सत्यव्रतशास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ

श्रीमान् सत्यव्रतशास्त्री (Satyavrata Shastri) महोदयः (29 सप्टेम्बर् 1930 - 14 नवम्बर् 2021) ‍अद्यतनसंस्कृतभाषासाहित्ये प्रसिद्धः कविः वैयाकरणश्च। "महामहोपाध्याय" "विद्यावाचस्पति" इत्याद्युपाधिभिः मण्डितेनानेन महाभागेन श्रीरामकीर्तिमहाकाव्यम् श्रीबोधिसत्त्वचरितम् श्रीगुरुगोविन्दसिंहचरितम् इन्दिरागान्धीचरितम् थायिदेशविलासम् इत्यादयः कृतयः प्रणीताः। अनेन प्रकटितास्वितरासु कृतिषु सुभाषितसाहस्री नामकं सङ्कलनं वैदिकव्याकरणम् नामकं भाषान्तरीकरणं च वर्तेते। भारतदेशे भाषासेवायै दीयमाना उत्तमोपाधिः "ज्ञानपीठपुरस्कारः" संस्कृतभाषाक्षेत्रे ऐदम्प्राथम्येन अनेन महाभागेन एव प्राप्तम् । 'श्रीगुरुगोविन्दसिंहचरितम्' काव्याय अनेन साहित्याकादमीपुरस्कारश्च गृहीतः। श्रीमता सत्यव्रतशास्त्रिणेदानीं नवदिल्ल्यां जवहरलाल्-विश्वविद्यालये गौरवाचार्यपदव्यलङ्कृता।

प्राप्ताः प्रशस्तयः[सम्पादयतु]

ज्ञानपीठपुरस्कारः प्रा. सत्यव्रतशास्त्रिणे[सम्पादयतु]

वैदुष्यगुणं प्रख्यापयन् वल्लभदेवः स्वीये ‘सुभाषितावलि’नामके ग्रन्थे न्यगादीत् -

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ इति ।

एतादृशः एव अस्ति विद्वत्तल्लजः संस्कृतसाहित्यविमर्शतत्परः प्रा सत्यव्रतशास्त्रिवर्यः( Satyavrata Shastri) , यो हि ज्ञानपीठपुरस्कारेण सभाजितः अस्ति । तेन सार्धं साक्षात्सम्भाषणार्थम् अहं श्रीसुधीष्टकुमारः च तदीयम् आवासं प्रति यातौ । तेन सार्धं सम्पन्नस्य साक्षात्सम्भाषणस्य केचन अंशाः अत्र उपस्थाप्यन्ते -

प्रश्नः - अनेकैः राष्ट्रियैः अन्ताराष्ट्रियैः च पुरस्कारैः सभाजितः तत्रभवान् साम्प्रतं किम् अनुभवति - ‘ज्ञानपीठपुरस्कारावाप्तेः अनन्तरम् ?

उत्तरम् - किं कथयामि ? मह्यम् अस्य पुरस्कारस्य उपायनं यदस्ति, तत् वाग्देव्याः सरस्वत्याः सम्मानः । तदपि अनुभवामि यत् साहित्यसाधनायाः ऐहिकं राष्ट्रस्य सर्वोत्तमं साहित्यसम्मानमेनम् अवाप्य अतितरां प्रसीदति मम अन्तरात्मा । यथा ‘शाङर्तधरपद्धतौ’ कविना प्रोक्तम् -

अजरामरवत् प्राज्ञः विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
- शाङगधरपद्धतिः - 66

अहं तु भगवत्याः शारदायाः समाराधनतत्परः । साम्प्रतम् अपि अनेकविधं साहित्यसंरचनसमीक्षात्मकं कार्यं योजनारूपेण करोमि । विगते शताब्दे त्रिंशत्तमे वर्षे (1930) सप्टम्बरमासस्य ऊनत्रिंशत्तमे दिनाङ्के अविभाजितभारतस्य लाहौरनगरे प्राप्तजन्मा अहं स्वनामधन्यस्य संस्कृतविदुषः प्रा चारुदेवशास्त्रिणः आत्मजः अस्मि । मम आरम्भिकी शिक्षा पितृचरणयोः एव सम्पन्ना । जन्मान्तरसंस्कारसम्पन्नोऽहं स्नातकोत्तरपरीक्षां यावत् सर्वदैव कक्षासु अग्रणीस्थानं प्राप्तवान् । बनारसहिन्दुविश्वविद्यालयतः पी.एच्.डी. इत्युपाधिम् अवाप्य मया दिल्लीविश्वविद्यालये अध्यापनम् आरब्धम् ।

प्रश्नः - इदं कथ्यते यत् भवान् प्राचीनार्वाचीनपद्धत्योः समन्वयस्वरूपं भजते इति ...

