सत्यव्रतशास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सत्यव्रतशास्त्रिणः सन्दर्शनम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

श्रीमान् सत्यव्रतशास्त्री (Satyavrata Shastri) महोदयः ‍अद्यतनसंस्कृतभाषासाहित्ये प्रसिद्धः कविः वैयाकरणश्च। "महामहोपाध्याय" "विद्यावाचस्पति" इत्याद्युपाधिभिः मण्डितेनानेन महाभागेन श्रीरामकीर्तिमहाकाव्यम् श्रीबोधिसत्त्वचरितम् श्रीगुरुगोविन्दसिंहचरितम् इन्दिरागान्धीचरितम् थायिदेशविलासम् इत्यादयः कृतयः प्रणीताः। अनेन प्रकटितास्वितरासु कृतिषु सुभाषितसाहस्री नामकं सङ्कलनं वैदिकव्याकरणम् नामकं भाषान्तरीकरणं च वर्तेते। भारतदेशे भाषासेवायै दीयमाना उत्तमोपाधिः "ज्ञानपीठपुरस्कारः" संस्कृतभाषाक्षेत्रे ऐदम्प्राथम्येन अनेन महाभागेन एव प्राप्तम् । 'श्रीगुरुगोविन्दसिंहचरितम्' काव्याय अनेन साहित्याकादमीपुरस्कारश्च गृहीतः। श्रीमता सत्यव्रतशास्त्रिणेदानीं नवदिल्ल्यां जवहरलाल्-विश्वविद्यालये गौरवाचार्यपदव्यलङ्कृता।

प्राप्ताः प्रशस्तयः[सम्पादयतु]

ज्ञानपीठपुरस्कारः प्रा. सत्यव्रतशास्त्रिणे[सम्पादयतु]

वैदुष्यगुणं प्रख्यापयन् वल्लभदेवः स्वीये ‘सुभाषितावलि’नामके ग्रन्थे न्यगादीत् -

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ इति ।

एतादृशः एव अस्ति विद्वत्तल्लजः संस्कृतसाहित्यविमर्शतत्परः प्रा सत्यव्रतशास्त्रिवर्यः( Satyavrata Shastri) , यो हि ज्ञानपीठपुरस्कारेण सभाजितः अस्ति । तेन सार्धं साक्षात्सम्भाषणार्थम् अहं श्रीसुधीष्टकुमारः च तदीयम् आवासं प्रति यातौ । तेन सार्धं सम्पन्नस्य साक्षात्सम्भाषणस्य केचन अंशाः अत्र उपस्थाप्यन्ते -

प्रश्नः - अनेकैः राष्ट्रियैः अन्ताराष्ट्रियैः च पुरस्कारैः सभाजितः तत्रभवान् साम्प्रतं किम् अनुभवति - ‘ज्ञानपीठपुरस्कारावाप्तेः अनन्तरम् ?

उत्तरम् - किं कथयामि ? मह्यम् अस्य पुरस्कारस्य उपायनं यदस्ति, तत् वाग्देव्याः सरस्वत्याः सम्मानः । तदपि अनुभवामि यत् साहित्यसाधनायाः ऐहिकं राष्ट्रस्य सर्वोत्तमं साहित्यसम्मानमेनम् अवाप्य अतितरां प्रसीदति मम अन्तरात्मा । यथा ‘शाङर्तधरपद्धतौ’ कविना प्रोक्तम् -

अजरामरवत् प्राज्ञः विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
- शाङगधरपद्धतिः - 66

अहं तु भगवत्याः शारदायाः समाराधनतत्परः । साम्प्रतम् अपि अनेकविधं साहित्यसंरचनसमीक्षात्मकं कार्यं योजनारूपेण करोमि । विगते शताब्दे त्रिंशत्तमे वर्षे (1930) सप्टम्बरमासस्य ऊनत्रिंशत्तमे दिनाङ्के अविभाजितभारतस्य लाहौरनगरे प्राप्तजन्मा अहं स्वनामधन्यस्य संस्कृतविदुषः प्रा चारुदेवशास्त्रिणः आत्मजः अस्मि । मम आरम्भिकी शिक्षा पितृचरणयोः एव सम्पन्ना । जन्मान्तरसंस्कारसम्पन्नोऽहं स्नातकोत्तरपरीक्षां यावत् सर्वदैव कक्षासु अग्रणीस्थानं प्राप्तवान् । बनारसहिन्दुविश्वविद्यालयतः पी.एच्.डी. इत्युपाधिम् अवाप्य मया दिल्लीविश्वविद्यालये अध्यापनम् आरब्धम् ।

प्रश्नः - इदं कथ्यते यत् भवान् प्राचीनार्वाचीनपद्धत्योः समन्वयस्वरूपं भजते इति ...

