गोधूमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोधूमः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Poales
कुलम् Poaceae
उपकुलम् Pooideae
ट्राइबस् Triticeae
वंशः Triticum
L.
उपविभागीयस्तरः

References:
  Serial No. 42236 ITIS 2002-09-22

गोधूमः
संस्कृतः गोधूमः
रोटिकाः

अयं गोधूमः प्रायः जगति सर्वत्र वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । अयं गोधूमः आङ्लभाषायां Wheat इति उच्यते । हिन्दीभाषायां “गेंहू” इति, ल्याटिन्भाषायां Triticum vulgare इति च उच्यते । तृणकुले अयं गोधूमः Graminea कुले अन्तर्भवति । प्रायः जगति अधिकांशेषु देशेषु गोधूमः एव प्रधानः आहारः । बहुदुग्धः, क्षीरी, अरूपः, म्लेच्छभोजनः, यवनः, निस्तुषः, रसालः, सुमनाः इत्यादीनि गोधूमस्य अन्यानि नामानि । अनेन गोधूमेन पूरिका, रोटिका, पायसं, पर्पटः, अवदंशः, सुपिष्टकं, पिष्टकम् इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । गोधूमे महागोधूमः, मधूली, नन्दीमुखी इति त्रयः प्रभेदाः सन्ति । नवग्रहेषु अन्यतमस्य सूर्यस्य श्रेष्ठं धान्यं गोधूमः । एतं गोधूमम् अपि संस्कृत्य बहुविधं खाद्यविशेषं निर्मान्ति ।

आयुर्वेदस्य अनुसारम् अस्य गोधूमस्य स्वभावः[सम्पादयतु]

गोधूमसस्यम्
रोटिकापचनम्
कर्तनानन्तरं राशीकृतानि गोधूमसस्यानि
विश्वे गोधूमं वर्धमानाः देशाः
गोधूमेन निर्मिताः खाद्यपदार्थाः
गोधूमपिष्टम्

गोधूमः तैलांशयुक्तः । अयं मधुररुचियुक्तः, पचनार्थं जडः च । गोधूमः अत्यन्तं चैतन्यदायकः, बलवर्धकः, रुचिकरः, वर्णकारकः, व्रणसंरोपकः च ।

“गोधूमः मधुरः शीतो वातपित्तहरो गुरुः ।
कफशुक्रप्रदो बल्यः स्निग्धः सन्धान्कृत् सरः ॥
जीवनो बृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत् ॥“ (भावप्रकाशः – ३४)
“वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ।
सन्धानकारी मधुरो गोधूमो स्थैर्यकृत्सरः ॥“
१. गोधूमः वातं पित्तं च परिहरति ।
२. गोधूमः कफं शुक्रं च वर्धयति ।
३. अयं गोधूमः देहवृद्धिकरः, चैतन्यदायकः, बलवर्धकः च ।
४. गोधूमः वर्णकारकः, रुचिकरः च ।
५. अयं गोधूमः भग्नानाम् अस्थीनां पुनः योजने साहाय्यकारी ।
६. अयं गोधूमः शरिरस्य स्थिरतां रक्षति ।
७. गोधूमः व्रणान् बहुशीघ्रं शुष्कीकरोति ।
८. अयं गोधूमः शरीरस्य ओजः वर्धयति ।
९. गोधूमः मलविसर्जनं कारयति ।
१०. गोधूमः वीर्यवर्धकः, शरीरस्य दार्ढ्यवर्धकः च ।
११. मधूली नामकः गोधूमः मध्यप्रदेशे वर्धते । सः लघ्वाकारकः , पथ्यः च ।
१२. पञ्जाबप्रदेशे महागोधूमः वर्धते ।
१३. नन्दीमुखी नामकः गोधूमः कण्टकरहितः । अयम् अपि मधूली इव पथ्यः ।
१४. स्थूलानां स्थौल्यनिवारणार्थं गोधूमः अत्युत्तमः आहारः ।
१५. गोधूमः उष्णः इति जनानाम् अभिप्रायः अस्ति । किन्तु शास्त्रानुगुणं गोधूमः शीतगुणयुक्तः ।
१६. तैले भर्जिताः गोधूमेन निर्मिताः पूरिकाः, तैलम् उपयुज्य गोधूमेन निर्मिताः रोटिकाः च विदग्धाः भवन्ति इत्यनेन उष्णाः भवन्ति । अतः तैलं विना एव रोटिकाः निर्माय तदुपरि घृतं लेपयित्वा खादनेन उष्णाः न भवन्ति ।
१७. अभ्यासः नास्ति चेत् केषाञ्चन अजीर्णः भवति गोधूमः । तेन अजीर्णस्य कारणेन पीनसः, कासः, अतिसारः वा भवति ।
१८. गोधूमस्य उपयोगेन कदाचित् केषाञ्चन “अलर्जि” अपि भवितुम् अर्हति । तदा गोधूमस्य वर्जनम् एव वरम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोधूमः&oldid=480257" इत्यस्माद् प्रतिप्राप्तम्