उत्तरम् - एवम् । संस्कृतस्य पारम्परिकरीत्या अध्ययनं मया पितृचरणकमलयोः विहितम् । युगपदेव, मया विद्यालयीयमहाविद्यालयीयविश्वविद्यालयीयरीत्या अपि अधीतम् । वाराणस्यां मया विविधविदुषां सन्निधौ विविधानि शास्त्राणि अपि अधीतानि ।

प्रश्नः - अध्यापनावसरे भवान् विविधपदानां दायित्वनिर्वहणपुरस्सरम् अनेकविधां काव्यरचनां व्यधात् यत् तत् केन प्रकारेण शक्यम् अजायत ? उत्तरम् - इयं तु काचित् परमेश्वरस्य अहैतुकी अनुकम्पा । भवन्तौ अवगच्छतः यत् कवित्वं दुर्लभं लोके । तथापि सततं भारतीयवैदिकवाङ्मयानुशीलननिरतः अहं सर्वदैव अन्वभवं यत् सरस्वत्याः समाराधनया परिनिष्ठितभावेन समर्पणपुरस्सरं च कश्चन जनः नूनं कवयितुं अर्हति इति ।

अद्यत्वे अहं ‘डायरी’ (Diary) इति संस्कृतगद्यलेखने व्यापृतः अस्मि । अस्य ग्रन्थस्य नाम अस्ति - ‘दिने दिने याति मदीयं जीवितम्’ । ग्रन्थेऽस्मिन् मया बाल्यकालस्य अविभक्तभारतस्य भारतविभाजनस्य च संस्मरणानि सङ्ग्रथितानि । युगपदेव ‘विश्वमहाकाव्यम्’ इति रचनायां स्पेन-इटली-रोमानियादिदेशानां प्रतिनिधिभूतानां मुख्यानां कवितानां संस्कृतभाषिकः सहजः प्रवाहमयः च अनुवादोऽपि विधीयते ।

दिल्लीविश्वविद्यालये अध्यापनावधौ कलासङ्कायस्य प्रमुखः, प्राध्यापकः, विभागप्रमुखः च सन् दायित्वं निरुह्य श्री जगन्नाथसंस्कृतविश्वविद्यालयस्य कुलपतिदायित्वमपि निरवहम् । तत्रान्तरे थाईलैण्डदेशे अभ्यागतप्राचार्यरूपेण अध्यापयन् श्रीरामकीर्तिमहाकाव्यम् व्यरचयम् । ततः पूर्वम् ‘बृहत्तरं भारतम्’ ‘श्रीबोधिसत्त्वचरितम्’ ‘श्रीगु्रुगोविन्दसिंहचरितम्’ ‘शर्मण्यदेशः सुतरां विभाति’ ‘इन्दिरागान्धिचरितम्’ इत्याद्याः अनेकविधाः रचनाः व्यरचयम् । एतत्सर्वं परमात्मनः अनुकम्पया मम च अनारतसाहित्यसाधनया च शक्यम् अजायत ।

प्रश्नः - देशे विदेशेषु यानि प्रमुखाणि पुरस्काराणि सन्ति प्रायेण तैः सर्वैरपि अत्रभवान् सभाजितः । इतः परमपि किं प्रियतरं स्यात् ?