उत्तरम् - एवम् । संस्कृतस्य पारम्परिकरीत्या अध्ययनं मया पितृचरणकमलयोः विहितम् । युगपदेव, मया विद्यालयीयमहाविद्यालयीयविश्वविद्यालयीयरीत्या अपि अधीतम् । वाराणस्यां मया विविधविदुषां सन्निधौ विविधानि शास्त्राणि अपि अधीतानि ।

प्रश्नः - अध्यापनावसरे भवान् विविधपदानां दायित्वनिर्वहणपुरस्सरम् अनेकविधां काव्यरचनां व्यधात् यत् तत् केन प्रकारेण शक्यम् अजायत ? उत्तरम् - इयं तु काचित् परमेश्वरस्य अहैतुकी अनुकम्पा । भवन्तौ अवगच्छतः यत् कवित्वं दुर्लभं लोके । तथापि सततं भारतीयवैदिकवाङ्मयानुशीलननिरतः अहं सर्वदैव अन्वभवं यत् सरस्वत्याः समाराधनया परिनिष्ठितभावेन समर्पणपुरस्सरं च कश्चन जनः नूनं कवयितुं अर्हति इति ।

अद्यत्वे अहं ‘डायरी’ (Diary) इति संस्कृतगद्यलेखने व्यापृतः अस्मि । अस्य ग्रन्थस्य नाम अस्ति - ‘दिने दिने याति मदीयं जीवितम्’ । ग्रन्थेऽस्मिन् मया बाल्यकालस्य अविभक्तभारतस्य भारतविभाजनस्य च संस्मरणानि सङ्ग्रथितानि । युगपदेव ‘विश्वमहाकाव्यम्’ इति रचनायां स्पेन-इटली-रोमानियादिदेशानां प्रतिनिधिभूतानां मुख्यानां कवितानां संस्कृतभाषिकः सहजः प्रवाहमयः च अनुवादोऽपि विधीयते ।

दिल्लीविश्वविद्यालये अध्यापनावधौ कलासङ्कायस्य प्रमुखः, प्राध्यापकः, विभागप्रमुखः च सन् दायित्वं निरुह्य श्री जगन्नाथसंस्कृतविश्वविद्यालयस्य कुलपतिदायित्वमपि निरवहम् । तत्रान्तरे थाईलैण्डदेशे अभ्यागतप्राचार्यरूपेण अध्यापयन् श्रीरामकीर्तिमहाकाव्यम् व्यरचयम् । ततः पूर्वम् ‘बृहत्तरं भारतम्’ ‘श्रीबोधिसत्त्वचरितम्’ ‘श्रीगु्रुगोविन्दसिंहचरितम्’ ‘शर्मण्यदेशः सुतरां विभाति’ ‘इन्दिरागान्धिचरितम्’ इत्याद्याः अनेकविधाः रचनाः व्यरचयम् । एतत्सर्वं परमात्मनः अनुकम्पया मम च अनारतसाहित्यसाधनया च शक्यम् अजायत ।

प्रश्नः - देशे विदेशेषु यानि प्रमुखाणि पुरस्काराणि सन्ति प्रायेण तैः सर्वैरपि अत्रभवान् सभाजितः । इतः परमपि किं प्रियतरं स्यात् ?

