सामग्री पर जाएँ

मास्ति वेङ्कटेश अय्यङ्गार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मास्ति वेङ्कटेश ऐय्यङ्गार्यः इत्यस्मात् पुनर्निर्दिष्टम्)
Maasthi Venkatesha Iyengar
जननम् (१८९१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-०६)६ १८९१
Hongenahalli, Malur taluk, Kolar district, Karnataka
मरणम् ६ १९८६(१९८६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-०६) (आयुः ९५)
Bangalore
काव्यनाम Srinivasa, Maasti
वृत्तिः District Commissioner, Professor, Writer
राष्ट्रीयता India
प्रकारः Fiction
विषयाः Kannada literature
साहित्यकान्दोलनम् Kannada literature Navodaya (New birth)Navodaya


www.kolar.nic.in/Masti.htm

मास्ति वेङ्कटेश अय्यङ्गार्यः (Maasthi Venkatesha Iyengar) कन्नडभाषायाः कश्चित् अप्रतिमः लेखकः । कन्नडसाहित्यलोके मास्ति इत्येव ख्यातः सः लेखकः श्रीनिवास इति काव्यनाम्ना लिखति स्म ।

व्यक्तित्वम्

[सम्पादयतु]

मास्ति वेङ्कटेश अय्यङ्गार्यः कोलारमण्डले मालूरु-उपमण्डलस्य मास्तिग्रामे १८९१ तमे वर्षे जूनमासस्य षष्ठे दिनाङ्के जन्म प्राप्तवान् । मेट्रिक्युलेशन् (१९०७), एफ्.ए (१९०९) , बि.ए (मद्रासविश्वविद्यालयतः १९१२ तमे वर्षे), मैसूरु-सिविल्-सर्विस् (१९१२) एम्.ए (मद्रास विश्वविद्यालयतः१९१४ तमे वर्षे) इत्यादिपरीक्षासु उत्तम अङ्कान् प्राप्य १९१४ तमे वर्षे मैसूरुसर्वकारे असिस्टेन्टकमीषनर्(जनपदाधिकारी) भूत्वा स्ववृत्तिजीवनं प्रारभत । १९१४ तः १९४३तमवर्षपर्यन्तं विविधानि उन्नतस्थानानि अलङ्कृत्य निवृत्तः अभवत् । १९२० तमे वर्षे तस्य प्रथमपुस्तकं केलवु सण्ण कथेगळु प्रकटितम् । लघुकथाः दीर्घकथाः कादम्बरीसम्पादनम् अनुवादः इत्यादिषु कन्नडसाहित्यक्षेत्रेषु स्वस्य योगदानं कृतवान् । १९८३ तमे वर्षे चिक्कवीरराजेन्द्रनामिकायाः कादम्बर्याः कृते ज्ञानपीठप्रशस्त्या पुरस्कृतः मास्तिवर्यः कन्नडभाषां प्रति चतुर्थज्ञानपीठप्रशस्तिम् आनीतवान् । आजीवनं कन्नडसेवां कृतवान् मास्तिः १९८६ तमे वर्षे जूनमासस्य ६ दिनाङ्के दिवङ्गतः ।

जीवनम्

[सम्पादयतु]

तस्य जन्मकाले गृहे दारिद्र्यम् आसीत् । ततः पूर्वं तस्य पूर्विकाः आढ्याः आसन् इत्यतः तस्य कुटुम्बीयाः वैभवेन जीवन्ति स्म। 'पेरियात्' (महाजनस्य गृहम्) इत्याख्यं तस्य गृहं नाम्नः सार्थक्यं वहति स्म। तस्य विद्याभ्यासः बहु कष्टेन प्रचलति स्म । अन्नदानार्थं ख्याते कुटुम्बे जातः वेङ्कटेशः साप्ताहिकभोजनव्यवस्थान्तर्गतेषु गृहेषु भोजनं कृत्वा विद्याभ्यासं करोति स्म। होंगेनळ्ळि, यलन्दूरु, शिवारपट्टन, मळवळ्ळी ,मैसूरु इत्यादिषु तथा अन्ते मद्रासनगरे च विद्यमानानां बन्धूनां साहाय्येन विद्याभ्यासं कृत्वा एम्. ए.पदवीम् अलभत । विद्याभ्यास काले सः सर्वासु परीक्षासु प्रथमस्थानं प्राप्तुम् इतरेभ्यः अवसरम् एव न दत्तवान् । मद्रासनगरे आंग्लविषये एम्. ए, कृतवान् सः सुवर्णपदकम् अपि सम्पादितवान्। मास्तिवर्यः प्रेसिडेन्सिमहाविद्यालये सार्धैकमासं यावत् अध्यापकः सन् कार्यं कृतवान् । बेङ्गळुरुनगरम् आगत्य सिविल् परीक्षां स्वीकृत्य तत्रापि प्रथमश्रेण्या उत्तीर्णः अभवत् । सर्वकारे असिस्टेन्ट् कमीषनर् भूत्वा समर्पर्करीत्या कार्यं निरूढवान् । साहित्यरचनाकार्यं तस्य प्रवृत्तिः अभवत् ।

