लौङ्गत्लायमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Lawngtlai district
मण्डलम्
मिझोरामराज्ये लौङ्गत्लायमण्डलम्
मिझोरामराज्ये लौङ्गत्लायमण्डलम्
देशः  India
मण्डलम् लौङ्गत्लायमण्डलम्
विस्तारः २,२५८ च.कि.मी.
जनसङ्ख्या(२०११) १,१७,८९४
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://lawngtlai.nic.in/aboutlawngtlai2.htm#
कृषि-विभागन्तर्गते जातेषु प्रयोगेषु एकं दृश्यम्
निवासस्थानानाम् एकं दृश्यम्
लौङ्गत्लायनगरस्य एकं दृश्यम्

लौङ्गत्लायमण्डलं(आङ्ग्ल: Lawngtlai District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं लौङ्गत्लाय इत्येतन्नगरम् । १९९८ तमे संवत्सरे अस्य मण्डलस्य स्थापना जाता । अस्मिन् मण्डले मण्डल-परिषद्द्वयम् अस्ति - लै, चक्मा ।

भौगोलिकम्[सम्पादयतु]

लौङ्गत्लायमण्डलस्य विस्तारः २,२५८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरदिशि लुङ्गलैमण्डलं, दक्षिणदिशि म्यान्मारदेशः अस्ति । पश्चिमदिशि बाङ्ग्लादेशः, पूर्वदिशि साइहामण्डलम् अस्ति । अत्र २८५ से.मी.मितः वार्षिकवृष्टिपातः भवति । वनेषु वंशवृक्षाः अधिकाः सन्ति । छिम्तुइपुइ, नेङ्गपुइ, चौङ्ग्ते, तुइफाल् च अत्रस्थाः प्रमुखनद्यः ।

जनसङ्ख्या[सम्पादयतु]

लौङ्गत्लायमण्डलस्य जनसङ्ख्या(२०११) १,१७,८९४ अस्ति । अस्मिन् ६०,५९९ पुरुषा:, ५७,२९५ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६०.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ६५.८८% अस्ति । मण्डलेऽस्मिन् ८२.३३% जना: ग्रामेषु निवसन्ति ।

ऐतिहासिकम्[सम्पादयतु]

१८८९ तमे वर्षे अत्र आङ्ग्लप्रशासनम् आरब्धम् । स्वातन्त्र्यप्राप्त्यनन्तरं लुशाइ हिल्स् इति मण्डलत्वेन अस्य परिसरस्य स्थापना कृता । मण्डलमिदं तदानीन्तने अस्साम-प्रान्ते समाविष्टमासीत् । १९५३ तमे वर्षे मिजो-स्वतन्त्र-मण्डल-परिषद्(Mizo Autonomous District Council) स्थापिता । अनन्तरं १९७२ तमे संवत्सरे मिजो परिसरः केन्द्रशासित-प्रदेशत्वेन स्थापितः । अन्ततः १९९८ तमे वर्षे लौङ्गत्लायमण्डलस्य स्थापना जाता ।

कृषि:[सम्पादयतु]

कृषिः एव अधिकांशजनानाम् उपजीविकां कल्पयति । लौङ्गत्लायमण्डलस्य अर्थव्यवस्था कृषिसम्बद्धकार्यैः अग्रे नीयते । कृषिः पारम्परिकपद्धत्या एव क्रियते । चायं, रबर, काफीबीजानि, द्विदलसस्यानि, फलानि च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • चौङ्ग्ते
  • एस.बङ्ग्त्लाङ्ग
  • लौङ्गत्लाय
  • सङ्गौ

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् लै/लइ, चक्मा, बौम, पाङ्ग च जनजातयः निवसन्ति । लै-जनेषु चौङ्गैझौन(Chawnglaizawnh), सर्लाम्काइ(Sarlamkai), Pawhlohtlawh च नृत्यप्रकारः प्रसिद्धः सन्ति । चक्माजनेषु नुआ-झुमो, बिजु च नृत्यप्रकारौ प्रसिद्धौ । जनाः पारम्परिकजीवनपद्धतिम् अनुसरन्ति । अत्रस्थाः जनाः लै, चक्मा, ब्रु, आङ्ग्लं, मिजो, हिन्दी इत्येताभिः भाषाभिः व्यवहरन्ति । चक्माजातीयजनाः अधिकांशाः बौद्धाः सन्ति । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति । शिक्षणसुविधानां प्रमाणं बहुन्यूनम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लौङ्गत्लायमण्डलम्&oldid=482445" इत्यस्माद् प्रतिप्राप्तम्