उत्तरम् - पद्मश्री-साहित्याकादमीपुरस्कार-कालिदासपुरस्कारादयः राष्ट्रियाः, नेपाल-बेल्जियम-केनाडा-रोमानिया-थाईलैण्ड-इटली-इण्डोनेशियादि- देशीयाः अन्ताराष्ट्रियाश्च आहत्य मया षष्टिः पुरस्काराः अधिगताः । ज्ञानपीठपुरस्कारोऽयं एकषष्टिमितः, यो मया नातिचिरम् अधिगतः । यथा मया पूर्वं प्रोक्तं, एतत्तु वाग्देव्याः शारदायाः सम्मानः, वयं तु निमित्तमात्रभूताः स्मः ।

प्रश्नः - भवतः श्रीमुखात् श्रोतुम् इच्छामः यत् संस्कृतस्य किं महत्त्वम् इति ।...

उत्तरम् - आजीवनं संस्कृतस्य अध्ययनेन अध्यापनेन च रहस्यमिदम् अवगतं यत् संस्कृतस्य प्रत्येकमपि शब्दः अर्थविशेषम् आवहति इति । ‘जलम्’, ‘सलिलम्’, ‘नीरम्’ इत्यादयः शब्दाः जलस्य पर्यायवाचिनः इत्यस्माभिः कथ्यते । परञ्च यथार्थरूपेण एतेषु शब्देषु पर्यायवाचित्वं नैव, किञ्चित् अर्थभेदोऽपि विद्यते । एवमेव धनम्, अर्थः, वित्तम् इत्यादयः यथा सम्पदर्थ-द्योतकाः तद्वत् द्रवतीति द्रव्यम् इति व्युत्पत्तेः आधारेण ‘द्रव्य’शब्दोऽपि धनवाचकः अस्ति । तस्यात्र अस्ति अर्थविशेषः । अस्माकं प्रादेशिकभाषासु अपि महान् शब्दराशिः संस्कृतमयः । अत एव संस्कृताध्ययनं मातृभाषया सार्धं नूनं विधेयम् ।

प्रश्नः - संस्कृतभारती संस्कृतस्य पुनरुत्थानकार्ये निरन्तरं रता वर्तते । तया सह सहस्राधिकाः कार्यकर्तारः युक्ताः सन्तः कार्यं कुर्वन्ति । तेभ्यः भवतः सन्देशः कः ?

उत्तरम् - ये संस्कृताय समर्पितस्वान्ताः सन्ति ते अस्माभिः वर्धनीयाः शुभाशीर्भिः । संस्कृतं समेधतां, वर्धताम् । यथा महाभाष्यकारेण उक्तम् - ‘ग्रामे ग्रामे काठकं कालापकं च श्रूयते’ इति, एवमेव ग्रामे ग्रामे संस्कृतस्य अध्ययनम् अध्यापनं च प्रसरतु । संस्कृतं प्रति भवतां या निष्ठा, या च प्रतिबद्धता, सा अनुदिनं समेधताम् इति श्री भगवच्चरणयोः प्रार्थना । यतः संस्कृतं जीवातुभूतम् अस्य देशस्य । संस्कृतेनैव संस्कृतिः अपि सुरक्षिता । यदि भारतदेशः स्वर्गापवर्गस्य निमित्तभूतः तर्हि तत्र कारणं संस्कृतमेव । संस्कृतं प्रति जनानाम् उत्साहः कथं वर्धेत इत्यत्र भवन्तः आत्मानं व्यापारयन्ति इति सर्वथा भवन्तः अभिनन्दनार्हाः, वर्धापनार्हाश्च । अहं प्रत्येमि यत् भवतां सत्प्रयत्नैः संस्कृतस्य प्रचारः प्रसारः च सवर्र्त्र भविष्यति, पुनरपि संस्कृतभाषा लोकेन सर्वथा आत्मीयभूता इति स्वीकर्तुं शक्ष्यते इति । पुनरपि अत्र-भवतां हृदयेन अहम् अभिनन्दनं विदधामि । यादृशं कार्यं भवद्भिः क्रियते तत्तु अतीव प्रमोदावहम्, अस्माकं सर्वेषाम् उत्साहवर्धकं च ।

अन्ताराष्ट्रियाः[सम्पादयतु]

दृश्यताम्[सम्पादयतु]

सत्यव्रतशास्त्रिणः सन्दर्शनम्

"https://sa.wikipedia.org/w/index.php?title=सत्यव्रतशास्त्री&oldid=444087" इत्यस्माद् पुनः प्राप्तिः