साहित्यम्

[सम्पादयतु]

तेन १९१० तमे रङ्गन मदुवेनामकः लघुकथासङ्ग्रहः लिखितः । तदारभ्य आजीवनं तेन रचितानां कृतीनां संख्या अस्ति १२३। तेषु लघुकथाः, कादम्बर्यः, नाटकानि, विमर्शाः, प्रबन्धाः, धार्मिककृतयः, अनुवादाः च अन्तर्भवन्ति। "जीवन"नाम्नि तेन प्रकाशितायां पत्रिकायां लिखितानि सम्पादकीयानि, कवितानां सङ्ग्रहाः, काव्यानि अपि अत्र अन्तर्भवन्ति। विंशतिशतकस्य आरम्भकालः। कन्नड भाषायाः न तावान् प्रोत्साहः आसीत् । भाषाभिवृद्धिदृष्टया साहित्ये बहु कार्यं करणीयमासीत् । तदा मास्तिवर्यः साहित्यरचनाकार्यम् आरब्धवान् । लघुकथानां रचना तेन चितः साहित्यप्रकारः। श्रीनिवास इति काव्यनाम्ना मास्तिवर्यः शताधिकलघुकथाः अरचयत्। बहु कथा सङ्कलनानि प्रकटितवान् । तस्य एका लघुकथां राजाजिमहोदयः तमिळुभाषया भाषान्तरितवान् अस्ति। आंग्लभाषया, अन्यभारतीयभाषया मास्तिमहोदयस्य लघुकथाः भाषान्तरिताः सन्ति । दूरदर्शने अपि अस्य कथाः साभिनयं प्रदर्शिताः सन्ति। । कथाकथने मास्तिवर्यः असदृशः अस्ति। तस्य कथाः नैजभावम् उत्पादयन्ति । सुब्बण्ण तस्य ख्याता दीर्घकथा । मानवीय-अन्तःकरणानां सदुपयोगं कुर्वन् कथारचने तेन प्रयुक्तं तन्त्रम् अपूर्वम् अस्ति । सः लघुकथायाः जनकः इति ख्यातः । केन्द्रसाहित्य-अकाडेमी प्रशस्तिम् अपि अलभत । कथाकथनं पुण्यकार्यं इति सः भावयति स्म । कथाः इव कादम्बरी-कविता-प्रबन्धान् अपि अलिखत् । नाटकानपि अरचयत् । तस्य सर्वासु कृतिषु कुशलतां ,सौम्यतां, जीवनदर्शन च स्पष्टतया द्रष्टुं शक्नुमः । भारततीर्थ आदिकविः वाल्मीकिः इत्येते कृती रामायणसम्बद्धे। श्रीरामपट्टाभिषेकम् अस्ति इति रामायणाधारितं काव्यम्। रवीन्द्रनाथट्यागूर्-रामकृष्णपरमहंसस्य जीवनचरिते, पुरन्दरदास-कनकदास- अनार्कलि-तिरुपाणि- शिवाजिः इत्यादीनि नाटकानि। शोकस्पियर महोदयस्य नाटकानां अनुवादः अपि तेन कृतः अस्ति । मास्तिवर्यः द्वे कादम्बर्यौ अलिखत् । ज्ञानपीठ प्रशस्तिविजेतकृतिः चिक्कवीरराजेन्द्रः इति। कोडगुमण्डलस्य अन्तिमराज्ञः चिक्कवीरराजेन्द्रस्य विषये अस्ति। अपरा कादम्बरी-चन्नबसवनायक इति। "भाव" -मास्तिमहोदयस्य आत्मकथाग्रन्थः।

गौरवम्

[सम्पादयतु]

"मास्ति कन्नडद(कन्नडभाषायाः) आस्ति(सम्पत्)" इति उक्तिः सर्वविदिता अस्ति । सर्वेषां साहित्यकाराणां सः अग्रजः इव आसीत् । वरकविः द.रा.बेन्द्रे तं ज्येष्ठभ्राता इति गौरवेन वदति स्म । कन्नड-साहित्य-परिषदः अध्यक्षः भूत्वा सः सेवाम् अकरोत् । १९२९ तमे वर्षे बेळगावीनगर्यां प्रचलितस्य कन्नड-साहित्य-सम्मेळनस्य अध्यक्षः आसीत् सः । कर्णाटकविश्वविद्यालयः तस्मै गौरवडाक्ट्रेट पदवीं दत्त्वा गौरवार्पणम् अकरोत् । मैसूरुमहाराजः "राजसेवाप्रसक्तः " इति गौरवं प्रदत्तवान् । १९७२ तमे वर्षे "श्रीनिवास" इति तस्य अभिनन्दनाग्रन्थः प्रकटितः । मास्तिवर्यः कन्नडजनानाम् आदर्शप्रायः आसीत्। कष्टकाले अपि सः जीवनं सम्मुखीकृतवान्। साहित्यरचना केवलं न, तस्य पोषकः अपि असीत् । जी.पी.राजरत्नं तथा द.रा.बेन्द्रेसदृशाः अपि तम् आदर्शरूपेण भावयन्ति स्म।