सामग्री पर जाएँ

तुङ्गानदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तुङ्गानदी कर्णाटकराज्ये अस्ति। एतस्याः उद्भवः दक्षिणघट्ट्प्रदेशे वराहपर्वते गङ्गामूले भवति। कर्णाटके चिक्कमगळोरुमण्डलं शिवमोग्गमण्डले च प्रवहति। एषा १४७ किलोमीटर् दूरं प्रवह्य, कर्णाटकस्य शिवमूगसमीपे कूडलि इति क्षेत्रे भद्रानद्या सह सङ्गम्यते। इतः आरभ्य अस्याः तुङभद्रा इति संयुक्तनाम भवति। तुङ्गभद्रा पूर्वदिशं प्रति चलति। आन्ध्रराज्ये कृष्णनद्या सह सङ्गच्छते।[]

एषा नदी स्वस्य माधुर्यार्थं प्रसिद्धा। तत्र एका सूक्तिः अस्ति “ तुङ्गा पानं गङ्गा स्नानम् “ इति। अर्थात् अस्माभिः तुङ्गायाः जलं पातव्यम्, गङ्गायां स्नातव्यम् इति। गजनूरुमध्ये अस्याः जलबन्धः वर्तते। संयुक्तनद्याः तुङ्गभद्रायाः होसपेटेमध्ये एकः जलबन्धः अस्ति।

धार्मिककेन्द्राणि शृङ्गेरी एषा नगरी तुङ्गातटे अस्ति। अत्र अनेके देवालयाः सन्ति। तेषु शारदा विद्याशङ्कर इत्यादयः सन्ति। तुङ्गायाः बन्धे एकः केन्द्रीयविद्यालयः अपि अस्ति। तत् होसपेटेसमीपे अस्ति।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. Malathi, S (30 January 2017). "Hydrobiological studies in the sita and malathi rivers tributaries of river tunga in the western ghats India". Mangalore. आह्रियत 26 April 2026.
"https://sa.wikipedia.org/w/index.php?title=तुङ्गानदी&oldid=498982" इत्यस्माद् प्रतिप्राप्तम्