रवणबेळगोळं प्रत्यागत्य तत्र एव स्मारकस्थितिं प्राप्तवान् इति तत्रत्ये शासने लिखितम् ।अशोकः कार्णाटकस्य वनवासकं(बनवासी) बौद्धधर्मप्रचारकान् प्रेषितवान् ।

शातवाहनाः[सम्पादयतु]

मौर्येभ्यःअनन्तर क्रि.पू ३ शतमानात् कर्णाटकस्य बहुभागेषु शातवाहनाः प्रशासनं कृतवन्तः।तेषां शासने सन्नतिः एकं प्रसिद्धं बौद्धस्थानमासीत् ।शातवाहनवंशस्य गौतमीपुत्रस्य शातकर्णेः कालस्य नाणकाः बनवास्यां प्राप्ताः ।गौतमीपुत्रस्य शातकर्णेः पुत्रः वासिष्ठिः, तस्य पुत्रः पुळुमाविः, तस्य कालस्य नाणकाह् चित्रदुर्गस्य समीपि चन्दवळ्ळिमध्ये प्राप्ताः ।सातवाहनशाखायाःशातकर्णयः चुटुः च कर्णाटकं शासितवन्तः । कदम्बाः शातवानेभ्यः अनन्तरं कर्णाटकस्य उत्तरभागेस्वतन्त्रतया शासिताः प्रथमः कन्नडराजवंशः एव कदम्बवंशः ।मयूरवर्मा तस्य वंशस्य प्रथमः राजा ।बनवासी कदम्बानां राजधानी आसीत् ।अतः एते बनवासीकदम्बाः इत्येव प्रसिद्धाः ।ताळगुन्द तस्मिन् काले प्रमुखं स्थानम् ।काञ्च्यां घटिकास्थाने अभ्यासंकुर्वण् मायूरवर्मा तत्रत्यपल्लवानाम् अश्वसंस्थया सह युद्धं कृतवान् । स्वतन्त्रराजः भवेत् इति अशा तथा एव बृहद्भाणान् पल्लवान् च पराजित्य स्वतन्त्रः राजा भूत्वा राज्यं प्रशासितवान् ।एषः पल्लवैः मान्यतां प्राप्तवान् ।मयूरवर्मा चित्रदुर्गस्य समीपे स्थितं चन्द्रवळ्ळितटाकं पुनः निर्मितवान् ।तत्रस्य शासनेन एषः विषयः ज्ञातः । मयूरवर्मणः अनन्तरं कङ्गवरमा, भगीरथः, रघुः च क्रि.श.४०५ पर्यन्तम् राज्यं शासितवन्तः ।रघोः अनुजः काकुस्थवर्मणः (क्रि.श. ४०५ -४३०) समये कदम्बराज्यं विस्तृतमभवत् । दक्षिणपल्लवैः,, गङ्गैः, तथा उत्तरस्य गुप्तैः च काकुस्थवर्मा विवाहसम्बधं कल्पितवान् ।एषः विषयः हल्मिदिशासनेन ज्ञातः भवति । हल्मिडि शासनं उपलभ्मानेषु कन्नडाशासनेषु प्रथमं शासनमस्ति ।ताळगुन्दे एकं तटाकमपि निर्मितवान् काकुस्थवर्मा । अनन्तरं कदम्बराज्यं द्विधा विभक्तम्।