उत्तरम् - पद्मश्री-साहित्याकादमीपुरस्कार-कालिदासपुरस्कारादयः राष्ट्रियाः, नेपाल-बेल्जियम-केनाडा-रोमानिया-थाईलैण्ड-इटली-इण्डोनेशियादि- देशीयाः अन्ताराष्ट्रियाश्च आहत्य मया षष्टिः पुरस्काराः अधिगताः । ज्ञानपीठपुरस्कारोऽयं एकषष्टिमितः, यो मया नातिचिरम् अधिगतः । यथा मया पूर्वं प्रोक्तं, एतत्तु वाग्देव्याः शारदायाः सम्मानः, वयं तु निमित्तमात्रभूताः स्मः ।

प्रश्नः - भवतः श्रीमुखात् श्रोतुम् इच्छामः यत् संस्कृतस्य किं महत्त्वम् इति ।...

उत्तरम् - आजीवनं संस्कृतस्य अध्ययनेन अध्यापनेन च रहस्यमिदम् अवगतं यत् संस्कृतस्य प्रत्येकमपि शब्दः अर्थविशेषम् आवहति इति । ‘जलम्’, ‘सलिलम्’, ‘नीरम्’ इत्यादयः शब्दाः जलस्य पर्यायवाचिनः इत्यस्माभिः कथ्यते । परञ्च यथार्थरूपेण एतेषु शब्देषु पर्यायवाचित्वं नैव, किञ्चित् अर्थभेदोऽपि विद्यते । एवमेव धनम्, अर्थः, वित्तम् इत्यादयः यथा सम्पदर्थ-द्योतकाः तद्वत् द्रवतीति द्रव्यम् इति व्युत्पत्तेः आधारेण ‘द्रव्य’शब्दोऽपि धनवाचकः अस्ति । तस्यात्र अस्ति अर्थविशेषः । अस्माकं प्रादेशिकभाषासु अपि महान् शब्दराशिः संस्कृतमयः । अत एव संस्कृताध्ययनं मातृभाषया सार्धं नूनं विधेयम् ।

प्रश्नः - संस्कृतभारती संस्कृतस्य पुनरुत्थानकार्ये निरन्तरं रता वर्तते । तया सह सहस्राधिकाः कार्यकर्तारः युक्ताः सन्तः कार्यं कुर्वन्ति । तेभ्यः भवतः सन्देशः कः ?

उत्तरम् - ये संस्कृताय समर्पितस्वान्ताः सन्ति ते अस्माभिः वर्धनीयाः शुभाशीर्भिः । संस्कृतं समेधतां, वर्धताम् । यथा महाभाष्यकारेण उक्तम् - ‘ग्रामे ग्रामे काठकं कालापकं च श्रूयते’ इति, एवमेव ग्रामे ग्रामे संस्कृतस्य अध्ययनम् अध्यापनं च प्रसरतु । संस्कृतं प्रति भवतां या निष्ठा, या च प्रतिबद्धता, सा अनुदिनं समेधताम् इति श्री भगवच्चरणयोः प्रार्थना । यतः संस्कृतं जीवातुभूतम् अस्य देशस्य । संस्कृतेनैव संस्कृतिः अपि सुरक्षिता । यदि भारतदेशः स्वर्गापवर्गस्य निमित्तभूतः तर्हि तत्र कारणं संस्कृतमेव । संस्कृतं प्रति जनानाम् उत्साहः कथं वर्धेत इत्यत्र भवन्तः आत्मानं व्यापारयन्ति इति सर्वथा भवन्तः अभिनन्दनार्हाः, वर्धापनार्हाश्च । अहं प्रत्येमि यत् भवतां सत्प्रयत्नैः संस्कृतस्य प्रचारः प्रसारः च सवर्र्त्र भविष्यति, पुनरपि संस्कृतभाषा लोकेन सर्वथा आत्मीयभूता इति स्वीकर्तुं शक्ष्यते इति । पुनरपि अत्र-भवतां हृदयेन अहम् अभिनन्दनं विदधामि । यादृशं कार्यं भवद्भिः क्रियते तत्तु अतीव प्रमोदावहम्, अस्माकं सर्वेषाम् उत्साहवर्धकं च ।

अन्ताराष्ट्रियाः[सम्पादयतु]

दृश्यताम्[सम्पादयतु]

सत्यव्रतशास्त्रिणः सन्दर्शनम्

"https://sa.wikipedia.org/w/index.php?title=सत्यव्रतशास्त्री&oldid=462962" इत्यस्माद् प्रतिप्राप्तम्