बाङ्गला भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
बांला भाषा
বাংলা Bangla
বাংলা.svg
बांली लिप्या बांला शब्दः
विस्तारः बांलादेशः, भारतम् (प्रधानतया पश्चिमबङ्गः, त्रिपुरा, झारखण्डः, अण्डमाननिकोबारद्वीपसमूहः तथा असमराज्यस्य बराकप्रदेशः);
स्थानीय वक्तारः १९३ मिलियन्
आहत्य २३० मिलियन् (२००३)[१]
भाषाकुटुम्बः
इन्दो-यूरोपीयन्
लिपिः बांला लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा  बाङ्गलादेशः,
 भारतम् (पश्चिमबङ्गः, त्रिपुरा)
नियन्त्रणम् बांला एकाडेमी (बांलादेशः)
पश्चिमबङ्ग बांला एकाडेमी (पश्चिमबङ्गः)
भाषा कोड्
ISO 639-1 bn
ISO 639-2 ben
ISO 639-3 ben
Linguasphere 59-AAF-u 59-AAF-ua...59-AAF-uk
Bengalispeaking region.png
विश्वे बांलाभाषायाः विस्तारः

बांला भाषा (/bɛŋˈɡɔːli/[२] or बेङ्गली /bɑːŋlɑː/ (বাংলা) एका आर्यभाषा अस्‍ति । बांलादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्या । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमीया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भाष्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बांलादेशं भारतञ्च विहाय विश्वस्य अन्येषु भागेषु अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।

उद्भवः[सम्पादयतु]

भारतस्य अन्याः भाषाः इव वङ्गभाषायाः अपि उत्पत्तिकालः सामान्यतः १० शतकम् । मगधभाषातः पृथग्रूपस्य प्राप्तेः अनन्तरम् एव अनया भाषया गीतादीनां रचनस्य आरम्भः जातः । इयं भाषा जनानां भावानां विचाराणाम् अभिव्यक्तेः साधनं जातम् । कालक्रमेण काव्यग्रन्थानां धर्मदर्शनादीनां विषये कृतयः रचिताः जाताः । अद्यत्वे भारतीयभाषासु इयं भाषा उन्नतस्थाने विद्यते ।

भारते अधिकैः जनैः भाषमाणासु भाषासु द्वितीयस्थाने वर्तते वङ्गभाषा । भारतस्य राष्ट्रगीतं राष्ट्रगानञ्च वङ्गभाषया एव रचितमस्ति । राष्ट्रगीतं 'वन्दे मातरम्' बङ्किमचन्द्रचटर्जिवर्येण राष्ट्रगानं 'जनगणमन' रबीन्द्रनाथठाकूरेण रचितम् ।

इतिहासः[सम्पादयतु]

बुद्धस्य काले उपयुज्यमानाः मागधी-प्राकृत-पालीभाषाः अग्रे जैनप्राकृत-अर्धमागधिरूपेण विकसिताः जाताः । अर्धमागधिभाषातः अपभ्रंशभाषाः उत्पन्नाः । एताः त्रिधा विभक्ताः - बिहारिभाषाः, ओरियाभाषाः, अस्सामी-बेङ्गालीभाषाः चेति ।

वङ्गभाषायाः इतिहासे त्रयः कालघट्टाः निर्दिष्टाः -
प्राचीनवङ्गभाषा (९००/१०००-१४०० )

प्राचीनवङ्गभाषायाः साहित्ये चर्यपदम्, भक्तिगीतानि, अमि-तुमि इत्यादीनां सर्वनामानाम् उगमः च दृश्यते । तदानीन्तनी लिपिः भाषा च अधिकतया कामरूपिभाषातः प्रभाविता आसीत्, यतः एते प्रदेशाः कामरूपसाम्राज्यस्य आधीन्ये आसीत् ।

मध्यकालीनवङ्गभाषा (१४००-१८००)

अस्य कालस्य प्रमुखा कृतिः चण्डिदासस्य 'श्रीकृष्णकीर्तन' । संयुक्तक्रियापदानां प्रसारः, पर्शियन्प्रभावः च तदा दृश्यते ।

नवीनवङ्गभाषा (१८०० तः) - अन्यभाषातः क्रियापदानां सर्वनाम्नां च ह्रस्वीकरणम् (उदा - तहार् - तार् (तस्य/तस्याः), कोरियाचिलो - कोरेचिलो (सः/सा कृतवान्/कृतवती)

पालीभाषायाः साम्यतां भजन्ती वङ्गभाषा संस्कृतभाषातः प्रभाविता जाता अस्ति चैतन्यप्रभोः युगे, वङ्गनवोदयकाले च । तुर्किभाषाणां प्रभावश्च दृश्यते ।

टिप्पणी[सम्पादयतु]

  1. Bengali language in Asiatic Society of Bangladesh 2003
  2. Laurie Bauer, 2007, The Linguistics Student’s Handbook, Edinburgh

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बाङ्गला_भाषा&oldid=440021" इत्यस्माद् पुनः प्राप्तिः