लुङ्गलैमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Lunglei district
मण्डलम्
मिझोरामराज्ये लुङ्गलैमण्डलम्
मिझोरामराज्ये लुङ्गलैमण्डलम्
देशः  India
मण्डलम् लुङ्गलैमण्डलम्
विस्तारः ४,५३८ च.कि.मी.
जनसङ्ख्या(२०११) १,६१,४२८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://lunglei.nic.in/index.htm


लुङ्गलैमण्डलं(आङ्ग्ल: Lunglei District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं लुङ्गलै इत्येतन्नगरम् । मिजोरामराज्यस्य दक्षिणविभागे स्थितं मण्डलमिदम् । विस्तारदृष्ट्या मिजोरामराज्यस्य बृहत्तमं मण्डलम् । लुङ्ग्लै इत्यस्य अर्थः पाषाणखण्डैः निर्मितः सेतुः ।

भौगोलिकम्[सम्पादयतु]

लुङ्गलैमण्डलस्य विस्तारः ४,५३८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरदिशि मामितमण्डलं, सेरसिपमण्डलं च, दक्षिणदिशि लौङ्गत्लायमण्डलं, साइहामण्डलं च, पूर्वदिशि म्यान्मारदेशः, पश्चिमदिशि बाङ्गलादेशः अस्ति । ९.९७% भूमिः अरण्यव्यापृता अस्ति । वनेषु वंशवृक्षाः अधिकाः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

साइहामण्डलस्य जनसङ्ख्या(२०११) १,६१,४२८ अस्ति । अस्मिन् ८२,८९१ पुरुषा:, ७८,५३७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -७.३४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४७ अस्ति । अत्र साक्षरता ८८.८६% अस्ति । मण्डलेऽस्मिन् ४२.५९% जना: ग्रामेषु निवसन्ति ।

कृषि:[सम्पादयतु]

कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति । लुङ्गलैमण्डलस्य अर्थव्यवस्था कृषिसम्बद्धकार्यैः अग्रे नीयते । कृषिः पारम्परिकपद्धत्या एव क्रियते । चायं, रबर, काफीबीजानि, द्विदलसस्यानि, तण्डुलः, फलानि च प्रमुखसस्योत्पादनानि सन्ति । लघूद्यमेषु वस्त्रनिर्मितिः, काष्ठसामग्री, कृषिसम्बद्धयन्त्राणि, वंशकाष्ठसामग्री च निर्मान्ति । पशुपालनं, मत्स्यव्यवसायः, कौशेयोत्पादनं च बहुजनानाम् उपजीविकां कल्पयति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि -

  • पश्चिम-बङ्घ्मन्
  • लुङ्गसेन
  • लुङ्गलै
  • ह्नाह्थैल(Hnahthial)

लोकजीवनम्[सम्पादयतु]

नैसर्गिकसाधनसम्पत्पूरितं मण्डलम् । अत्रस्थाः जनाः मारा, आङ्ग्लं, मिजो, हिन्दी इतेताभिः भाषाभिः व्यवहरन्ति । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • झोबौक अभयारण्यम्
  • कौम्झौल अभयारण्यम्
  • खौङ्गलौङ्ग अभयारण्यम्
  • अद्भुत-चित्रप्रदर्शिन्या सह सैकुती सभागृहम्


बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=लुङ्गलैमण्डलम्&oldid=481779" इत्यस्माद् प्रतिप्राप्तम्