कर्णाटकस्य उत्खननस्थानानि
हम्पि | |
---|---|
कर्णाटकस्य उत्खननस्थानः |
कर्णाटकस्य प्राचीनसंस्कृतिं ”’हस्तपरशुसंस्कृतिः”’ इति, उत्तरभारतस्य संस्कृतिं सोहन् संस्कृतिः इति कथयन्ति ।
उत्खननस्थानानि
[सम्पादयतु]- लिङ्गदहळ्ळी चिक्कमगळूरुमण्डलम्
- हुणसगी गुल्बर्गामण्डलम्
- किब्बनहळ्ळी तुमकूरुमण्डलम्
- लिङ्गसूरु रायचूरुमण्डलम्
- ब्रह्मगिरिः चित्रदुर्गमण्डलम्
- मूतेय्बेट्ट कोडगुमण्डलम्
पूर्वशिलायुगस्य नखाकारकः (उगुरुगल्लु) लघुपरशुः, तडगत्ति, इत्यादीनि नित्यजीवनोपयोगीनि आयुधानि चिक्कमगळूरुमण्डलस्य लिङ्गदहळ्ळी गुल्बर्गामण्डलस्य हुणसगीप्रदेशेषु प्राप्तानि । तुमकूरुमण्डलस्य किब्बनहळ्ळी ग्रामे दारुखड्गः प्राप्तः, रायचूरुमण्डलस्य लिङ्गसूरुग्रामे मसृणशिलापरशुः, चित्रदुर्गमण्डलस्य ब्रह्मगिरौ ताम्रस्य कांस्यस्य अहुधानि प्राप्तानि । तत्र तत्र शवनिखननस्थानानि अपि दृष्टानि । महिलानां विविधानाम् आभरणानाम् अवशेषाः कुत्रचित् प्राप्ताः । नवशिलायुगस्य अन्ते जनाः अयसः आयुधानि, नित्यजीवने उपयोगसाधनानि निर्मातुं जानन्ति स्म इति संशोधनेन ज्ञातम् । एवं कर्णाटकस्य इतिहास्य आरम्भः पूर्वशिलायुगात् भवति । पाण्डित्यपूर्णसिद्धान्तानुसारेण ऊहया वा क्रि.पू.३०००तमे काले एव हरप्पसिन्धूखातस्य नगराणां तथा लोथाल् नगरस्य मध्ये च सम्पर्कः असीदिति अवशेषैः ज्ञायते । अत्र प्राप्तानि भग्नस्वर्णाभरणानि कर्णाटकतः आनीतानि इति वदन्ति । आधुनिके कर्णाटके नवशिलायुगस्य वसतिसाक्ष्याणि प्राप्तानि । क्रि.पू. द्वितीयशतकस्य जनानां शिलायाः प्राचीनलोहानाम् आयुधानि प्रथमतया क्रि.श.१८७२तमे वर्षे संशोधितानि । बृहच्छिलायाः रचनानि, शवनिखननस्थानानि च क्रि.श. १८६२तमे वर्षे कोडगुमण्डले, मूतेय्बेट्टप्रदेशे संशोधितानि ।