हिन्द-यूरोपीयभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्द-यूरोपीय
भारत-यूरोपीय अथवा भारोपीय
भौगोलिकविस्तारः

पूर्व-औपनिवेशिकयुगम् – यूरेशियाखण्डः, उत्तर-अफ्रिका

अद्यतनयुगम् – विश्वव्यापिनी
३२० कोटिः (३.२ बिलियन्) मातृभाषा वक्ताः
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाः आद्यहिन्द-यूरोपीय
उपश्रेण्यः
आइसो ६३९-२६३९-५: ine

हिन्द-युरोपीयभाषाणां यूरेशियाखण्डे वर्तमानकालस्य वितरणम्:
  पर-हिन्द-यूरोपीयभाषाः
बहुभाषिकत्वं कुत्र सामान्यम् अस्ति इति बिन्दुयुक्ताः/पट्टिकायुक्ताः क्षेत्राणि सूचयन्ति (मानचित्रे पूर्णविस्तारेण अधिकं दृश्यते)।

हिन्द-यूरोपीयभाषाः (भारत-यूरोपीयभाषाः अथवा भारोपीयभाषाः) यूरोपखण्डस्य प्रचण्डबहुमतस्य, ईरानीयसमस्थलस्य, उत्तरभारतीय-उपमहाद्वीपस्य च मूलनिवासी भाषाकुटुम्बः अस्ति । आधुनिककाले अस्य कुटुम्बस्य काश्चन यूरोपीयभाषाः यथा आङ्ग्ला, फ्रेञ्च्, पुर्तगाली, रूसी, डेनिश्, डच्, स्पॅनिश्औपनिवेशिकतायाः माध्यमेन विस्तारिताः सन्ति, अधुना अनेकेषु महाद्वीपेषु भाष्यन्ते च । हिन्दु-यूरोपीयभाषाकुटुम्बः अनेकेषु शाखासु वा उपकुटुम्बेषु विभक्तः अस्ति । यस्य ८ समूहाः अद्यत्वेऽपि भाषाभिः सह जीविताः सन्ति – अल्बेनियन, आर्मीनियन, इतालिक, जर्मेनिक, बाल्टो-स्लाविक, यूनानीय, सेल्टिक, हिन्द-ईरानीय; अन्ये च षट् उपविभागाः ये अधुना विलुप्ताः सन्ति ।

अद्यत्वे, अधिकांशवक्तृभिः सह व्यक्तिगतभाषाः भवन्ति – आङ्ग्ल, हिन्दी, स्पैनिश, बाङ्गला, फ्रेञ्च, रूसी, पुर्तगाली, जर्मन, फारसी, पञ्जाबी च, प्रत्येकं दशकोटिभ्यः (100 मिलियन्) अधिकैः वक्तृभिः सह । अन्ये बहवः भाषाः लघुः विलुप्ततायाः संकटे च सन्ति ।

समग्रतया विश्वस्य ४६% जनसङ्ख्या (३२० कोटिः वा ३.२ बिलियन्) प्रथमाभाषा इति हिन्द-यूरोपीयभाषां वदति, कस्यापि भाषापरिवारस्य सर्वोच्चः । एथ्नोलॉग् इत्यस्य अनुमानेन अत्र प्रायः ४४५ जीवन्ति भारत-यूरोपीयभाषाः सन्ति, तेषां द्वौ-तृतीयाभागाधिकाः (३१३) हिन्द-ईरानीयशाखायाः[१]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Ethnologue report for Indo-European". Ethnologue.com. 
"https://sa.wikipedia.org/w/index.php?title=हिन्द-यूरोपीयभाषाः&oldid=474970" इत्यस्माद् प्रतिप्राप्तम्