सामग्री पर जाएँ

ज्ञानपीठप्रशस्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एषा ज्ञानपीठप्रशस्ति: भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः १९६० तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे मलयालस्य लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, एकादशलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।

साहुशान्तिप्रसादजैन:

[सम्पादयतु]

साहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । क्रि.श.१९८२ तः ,एतां प्रशस्तिं भारतीयसाहित्यस्य कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।

प्रशस्तिभूषिताः विविधभाषाः

[सम्पादयतु]

मलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते । हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् । ११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।

संस्कृतभाषया प्राप्तम्

[सम्पादयतु]

क्रि.श.२००६ तमवर्षीया प्रशस्ति: संस्कृतीयेन सत्यव्रतशास्त्रिवर्येण, कोङ्कणीभाषीयेण रवीन्द्रकेळकरवर्येण च सम्प्राप्ता । ४२ तमी प्रशस्ति: एषा । संस्कृतेन एषा प्रशस्ति: प्राप्ता अस्ति ऐदम्प्राथम्येन ।

ज्ञानपीठप्रशस्त्या पुरस्कृताः

[सम्पादयतु]
वर्षम् नाम ग्रन्थः भाषा
१९६५जि शङ्कर कुरूप्प्ओटकुऴल् (वंशी)मलयाळम्
१९६६ताराशङ्कर वन्द्योपाध्यायःगणदेवताबाङ्गला भाषा
१९६७कुप्पळ्ळि वेङ्कटप्प पुट्टप्प (कुवेम्पु)श्री रामायणदर्शनम्कन्नड
१९६७उमाशङ्कर जोशिनिशीथगुजराती
१९६८सुमित्रानन्दन् पन्त्चिदम्बरहिन्दि
१९६९फिरक् गोरख्पुरिजुल्-ए-नग्माउर्दु
१९७०विश्वनाथ सत्यनारायणरामायण कल्पवृक्षमुतेलुगु
१९७१बिष्णु डेस्मृति सत्ता भविष्यत्बाङ्गला भाषा
१९७२रामधारी सिङ्ग् दिनकरऊर्वशीहिन्दी
१९७३द.रा.बेन्द्रेनाकुतन्तिकन्नड
१९७३गोपिनाथ मोहान्तिपरजओरिया
१९७४विष्णु सखाराम खण्डेकरययातिमराठी
१९७५पि वि अखिलन्चित्रप्पवैतमिळ्
१९७६आशापूर्णा देवीप्रथम प्रतिश्रुतिबाङ्गला भाषा
१९७७शिवराम कारन्तःमूकज्जिय कनसुगळुकन्नड
१९७८सच्चिदानन्द हीरानन्द वात्स्यायन अज्ञेयकितनी नावों में कितनी बारहिन्दी
१९७९बीरेन्द्रकुमार् भट्टाचार्यमृत्युञ्जयअस्सामी
१९८०एस् के पोट्टेकट्ओरु देशथिन्ते कथामलयालम्
१९८१अमृताप्रीतम्कगज् ते केन्वास्पञ्जाबी
१९८२महादेवी वर्मायमहिन्दी
१९८३मास्ति वेङ्कटेश ऐय्यङ्गार्यःचिक्कवीरराजेन्द्रकन्नड
१९८४तकाझि शिवशङ्कर पिल्लैकायर्मलयाळम्
१९८५पन्नालाल् पटेल्मानवि नि भवाय्गुजराती
१९८६सच्चिदानन्द राउत रायओरिया
१९८७विष्णु वामन शिर्वाड्कर् (कुसुमाग्रज्)नट्सम्राट्मराठी
१९८८डा.नारायणरेड्डि सिविश्वम्भरतेलुगु
१९८९कुर्रतुलैन् हैदर्अखिरे शाब् के हम्साफर्उर्दु
१९९०वि.कृ.गोकाकःभारत सिन्धु रष्मिकन्नड
१९९१सुभाष मुख्योपाध्यायःपदातिबाङ्गला भाषा
१९९२नरेश मेह्ताहिन्दी
१९९३सीताकान्त महापात्र"भारतीयसाहित्यस्य अभिवर्धनाय तेन कृतम् अपूर्वं योगदानं निमित्तीकृत्य १९७३-९२"ओरिया
१९९४यु आर् अनन्तमूर्तिःकन्नडसाहित्याय तदीयं योगदानं निमित्तीकृत्यकन्नड
१९९५एम् टि वासुदेवन् नैयर्रण्टामूऴम्मलयाळम्
१९९६महाश्वेता देवीहाजार चुराशीर माबाङ्गला भाषा
१९९७अलि सर्दार् जफ्रिउर्दु
१९९८गिरीश कार्नाडः"कन्नडसाहित्याय कन्नडरङ्गभूमये (ययातिः) तेन कृतं योगदानं निमित्तीकृत्य"[]कन्नड
१९९९निर्मल वर्माहिन्दि
१९९९गुर्डियल् सिङ्ग्पञ्जाबी
२०००इन्दिरा गोस्वामीअस्सामी
२००१राजेन्द्र केशवलाल् षागुजराती
२००२जयकान्तन् डितमिळ्
२००३विन्दा कराण्डिकर्अष्टदर्शन (काव्यम्)मराठी
२००४रह्मन् रहिसुबुक् सोड, कलमि रहि, सैयद् रोडे जरेन् मन्ज्झ् चकाश्मीरि
२००५कुन्वर् नारायण्हिन्दी
२००६रवीन्द्र केलेकर्कोङ्कणी
२००६सत्यव्रतशास्त्रीसंस्कृतम्
२००७ओ एन् वि कुरूप्मलयाळम्[]
२००८अक्लाख् मोहम्मद् खान् 'षाह्रयार्'उर्दु
२००९अमर कान्त तथा श्रीलाल शुक्लहिन्दी
२०१०डा.चन्द्रशेखर कम्बारसमग्रं साहित्यम्कन्नड

उल्लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=ज्ञानपीठप्रशस्तिः&oldid=482032" इत्यस्माद् प्रतिप्राप्तम्